किं किमत्र प्रेषयितुं शक्यते ।

38 views
Skip to first unread message

ललितालालितः

unread,
Jan 5, 2017, 1:51:35 PM1/5/17
to shaa...@googlegroups.com
महादेव ।

अत्र समूहे केवलं जिज्ञासा एव प्रेष्यन्ते इति न ।
किन्तु -
  1. कस्यचन ग्रन्थस्याध्ययनकाले भवतो यदर्थविषयकप्रकाशविशेषो जातः तस्याविस्मरणाय सोत्र प्रेषयितुं शक्यते ।
  2. तथैव कस्यचन ग्रन्थस्याध्ययनकाले यत् उक्तार्थसम्बद्धं किञ्चिदनुक्तमपि भवतोहितं चेत् तस्य परीक्षार्थमप्यत्र प्रेषणं कर्त्तुं शक्यते ।
  3. भवद्भिः को ग्रन्थ इदानीं सम्पाद्यते इत्यपि प्रकाशयितुं शक्यते ।
  4. भवता काचन मातृका सम्पाद्यते चेत् , सर्व्वेत्र तज्ज्ञातुं शक्नुवन्ति यदि तद्विषये भवता पत्रं प्रेष्येत । तथा च एकामेव मातृकामाश्रित्य बहूनां विदुषां कार्य्यं वारयितुमपि शक्यते ।
  5. भवतः शोधपत्रविषयोप्यत्र सूच्यते चेत् , तथैव साङ्कर्य्यवारणं शक्यम् ।
  6. ग्रन्थविशेषे पङ्क्तिविशेषस्यानन्वयभाने पूर्व्वापरसङ्गत्यभानेपि तथैवात्र विस्तरेण स्वस्य संशयः प्रकाशयितुं शक्यते । तथा च विद्वद्भिस्तत्र दोषादिप्रदर्शनेन भवद्बोधशोधनं कर्त्तुं शक्यते ।
  7. कस्यचन ग्रन्थस्य मुद्रणं प्रकाशश्च जातश्चेत् अत्र सूचयितुं शक्यते ।
  8. पारम्परिकाणां शास्त्रार्थसभाविषयेत्र प्रेषयितुं शक्यते येन तत्र गन्तुकामानां लाभः स्यात् ।
  9. आधुनिका ये शास्त्रस्यान्यथाव्याख्यानं कुर्व्वन्ति तस्य निराकरणं शास्त्रदृष्ट्या कथं भवेत् इति त्वत्रावसरं लभते एव ।
  10. शास्त्रस्य प्रामाण्याप्रामाण्यादिकं परीक्षितुं यत्नोपि स्वागतार्हः ।
प्रकाशयितुं योग्याः केचनावशिष्टाश्चेत् सूचयन्तु ।
Reply all
Reply to author
Forward
This conversation is locked
You cannot reply and perform actions on locked conversations.
0 new messages