वस्तुपरिच्छेदत्वविषये काचन चिज्ञासा

24 views
Skip to first unread message

V Subrahmanian

unread,
Jan 5, 2017, 9:22:20 AM1/5/17
to शास्त्रम्
सर्वेभ्यः प्रणामाः समर्प्यन्ते ।

अद्वैतवेदान्ते तावत् ब्रह्मणः श्रुत्युक्तसत्यज्ञानानन्तत्वलक्षणविवरणावसरे आनन्त्यविषये त्रिविधपरिच्छेदराहित्यत्वलक्षणं प्रदर्श्यते । तत्र देशतः कालतः तथा वस्तुतः इति परिच्छेदत्वत्रयमुक्त्वा त्रयाणामपि ब्रह्मण्यसम्भवः प्रतिपाद्यते । अत्र आद्यद्वयस्य राहित्यं तु अद्वैतेतरेऽपि अङ्गीकुर्वन्ति परन्तु अन्तिमस्य वस्तुपरिच्छेदराहित्यस्य न इति मम परिज्ञानम् । यतो हि ब्रह्मणः सकाशात् अन्यस्य एकस्य वस्तुनः अपि  वस्त्वन्तरत्वेन अभ्युपगमे तेन वस्तुना ब्रह्म परिच्छिद्यते इति आनन्त्यस्य भङ्गः इति अद्वैतिनामाशयः । अन्येषां मते तु इतरवस्तुनः  ब्रह्मभिन्नत्वेनानङ्गीकारे अद्वैतिसाम्यत्वप्रसक्तिरिति दोषः । वस्तुपरिच्छेद्त्वविवरणं तैत्तिरीयोपनिषद्भाष्ये भाष्यकारैः ’सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यस्य मन्त्रस्य व्याख्यानावसरे बहुधा कृतं वर्तते यदपेक्षितं चेत् तत्र द्रष्टव्यम् ।

अत्र मम जिज्ञासा एवं भवति -  किमेतद्वस्तुपरिच्छेदत्वं शास्त्रान्तरे क्वचिदुक्तं वा न वा इति  । प्रायेण न्यायशास्त्रे वा व्याकरणे वा इतरत्र वा अस्य विचारः कृतो वा इति । विद्वांसः कृपया परिहरिष्यन्तामिति शम् ।   

सुब्रह्मण्यशर्मा

श्रीमल्ललितालालितः

unread,
Jan 7, 2017, 1:07:26 PM1/7/17
to shaa...@googlegroups.com


On Thursday, January 5, 2017 at 7:52:20 PM UTC+5:30, V Subrahmanian wrote:
सर्वेभ्यः प्रणामाः समर्प्यन्ते ।

अद्वैतवेदान्ते तावत् ब्रह्मणः श्रुत्युक्तसत्यज्ञानानन्तत्वलक्षणविवरणावसरे आनन्त्यविषये त्रिविधपरिच्छेदराहित्यत्वलक्षणं प्रदर्श्यते । तत्र देशतः कालतः तथा वस्तुतः इति परिच्छेदत्वत्रयमुक्त्वा त्रयाणामपि ब्रह्मण्यसम्भवः प्रतिपाद्यते । अत्र आद्यद्वयस्य राहित्यं तु अद्वैतेतरेऽपि अङ्गीकुर्वन्ति परन्तु अन्तिमस्य वस्तुपरिच्छेदराहित्यस्य न इति मम परिज्ञानम् । यतो हि ब्रह्मणः सकाशात् अन्यस्य एकस्य वस्तुनः अपि  वस्त्वन्तरत्वेन अभ्युपगमे तेन वस्तुना ब्रह्म परिच्छिद्यते इति आनन्त्यस्य भङ्गः इति अद्वैतिनामाशयः । अन्येषां मते तु इतरवस्तुनः  ब्रह्मभिन्नत्वेनानङ्गीकारे अद्वैतिसाम्यत्वप्रसक्तिरिति दोषः । वस्तुपरिच्छेद्त्वविवरणं

वस्तुपरिच्छिन्नत्वविवरणम् इतिपदमत्र समीचीनं स्यात् । ब्रह्मनिष्ठाभावप्रतियोगिन एव जिज्ञासास्पदत्वात् । अथवा वस्तुपरिच्छेदविवरणम् इति पठनीयम् ।
वस्तुपरिच्छेदत्वेतिप्रयोगे तु वस्तुपरिच्छेदनिष्ठासाधारणधर्म्मस्य निरूपणीयत्वमापतति ।

तैत्तिरीयोपनिषद्भाष्ये भाष्यकारैः ’सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यस्य मन्त्रस्य व्याख्यानावसरे बहुधा कृतं वर्तते यदपेक्षितं चेत् तत्र द्रष्टव्यम् ।

अत्र मम जिज्ञासा एवं भवति -  किमेतद्वस्तुपरिच्छेदत्वं

अत्रापि वस्तुपरिच्छेद इति वा वस्तुपरिच्छिन्नत्वम् इति वा पठनीयम् । 

शास्त्रान्तरे क्वचिदुक्तं वा न वा इति  ।

विदुषा @दिवाकराचार्य्येणेदमुक्तं यत् श्रीवैष्णवैः काश्मीरशैवैः चापीदमङ्गीक्रियत इति ।
तेन भागवतश्लोकद्वयमपि वस्तुपरिच्छेदराहित्यपरं प्रकटितम् । तदग्रे वक्ष्यते ।
तत्र तावत् GoogleBooksGoogleBooks2 इत्यत्रेदं लब्धं यत् तैत्तिरीयकश्रुतिः श्रीवैष्णवैरपि ब्रह्मणि वस्तुपरिच्छेदराहित्यप्रतिपादकतया व्याख्यायते । तादृशत्वञ्च ब्रह्मणो न अद्वितीयत्वात् किन्तु सर्व्वानुस्यूतत्वात् । 
तथा च एतादृशं व्याख्यानमाश्रित्य वस्तुपरिच्छेदराहित्यं तादृशेषु सर्व्वेषु मतेषु सम्पादयितुं शक्यते यत्र ईश्वरस्य विभुत्वं वा सर्व्वैस्तादात्म्यं वा सर्व्वाकारेण परिणतत्वं वा ।
परमेवमिदमुपपद्यते न वा इति तु अन्यत् । उक्तवस्तुपरिच्छेदाभावस्यानुपपत्तिमादायैवाद्वैतिभिरद्वितीयत्वेन तादृशत्वं ब्रह्मणो वक्तव्यम् । तच्च कथम् इति परीक्षणीयमस्माभिरत्रैवाग्रे पत्रप्रवाहे कदाचित् ।

इदमपि दृश्यतां यत् भवतैव कदाचित् प्रकाशितम् । अत्राप्युद्धृतशाङ्करभाष्ये वस्तुपरिच्छेदराहित्यं -
कथं पुनर्वस्तुत आनन्त्यम्? सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्य अन्तो भवति, वस्त्वन्तरबुद्धिर्हि प्रसक्ताद्वस्त्वन्तरान्निवर्तते । यतो यस्य बुद्धेर्निवृत्तिः, स तस्यान्तः । तद्यथा गोत्वबुद्धिरश्वत्वान्निवर्तत इत्यश्वत्वान्तं गोत्वमित्यन्तवदेव भवति । स चान्तो भिन्नेषु वस्तुषु दृष्टः । नैवं ब्रह्मणो भेदः । अतो वस्तुतोऽप्यानन्त्यम् । कथं पुनः सर्वानन्यत्वं ब्रह्मण इति, उच्यते – सर्ववस्तुकारणत्वात् । सर्वेषां हि वस्तूनां कालाकाशादीनां कारणं ब्रह्म ।
इत्युक्तम् । अयमंशो न प्रतिवादिनामप्यनिष्टम् । तैरपि ब्रह्मापेक्षयात्यन्तभिन्नस्य जगतोऽस्वीकारात् । सर्व्वथा भिन्नं हि वस्तु परिच्छेदकं स्यात् । न च तादृशं किञ्चिदस्ति इति कथं वस्तुपरिच्छेदो विभुसर्व्वानुस्यूतसर्व्वकारणेश्वरवादिनामपि । 

भागवतपद्यञ्चेदं विदुषा दिवाकरेणोदाहृतं -
भा पु ३.०७.५ 
देशतः कालतो यो ऽसाव् अवस्थातः स्वतो ऽन्यतः। 
अविलुप्तावबोधात्मा स युज्येताजया कथम्॥ 
तत्र श्रीधरेणोक्ताद्वैतानुकूला व्याख्या -
अत्र बोधस्यानाश एव प्रतिपाद्यते इति सद्वितीयत्वरूपो वस्तुपरिच्छेदो नात्र निषिद्ध इति मम मतम् । परमर्थतोत्र अद्वितीयत्वेन द्वितीयस्य नाशकस्यासम्भवात् अन्यतोऽनाश इति वक्तुं शक्यत एव ।

वीरराघवाचार्य्याणां विशिष्टाद्वैतानुकूला व्याख्या -

आनन्दतीर्थानां रीत्या त्विदमष्टमाध्याये । तत्र च तैर्ब्रह्माभिन्नस्य तद्धर्म्मस्य ज्ञानस्य नित्यत्वं प्रतिपाद्यत इत्युक्तं -

प्रायेण न्यायशास्त्रे वा व्याकरणे वा इतरत्र वा अस्य विचारः कृतो वा इति ।
 
@शिवसेनानीरिदानीं किञ्चिद्वक्तुं शक्नुयात् व्याकरणमधिकृत्य । तत्र ब्रह्मणो जगदाकारेण विवर्त्तितत्वात् विभुत्वात् च वस्तुपरिच्छेदराहित्यं वक्तुं शक्यत एव इति मन्ये ।
न्यायशास्त्रे तु ईश्वरस्य विभुत्वेनैव वस्तुकृतपरिच्छेदाभावो वक्तुं शक्यत एव ।

विद्वांसः कृपया परिहरिष्यन्तामिति शम् ।   

अत्र विदुषा श्रीरमणशर्म्मणा बोधितं यत् परिहरिष्यन्ताम् इति दुष्टं पदम् इति । तत्रास्माभिः क्रियापदरूपाणि दृष्ट्वा प्रयोगसाधुत्वं सम्पादयितुं शक्यते । सर्व्वथाऽदृष्टं पदं न कल्पनीयम् इति भावः ।
Screen Shot 2017-01-07 at 23.18.35.png
Screen Shot 2017-01-07 at 23.22.01.png
Screen Shot 2017-01-07 at 23.25.45.png

श्रीमल्ललितालालितः

unread,
Jan 8, 2017, 4:52:27 AM1/8/17
to शास्त्रम्


On Saturday, January 7, 2017 at 11:37:26 PM UTC+5:30, श्रीमल्ललितालालितः wrote:

तथा च एतादृशं व्याख्यानमाश्रित्य वस्तुपरिच्छेदराहित्यं तादृशेषु सर्व्वेषु मतेषु सम्पादयितुं शक्यते यत्र ईश्वरस्य विभुत्वं वा सर्व्वैस्तादात्म्यं वा सर्व्वाकारेण परिणतत्वं वा ।
परमेवमिदमुपपद्यते न वा इति तु अन्यत् । 

विभुत्वमात्राङ्गीकर्त्तॄणां येषां मते ब्रह्म न जगदुपादानं तन्मते जगता सह तस्य तादात्म्याभेदाद्यभावेन वस्तुपरिच्छेदो भवति इति तार्किकमते द्वैतमते च न वस्तुपरिच्छेदराहित्यं ब्रह्मणः सम्भवति । - इतिपूर्व्वोक्तस्य परिष्कारो विधीयते । 
परं द्वैतशास्त्रे तैत्तिरीयकशाखागतानन्तपदव्याख्यानं कथं क्रियत इति न मयैतावता परामृष्टम् । केचन द्वैतविद्वांसस्तत्र किञ्चिद्वदेयुः ।
Reply all
Reply to author
Forward
0 new messages