भूयांसि नमांसि।
आगामिभानुवासरे मार्चमासस्य चतुर्दशदिने फाल्गुनशुद्धप्रतिपदि सायं सार्धपञ्चवादने (५.३०) भविष्यमाणायां चतुर्थचक्रस्य द्वितीयसभायाम्
♦️हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हलिति सूत्रस्यावशिष्टविषयं श्रीमान् सुवासशर्मेत्ययं प्रतिपादयिता।
♦️आतो धातोरिति सूत्रविचारं लघुशब्देन्दुशेखरमधिकृत्य श्रीमान् बरालयोगेशशर्मेत्ययं प्रतिपादयिता।
समेषामुपस्थितिं प्रार्थयामहै।
सभासाधनम्।
सभास्थलम् - स्वस्थानम्।
सभामङ्गलम्।
🔸 🕉️ नमः पाणिनिकात्यायनपतञ्जलिशब्दविद्यासंप्रदायकर्तृभ्यो वंशऋषिभ्यो नमो महद्भ्यो गुरुभ्यः।
🔸 येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः।।
🔸 प्रथमस्य प्रथमः पादः।
अनेन सभा प्रारभताम्।
🔸🔸🔸🔸🔸🔸🔸🔸