धर्मितावच्छेदकप्रत्यासत्तिविचारः

7 views
Skip to first unread message

Jammalamadaka Srinivas

unread,
Oct 4, 2017, 12:23:01 AM10/4/17
to shaa...@googlegroups.com

॥धर्मितावच्छेदकप्रत्यासत्तिविचारः॥

- जे. श्रीनिवासः, चेन्नै

    

   ज्ञानानां कार्यकारणभावे प्रतिबध्यप्रतिबन्धकभावादिषु साधारणतया समवायरूपा कार्यतावच्छेदक-कारणतावच्छेदक-घटकप्रत्यासत्तिः व्यभिचारणदिवारकतया प्रसिद्धा। तत्र भवद्भिः श्री हरिरामतर्कवागीशैः अनुमितिपरामर्शयोः विषयनिष्ठप्रत्यासत्त्याधर्मितावच्छेदकत्वस्यप्रत्यासत्तित्वं अङ्गीकृत्य कार्यकारणभावादिः निरूप्यते स्वीयेधर्मितावच्छेदकप्रत्यासत्तिविचाराख्येग्रन्थे। तत्र यथामति यथाग्रथं प्रकृतप्रबन्धे विचार्यते


आत्मनिष्ठप्रत्यासत्त्यपेक्षया विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे लाघवोपदर्शनम्

        

 अनुमितिपरामर्शयोः कार्यकारणभावः आत्मान्तर्भावेण समावायघटित-सामानाधिकरण्य-प्रत्यासत्त्या अङ्गीकार्यः। तदर्थस्तु समवायसम्बन्धेन अनुमितिं प्रति समवायसम्बन्धेन परामर्शस्य कारणत्वमिति। अन्यथा चैत्रस्य परामर्शदशायां तादृशपरामर्शशून्यस्य मैत्रस्यापि अनुमित्यापत्तिः। तेन समवायसम्बन्धेन मैत्रात्मनि परामशस्याभावात् मैत्रस्यानुमित्यापत्तिः।


       नवीनाः पुनः निरुक्तरीत्या समवायघटितकार्यकारणभावाङ्गीरेवह्निव्याप्यधूमवान्पर्वतःइति परामर्शात्‍ ‘द्रव्यं वह्निमत्‍’ इति अनुमित्यापत्तिवारणाय समानधर्मितावच्छेदककयोरेव अनुमिति परामर्शयोः कार्यकारणभावः अङ्गीकार्यः इति धर्मितावच्छेदकस्यापि कार्यतावच्छेदक-कारणतावच्छेदकघटकत्वं कल्पनीयम् तेन यद्यपि पूर्वोक्तापत्तिः वार्यते, तथापि धर्मितावच्छेदकभेदेन कार्यकारणाभेदः अङ्गीकार्यः। तथा सति धर्मितावच्छेदकानामानन्त्यात्कार्यकारणभावानन्त्यापत्तिः। अतः तदपेक्षया समानधर्मितावच्छेदकत्वं अनुमितिपरामर्शयोः प्रत्यासत्तिः। तथा सति धर्मितावच्छेदकतासम्बन्धेन अनुमितिं प्रति धर्मितावच्छेदकतासम्बन्धेन परामर्शस्य कारणत्वमिति पर्यवस्यति। एवञ्च वह्निव्याप्यधूमवान्पर्वतःइति परामर्शात्‍ ‘द्रव्यं वह्निमत्‍’ इति अनुमित्यापत्तिः, धर्मितावच्छेदकतासम्बन्धेन निरुक्तपरामर्शः पर्वतत्वे विद्यते तत्र धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वधर्मितावच्छेदककानुमितिः सम्बध्यते। एवमेव धर्मितावच्छेदकप्रत्यासत्त्या कार्यकारण-भावाङ्गीकारे धर्मितावच्छेदकस्य कार्यतावच्छेदक-कारणतावच्छेककोटौ अनिवेशेन धर्मितावच्छेदका-नन्त्यप्रयुक्तकार्यकारणभावानन्त्यापत्तिः इति वदन्ति।


तथा धर्मितावच्छेदकतासम्बन्धेन वह्निविधेयकानुमितित्वावच्छिन्नं प्रति धर्मितावच्छेदकता-सम्बन्धेन वह्निव्याप्यधूमप्रकारकज्ञानत्वावच्छिन्नस्य कारणत्वमिति निष्कर्षः।


ननु निरुक्तरीत्या कार्यकारणभावस्वीकारेवह्निव्याप्यधूमवद्द्रव्यं पर्वतो घटवान्‍’  इति परामर्शकालेपर्वतो वह्निमान्‍’ इति अनुमित्यापत्तिः। निरुक्तसमूहालम्बनज्ञाने पर्वतत्वस्यापि धर्मितावच्छेदकत्वात्‍, धर्मितावछेदकतासम्बन्धेन तज्ज्ञानं पर्वतत्वे वर्तते इति तेन सम्बन्धेन पर्वतत्वे वह्निविधेयिकायाःपर्वतो वह्निमान्‍’ इत्यनुमितेरापत्तिः इति चेत्‍,


, धर्मितावच्छेदकतामात्रं कार्यतावच्छेदक-कारणतावच्छेदकसम्बन्धः, अपि तु वह्निविधेयतानिरूपित-विशेष्यतावच्छेदकतासम्बन्धः कार्यतावच्छेदकः सम्बन्धः एवं वह्निव्याप्यधूम-प्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धः कारणतावच्छेदकः। तथासति पूर्वोक्तापत्तिः, निरुक्तस्थले वह्निव्याप्यधूमप्रकारतानिरूपित-विशेष्यतावच्छेदकतासम्बन्धेन निरुक्तसमूहालम्बनज्ञानं द्रव्यत्वे एव विद्यते तु पर्वतत्त्वे इत्यतः।


ननु एतत्कल्पे चैत्रीयपरामर्शकाले मैत्रस्यानुमितिवारणायतत्तत्पुरुषीयत्वस्यकार्यकारणभावे निवेशनीयतया पूर्वकल्पेन साम्यापत्तिः। पूर्वस्मिन्कल्पे धर्मितावच्छेदकभेदेन कार्यकारणानन्त्यापत्तिश्चेत्‍, अस्मिन्कल्पे तत्तपुरुषीयत्वनिवेशप्रयुक्त-कार्यकारणभावानन्त्यापत्तिः।


केषाञ्चिन्मतानुसारेण तत्तपुरुषीयत्वमनिवेश्य निर्दुष्टत्वोपपादनम्


 आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे धर्मितावच्छेदकानां, धर्मितावच्छेदक-निष्ठप्रत्यासत्त्या कार्यकारणभावे तत्तत्पुरुषीयत्वानां निवेशकः अनावश्यकः इत्यतः तदुभयं परित्यज्य समवायसम्बन्धेन वह्निविधेयकानुमितित्वावच्छिन्नं प्रति समवायसम्बन्धेन वह्निव्याप्यधूमप्रकारकपरामर्शत्वावच्छिन्नस्य, धर्मितावच्छेदकता-सम्बन्धेन वह्निविधेयकानुमितित्वावच्छिन्नं प्रति धर्मितावच्छेदकतासम्बन्धेन वह्निव्याप्य-धूमप्रकारकपरामर्शत्वावच्छिन्नस्य कारणत्वमिति एकधर्मावच्छिन्नयोरेव अनुमितिपरामर्शयोः सम्बन्धभेदेन कार्यकारणभावद्वयमङ्गीक्रियते। एवञ्च समवायेन कार्यकारणभावकल्पे कार्यतावच्छेदक-कारणतावच्छेदक-कोटौ धर्मितावच्छेदकानिवेश-प्रयुक्तलाघवं रक्षितं भवति। धर्मितावच्छेदकानिवेशे यः दोषः एकधर्मिता-वच्छेदककपरामर्शात्अपरधर्मितावच्छेदककानुमित्यापत्तिरिति सः धर्मितावच्छेदकता-सम्बन्धेन कार्य-कारणभावस्वीकारात्परिहृतो भवति।  एवं धर्मितावच्छेदकतासम्बन्धेन कार्यकारणभावस्वीकारे व्यभिचारस्तु समवायेन कार्यकारणभावस्वीकारेण वार्यते।


  नन्वेवमपि यदा चैत्रस्यवह्निव्याप्यधूमवान्पर्वतःइति परामर्शः मैत्रस्यवह्निव्याप्यधूमवद्द्रव्यंइति परामर्शः, तदा चैत्रस्यद्रव्यं वह्निमत्‍’ मैत्रस्यपर्वतो वह्निमान्‍’ इत्यनुमित्यापत्तिः। यतः प्रकृतपक्षे कार्यतावच्छेदकं वह्निविधेयकानुमितित्वं यत्पर्वतत्व-द्रव्यत्वधर्मितावच्छेदककानुमितिसाधारणं, एवमेव कारणतावच्छेदकञ्च वह्निव्याप्यधूमप्रकारपरामर्शत्वं यदपि पर्वतत्व-द्रव्यत्वधर्मितावच्छेदककपरामर्श-साधारणम् चैत्रमैत्रयोरुभयोरपि परामर्शयोः कारणतावच्छेदकाक्रान्तत्वात्परस्परं विपरीतानुमित्यापत्तिः इति चेत्‍,

      

  , यत्र एकधर्मावच्छिन्नयोः पदार्थयोः उभयविधप्रत्यासत्त्या कार्यकारणभावः तत्र विलक्षणा एव सामग्रीव्याप्तिः अभ्युपगम्यते। प्रकृते सा व्याप्तिःतद्धर्मावच्छिन्ननिष्ठ-यादृशसम्बन्धावच्छिन्नकार्यता-निरूपित-स्वावच्छिन्न-कारणताघटकप्रत्यासत्त्या यदधिकरणप्रत्यासन्नस्य कारणतावच्छेदकावच्छिन्नस्य तद्धर्मावच्छिन्ननिष्ठ-यादृशसम्बन्धावच्छिन्न-कार्यत्वान्तर-निरूपित-सवावच्छिन्नकारणताघटकप्रत्यासत्त्या अधिकरणं यत्‍, तत्‍, तादृशसम्बन्धेन तदधिकरनसम्बद्धतत्कार्यतावच्छेदकावच्छिन्नस्य तेन सम्बन्धेन अधिकरणमित्याकारा। तथाहि वह्निविधेयकानुमितित्वावच्छिन्न-समवायसम्बन्धावच्छिन्नकार्यता-निरूपित-वह्निव्याप्यधूमप्रकारकपरामर्शत्वावच्छिन्न-कारणताघटक-समवायप्रत्यासत्त्या तादृशानुमित्य-धिकरणचैत्रात्म-प्रत्यासन्नस्य वह्निव्याप्यधूमवप्रकारक(पर्वतविशेष्यक)परामर्शत्वावचछिन्नस्य वह्निविधेय-कानुमिति-त्वावच्छिन्ननिष्ठ-धर्मितावच्छेदकतासम्बन्धावच्छिन्न-कार्यत्वान्तरनिरूपित-वह्निव्याप्यधूमप्रकारक-परामर्शत्वावच्छिन्नकारणताघटक-धर्मितावच्छेदकताप्रत्यासत्त्या अधिकरणं यत्पर्वतत्वं, तत्तादृशधर्मितावच्छेदकतासम्बन्धेन निरुक्तपरामर्शाधिकरणचैत्रात्मप्रत्यासन्न-वह्निविधेयकानुमितित्वा-वच्छिन्नस्य धर्मितावच्छेदकतासम्बन्धेन तत्पर्वतत्वं अधिकरणमिति समन्वयः।


अस्याः व्याप्तेः अयमर्थः – ‘पर्वतो वह्निमान्‍’ इत्यनुमितेः समवायसम्बन्धेन कारणीभूतस्यवह्नि-व्याप्यधूमवान्पर्वतःपरामर्शस्य चत्रात्मसमवेतस्य धर्मितावच्छेदकतासम्बन्धेन अधिकरणं यत्पर्वतत्वं तदेव धर्मितावच्छेदकतासम्बन्धेन तादृशानुमितेप्यधिकरणं भवेत्‍, सा चानुमितः पर्वतत्वधर्मितावच्छेदकिकैव भवति। तथा पूर्वोक्तदोष इति॥

*****

Reply all
Reply to author
Forward
0 new messages