वस्तुपरिच्छिन्नत्वविवरणम् इतिपदमत्र समीचीनं स्यात् । ब्रह्मनिष्ठाभावप्रतियोगिन एव जिज्ञासास्पदत्वात् । अथवा वस्तुपरिच्छेदविवरणम् इति पठनीयम् ।
वस्तुपरिच्छेदत्वेतिप्रयोगे तु वस्तुपरिच्छेदनिष्ठासाधारणधर्म्मस्य निरूपणीयत्वमापतति ।
विदुषा @दिवाकराचार्य्येणेदमुक्तं यत् श्रीवैष्णवैः काश्मीरशैवैः चापीदमङ्गीक्रियत इति ।
तेन भागवतश्लोकद्वयमपि वस्तुपरिच्छेदराहित्यपरं प्रकटितम् । तदग्रे वक्ष्यते ।
तत्र तावत्
GoogleBooks1
GoogleBooks2 इत्यत्रेदं लब्धं यत् तैत्तिरीयकश्रुतिः श्रीवैष्णवैरपि ब्रह्मणि वस्तुपरिच्छेदराहित्यप्रतिपादकतया व्याख्यायते । तादृशत्वञ्च ब्रह्मणो न अद्वितीयत्वात् किन्तु सर्व्वानुस्यूतत्वात् ।
तथा च एतादृशं व्याख्यानमाश्रित्य वस्तुपरिच्छेदराहित्यं तादृशेषु सर्व्वेषु मतेषु सम्पादयितुं शक्यते यत्र ईश्वरस्य विभुत्वं वा सर्व्वैस्तादात्म्यं वा सर्व्वाकारेण परिणतत्वं वा ।
परमेवमिदमुपपद्यते न वा इति तु अन्यत् । उक्तवस्तुपरिच्छेदाभावस्यानुपपत्तिमादायैवाद्वैतिभिरद्वितीयत्वेन तादृशत्वं ब्रह्मणो वक्तव्यम् । तच्च कथम् इति परीक्षणीयमस्माभिरत्रैवाग्रे पत्रप्रवाहे कदाचित् ।
इदमपि दृश्यतां यत् भवतैव कदाचित्
प्रकाशितम् । अत्राप्युद्धृतशाङ्करभाष्ये वस्तुपरिच्छेदराहित्यं -
कथं पुनर्वस्तुत आनन्त्यम्? सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्य अन्तो भवति, वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते । यतो यस्य बुद्धेर्निवृत्तिः, स तस्यान्तः । तद्यथा गोत्वबुद्धिरश्वत्वान्निवर्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति । स चान्तो भिन्नेषु वस्तुषु दृष्टः । नैवं ब्रह्मणो भेदः । अतो वस्तुतोऽप्यानन्त्यम् । कथं पुनः सर्वानन्यत्वं ब्रह्मण इति, उच्यते – सर्ववस्तुकारणत्वात् । सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्रह्म ।
इत्युक्तम् । अयमंशो न प्रतिवादिनामप्यनिष्टम् । तैरपि ब्रह्मापेक्षयात्यन्तभिन्नस्य जगतोऽस्वीकारात् । सर्व्वथा भिन्नं हि वस्तु परिच्छेदकं स्यात् । न च तादृशं किञ्चिदस्ति इति कथं वस्तुपरिच्छेदो विभुसर्व्वानुस्यूतसर्व्वकारणेश्वरवादिनामपि ।
भागवतपद्यञ्चेदं विदुषा दिवाकरेणोदाहृतं -
भा पु ३.०७.५
देशतः कालतो यो ऽसाव् अवस्थातः स्वतो ऽन्यतः।
अविलुप्तावबोधात्मा स युज्येताजया कथम्॥
तत्र श्रीधरेणोक्ताद्वैतानुकूला व्याख्या -
अत्र बोधस्यानाश एव प्रतिपाद्यते इति सद्वितीयत्वरूपो वस्तुपरिच्छेदो नात्र निषिद्ध इति मम मतम् । परमर्थतोत्र अद्वितीयत्वेन द्वितीयस्य नाशकस्यासम्भवात् अन्यतोऽनाश इति वक्तुं शक्यत एव ।
वीरराघवाचार्य्याणां विशिष्टाद्वैतानुकूला व्याख्या -
आनन्दतीर्थानां रीत्या त्विदमष्टमाध्याये । तत्र च तैर्ब्रह्माभिन्नस्य तद्धर्म्मस्य ज्ञानस्य नित्यत्वं प्रतिपाद्यत इत्युक्तं -
@शिवसेनानीरिदानीं किञ्चिद्वक्तुं शक्नुयात् व्याकरणमधिकृत्य । तत्र ब्रह्मणो जगदाकारेण विवर्त्तितत्वात् विभुत्वात् च वस्तुपरिच्छेदराहित्यं वक्तुं शक्यत एव इति मन्ये ।
न्यायशास्त्रे तु ईश्वरस्य विभुत्वेनैव वस्तुकृतपरिच्छेदाभावो वक्तुं शक्यत एव ।