जाबालोपनिषदुक्तज्ञानिनः

6 views
Skip to first unread message

V Subrahmanian

unread,
Jan 21, 2017, 10:28:21 AM1/21/17
to शास्त्रम्
नमांसि

जाबालोपनिषदि तावत् अन्ते अपरोक्षज्ञानिनां नामान्युदहृतानि दृश्यन्ते -

तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजड 
भरतदत्तात्रेयरैवतक-   इति ।

अत्र प्रश्नः - तेषु मध्ये दुर्वास,ऋभु,निदाघ,जडभरत, दत्तात्रेय प्रभृतयः पुराणेषु प्रसिद्धाः वेदेऽप्रसिद्धाः इति मत्वा कथमस्यामुपनिषदि पठिताः इति । अत्र   ’एकस्यामुपनिषदि पठितत्वमात्रेणालं तेषां उपनिषद्भवप्रामाण्यम्, अन्यत्र तेषां वेदे उल्लेखो मा अपेक्ष्यताम् ’ इत्युच्यते चेत् प्रश्नावकाश एव न भवति । एतत्समाधानं विहाय अन्यदपि समाधानमस्ति वा इति कृत्वा पृच्छ्यते ।

भवदीयः
सुब्रह्मण्यशर्मा  

ललितालालितः

unread,
Jan 21, 2017, 11:09:02 AM1/21/17
to शास्त्रम्


On Saturday, 21 January 2017 20:58:21 UTC+5:30, V Subrahmanian wrote:
नमांसि

जाबालोपनिषदि तावत् अन्ते अपरोक्षज्ञानिनां नामान्युदहृतानि दृश्यन्ते -

तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजड 
भरतदत्तात्रेयरैवतक-   इति ।

अत्र प्रश्नः - तेषु मध्ये दुर्वास,ऋभु,निदाघ,जडभरत, दत्तात्रेय प्रभृतयः पुराणेषु प्रसिद्धाः वेदेऽप्रसिद्धाः इति मत्वा कथमस्यामुपनिषदि पठिताः इति ।

वेदानामपौरुषेयत्वं कर्त्रनुपलब्ध्या साधयित्वा तत्रागतानां सर्व्वेषां पुंसां वस्तूनाञ्चोल्लेख आख्यायिकास्ववगतिसौकर्य्यायेति निश्चिते सति कथं पठिताः इति प्रश्नो न युज्यते ।
न हि ते आसन् इति वेदे पठिताः किन्तु वेदे पठिताः काकतालीयेन च कदाचित् जाताः ; अथवा वेदे उक्ता अनन्तरं जाता इति । तथा च कथं जन्यानामनादिवेदे पाठ इतिशङ्का नोपपद्यते ।
 
अत्र   ’एकस्यामुपनिषदि पठितत्वमात्रेणालं तेषां उपनिषद्भवप्रामाण्यम्, अन्यत्र तेषां वेदे उल्लेखो मा अपेक्ष्यताम् ’ इत्युच्यते चेत् प्रश्नावकाश एव न भवति । एतत्समाधानं विहाय अन्यदपि समाधानमस्ति वा इति कृत्वा पृच्छ्यते ।

उक्तं समाधानं वेदापौरुषेयत्ववादिनां प्रसिद्धम् । अत एव कुत्रापि कथा उपनिषत्सु दृष्टाश्चेदप्याचार्य्यैस्तस्याख्यायिकात्वमुच्यते । न च आख्यायिकात्वेन तेषां भूतत्व सिद्ध्यति ; अतिप्रसङ्गात् । न वा वेदानां तासु तात्पर्य्यं विद्यते येन तासां सत्यत्वप्रसङ्गः स्यात् । 
Reply all
Reply to author
Forward
0 new messages