...पर+एद्यवि... | दक्षिण+एनप् । उभत्र यचि भमित्यनेन भसंज्ञायां सत्यां यस्येति चेत्यनेन अकारलोपे सति तदाभावान्न वृद्धिप्राप्ति: |
इदं कस्माल्लभ्यत इति न ज्ञायते । ...तदनन्तरमेव स्थानिवत्त्वेन ऐसो विभक्तिसंज्ञा । आदेशे सत्येव स्थानिवत्त्वेन विभक्तिसंज्ञा | आदेशात् प्राग् तु नास्ति | जस: शी इत्यस्य सूत्रस्य कौमुदीं पठतु सम्यक्तया | तत्रोक्तं "सर्वादेशत्वात्प्रागित्संज्ञाया एवाभावात् |"
इदं कस्माल्लभ्यत इति न ज्ञायते । ...तदनन्तरमेव स्थानिवत्त्वेन ऐसो विभक्तिसंज्ञा । आदेशे सत्येव स्थानिवत्त्वेन विभक्तिसंज्ञा | आदेशात् प्राग् तु नास्ति | जस: शी इत्यस्य सूत्रस्य कौमुदीं पठतु सम्यक्तया | तत्रोक्तं "सर्वादेशत्वात्प्रागित्संज्ञाया एवाभावात् |"इदं तु नावगम्यते । तत्र शित्त्वादनेकाल्त्वाद्वा सर्वादेशः इति प्रश्नस्य समाधानं सिद्धान्तितम् । तस्य का उपयोगिताऽत्र ? तत्र शी इत्यस्य प्रत्ययस्य सर्वादेशत्वात्प्राक् अनेकाल्त्वात्सर्वादेशः तदनन्तरं लशक्वतद्धिते तस्य लोप इति लोपः इति ग्रन्थकारस्य निर्देशः । तत्र सर्वादेशत्वात्प्राक् विभक्तिसंज्ञा न भवतीति कथं ज्ञायते ?