दु:खवार्ते

4 views
Skip to first unread message

Rohan Kulkarni

unread,
May 16, 2021, 1:58:21 AM5/16/21
to shaa...@googlegroups.com
भूयांसि नमांसि।

पदप्रमाणद्वैतवेदान्तविपश्चिद् विद्वत्सन्मानितः कर्णाटकसंस्कृतविश्वविद्यालयस्य युवप्राध्यापको वेङ्कटरमणशर्मा लोकममुं शुक्रवासरे सप्तमे दिने कोरोनाग्रस्तत्वादकस्मादेव तत्याज। अनेनाकस्मिकदुःखवृत्तेन शास्त्रस्य विदोध्येतारश्च शोशुच्यन्ते।

पदवाक्यप्रमाणविपश्चिद् विद्वत्सन्मानितः श्रीविद्यापाठशालायां वेदान्तविद्यापीठे च व्याकरणशास्त्रस्य युवाध्यापकः पण्डितवर्यः श्रीमोहनशर्मा लोकान्तरं कोरोनाप्रादुर्भावेणाकस्मादेव प्रतस्थे। अस्मदाचार्यस्याकल्पनीयाकस्मिकदुःखवृत्तेन वयं छात्राः शोशुच्यामहे। दुःखमेतत् पर्वतायते। येन महाप्लवेन वयं व्याकरणमहासागरं तितीर्षवो येनाधारेण वयं व्याकरणमहावृक्षमारुरुक्षवः स महाप्लवः स आधारो दैवेनापहृतः।

परमेश्वरानुग्रहेण तत्रभवन्ता आचार्यौ सद्गतिं लभेतां जन्मान्तरे च संस्कृतसेवां भावयेताम्।
😞
B.V.Venkatraman.jpeg
Mohan Sharma.jpeg
Reply all
Reply to author
Forward
0 new messages