आगामिबृहस्पतिवासरे वर्षस्य चरमे दिने मार्गशीर्षकृष्णप्रतिपदि रात्रौ सप्तवादने भविष्यमाणायां तृतीयचक्रस्य चतुर्थसभायां ♦️हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हलिति सूत्रविचारं श्रीमान् सुवासशर्मेत्ययं प्रतिपादयिता।
♦️पूर्वत्रासिद्धमिति सूत्रविचारं श्रीमान् बरालयोगेशशर्मेत्ययं प्रतिपादयिता।
समेषामुपस्थितिं प्रार्थयामहै।
सभासाधनम्।
https://www.freeconferencecall.com/wall/vyakaranavakyartha सभास्थलम् - स्वस्थानम्।
सभामङ्गलम्।
🔸 🕉️ नमः पाणिनिकात्यायनपतञ्जलिशब्दविद्यासंप्रदायकर्तृभ्यो वंशऋषिभ्यो नमो महद्भ्यो गुरुभ्यः।
🔸 येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः।।
🔸 प्रथमस्य प्रथमः पादः।
अनेन सभा प्रारभताम्।