परिचयः
“धारेरुत्तमर्णः”
इति पाणिनीयाष्टाध्याय्यां प्रथमाध्यायस्य चतुर्थपादे पञ्चत्रिंशत्तमं सूत्रम्
(1.4.35)। सूत्रस्य ‘धारयतेः प्रयोगे
उत्तमणः उक्तसंज्ञः स्यात्’ इति भट्टोजीवृत्तिः। ‘धारयति’ इति धृङ् अवस्थाने इति
धातोः णिचि लटि प्रथमपुषैकवचनान्तं रूपम्। ‘यदियं धनं स स्वामी प्रयोक्ता
उत्तमर्णः’ इति काशिकावचनात् उत्तमर्णपदस्य ऋणदाता इत्यर्थः। इदं सूत्रं
सम्प्रदानप्रकरणे पठितमित्यतः वृत्तिस्थस्य उक्तसंज्ञपदस्य सम्प्रदानसंज्ञा
इत्यर्थः। तथा च णिजन्तधृङ्धतोः प्रयोगे
ऋणदाता सम्प्रदानसंज्ञः स्यात् इति सूत्रार्थः पर्यवस्यति। ततः उत्तमर्णवाचकपदात्
‘चतुर्थी सम्प्रदाने (2.3.13)’ इति सूत्रेण चतुर्थीविभक्तिः भवति। एवञ्च यत्र
विप्रः (उत्तमर्णः) चैत्राय (अधमर्णाय ~ऋणग्रहीत्रे~) शतरूप्यकं धनं ऋणरूपेण ददाति
तत्र – ‘विप्राय शतं धारयति चैत्रः’ इति प्रयोगः। अत्र धारयतेः अर्थनिश्चयं विना
प्रयोगस्य सौष्ठ्यं न भवति। श्रीगदाधरभट्टाचार्यकृत-व्युत्पत्तिवादे अस्य सूत्रस्य
व्याख्यानं अत्र विचार्यते।
व्युत्पत्तिवादानुसारि
व्याख्यानम्
‘विप्राय शतं धारयति’ इत्यादौ ‘धारेरुत्तमर्णः’
इत्यनेन धनिकविप्रादेः सम्प्रदानता। अतः तद्वाचकपदोत्तरं चतुर्थीविभक्तिः।
कोयं धार्यर्थः? इति विचार्यते –
यदि द्रव्यान्तर-दानमङ्गीकृत्य परदत्तद्रव्यादानम्
; तथा सति दानानन्तरं प्रत्यर्पणात् प्रागपि
‘धारयति’ इति प्रयोगो न स्यात्। यतः तादृश-आदानान्तं धात्वर्थः। स च व्यापारः क्षणिकः
इति विशोधनात् (ऋणप्रत्यर्पणात्) प्रागेव
सः नष्टः इति ऋणग्रहणस्य तृतीयक्षणादेव ‘धारयति’ इति प्रयोगो न स्यात्। तच्च नेष्टं, आविशोधनं ‘धारयति’ इति प्रयोगः
इष्टः।
यदि तदुपपत्त्यर्थं द्रव्यान्तर-दानमङ्गीकृत्य परदत्तद्रव्यादानध्वंसः
धार्यर्थः, तदा तादृशध्वंसकर्तृत्वं अधमर्णस्य न सम्भवतीति
‘…धारयति चैत्रः’ इति प्रयोगो न स्यात्।
अत्राशङ्का, आदानं च इच्छाविशेषः, तदाश्रयस्य पुरुषस्य तत्कर्तृत्वं
यथा तद्वत् तादृशेच्छाध्वंसाश्रयतया चैत्रादीनां तत्कर्तृत्वं
सम्भवतीति न पूर्वोक्तदोष इति चेत्,
तथासति ऋणस्य
परिशोधनानन्तरमपि ‘धारयति’ इत प्रयोगः
स्यात्। ध्वंसस्य अनन्तत्वात्, तादृशादानध्वंसस्य
परिशोधनानन्तरमपि सत्वात्।
पुनराशङ्का, परिशोधनप्रागभाववैशिष्ट्यं तादृशादानध्वंसे निवेश्यते तथासति न पूर्वोक्तापत्तिः।
यतः परिशोधनानन्तरं न हि तत्प्रागभावः विद्यते इति तदानीं तादृशप्रागभाववैशिष्ट्यं
तादृशादानध्वंसे नास्तीति कृत्वा न पूर्वोक्तापत्तिः इति चेत्,
तथासति यत्र
प्रथममासे ऋणं स्वीकृतं द्वितीयमासे च तत् परिशोधितं,
चतुर्थमासे च पुनः ऋणं स्वीकृतं पञ्चममासे च परिशोधितं, तत्र तृतीयमासे ‘धारयति’ इति प्रयोगः
नेष्टः, किन्तु स्यात्। तृतीयमासे यद्यपि
द्वितियमासे कृतस्य परिशोधनस्य प्रागभावः न विद्यते, तथापि पञ्चममासे
करिष्यमाणस्य परिशोधनस्य प्रागभावः विद्यते, एवं प्रथाममासे कृतस्य
तादृशादानध्वंसस्यापि सत्वात्, परिशोधनप्रागभावविशिष्ट-तादृशादानध्वंसः तृतीयमासेप्यक्षतमिति ‘धारयति’
इति प्रयोगापत्तेः।
पुनश्शङ्का, न हि पूर्वोक्तरीत्या केवलपरिशोधनप्रागभाववैशिष्ट्यं निवेशनीयं, अपि तु स्वप्रतियोग्यादान-निर्वाहकाङ्गीकारविषयद्रव्यदानप्रागभावविशिष्टादानध्वंसःधारयतेरर्थः। एवञ्च
निरुक्तस्थले द्वितीयमस-चतुर्थमासयोः परिशोधनविषयिभूतं धनं भिन्नमिति
परिशोधनमपि भिन्नम्। तथा च तृतियमासे द्वितीयमासीयपरिशोधनप्रगभावविशिष्ट-तादृशादानध्वंसः नास्ति, यद्यपि पञ्चममासीयपरिशोधनप्रागभावः
विद्यते तथापि चतुर्थमासीयतादृशादानध्वंसः नास्तीति न तदा ‘धारयति’
इति प्रयोगापत्तिः इति चेत्,
तथापि यत्र
द्वितिय-पञ्चममासयोः परिशोधनं समानधनविषयकं, तत्र तृतीयमासे पुनः
‘धारयति’ इति प्रयोगापत्तिः। तादृशध्वंसप्रतियोग्यादाननिर्वाहकाङ्गीकारविषयीभूतद्रव्यस्य
साम्यात्।
अत्राशङ्का, स्वप्रतियोग्यादाननिर्वाहकाभ्युपगमविषयीभूतं यद्द्रव्यदानं एकक्षणावच्छिन्नैकाधिकरणवृत्तित्वसम्बन्धेन
तद्विशिष्टान्यः यः प्रागभावः तद्विशिष्टः आदानध्वंसः धारयतेरर्थः, तथासति न पूर्वोक्तापत्तिः। तथा हि - स्वप्रतियोग्यादान-निर्वाहकाभ्युपगमविषयीभूतं
यद्द्रव्यदानमित्यस्य परिशोधनमित्यर्थः, तद्यदि पुर्वोक्तस्थले
द्वितीयमासीय-प्रथमपरिशोधनमिति स्वीक्रियते तदा तृतीयमासे प्रथमपरिशोधनस्य
एकक्षणावच्छिन्नैकाधिकरणवृत्तित्वसम्बन्धेन विशिष्टः यः प्रागभावः द्वितियपरिशोधनप्रागभावः,
तदन्यः यः प्रागभावः अन्य एव, अतः तादृशप्रागभावविशिष्टः
यस्तादृशादानध्वंसः तृतीयमासे नास्तीति न तदा ‘धारयति’
इति प्रयोगापत्तिः। एवमेव प्रथमपरिशोधनात्प्राक् यद्यपि तत्प्रागभावः विद्यते स न एकक्षणावच्छिन्नैकाधिकरणवृत्तित्वसम्बन्धेन
प्रथमपरिशोधनविशिष्ट इति न पूर्वोक्तापत्तिरिति चेत्,
एवं सति यत्र स्थलविशेषे परिशोधनमेवाप्रसिद्धं
तत्र ‘धारयति’ इति प्रयोग एव न स्यात्। तथा हि – यत्र चैत्रेण मैत्रात् ऋणं स्वीकृत्य परिशोधितम्। कालान्तरे च विप्रात्
ऋणं स्वीकृत्य मृतम्, तत्र ऋणीभूतधनादानप्रयोजकाभ्युपगमे
“मया तुभ्यं एतावद्द्रव्यं देयं” इत्याकारके विप्रोद्देश्यकत्वविशिष्ट-चैत्रकर्तृकदानं अप्रसिद्धं, परिशोधनात्प्रागेव चैत्रस्य
मृतत्वात्। अतः तत्राभ्युपगमे विप्रोद्देश्यकत्वेन अन्योद्देश्यकद्रव्यदानं
विषयः इति स्वीकार्यम्। तथासति सर्वेपि प्रगभावाः अन्योद्देश्यकतावद्द्रव्यदानविशिष्टा
एवेति तादृशविशिष्टान्यः प्रागभावः अप्रसिद्ध इति तत्र ‘धारयति’
इति प्रयोगो न स्यात्।
अतः द्रव्यान्तरदानाभ्युपगमपूर्वक-परदत्तद्रव्यादानजन्यादृष्टविशेष एव धारयतेरर्थः। तथा हि – ऋणग्रहणेन अधमर्णनिष्ठः परिशोधननाश्यः अदृष्टविशेषो जन्यते। तेनैव ऋणमपरिशोध्य
मृतस्य नरकादिकं उत्पद्यते। एवञ्च न पुर्वोक्तापत्तयः। यत्र तृतीयमासे ‘धारयति’ इतिप्रयोगो नेष्टः तत्र प्रथमपरिशोधनं जातमिति
तन्नाश्यः अदृष्टविशेषो नास्ति द्वितीयं ऋणं न स्वीकृतमिति तदादानजन्यादृष्टमपि नास्तीति
न तादृशप्रयोगापत्तिः। एवं यत्र ऋणमपरिशोध्य मृतः, तत्र तादृशादृष्टविशेष
अस्त्येवेति ‘धारयति’ इति प्रयोग उपपद्यते।
शाब्दबोधः
एवञ्च ‘विप्राय शतं धारयति चैत्रः’ इत्यत्र चतुर्थ्याः कर्तृत्वमर्थः,
शतमित्यत्र द्वितीयायाः कर्मत्वमर्थः, णिजन्तधृङ्धातोः द्रव्यान्तरदानाभ्युपगमपूर्वक-परदत्तद्रव्यादानजन्यादृष्टविशेष
अर्थः, आख्यातस्य आश्रयत्वमर्थः। चतुर्थ्यर्थकर्तृत्वस्य धात्वर्थैकदेशे
दाने अन्वयः, द्वितीयार्थकर्मत्वस्य धात्वर्थैकदेशे आदाने अन्वयः।
तथा च ‘विप्राय शतं धारयति चैत्रः’ इत्यस्मात् वाक्यात् – विप्रकर्तृक-शतरूप्यककर्मक-द्रव्यान्तर-दानाभ्युपगम-पूर्वक-परदत्तशतात्मकद्रव्यादान-जन्यादृष्टविशेषाश्रयः
चैत्रः इति॥
अत्र विशेषः
पुर्वोक्तरीत्या
यदि धारयतेः द्रव्यान्तरदानाभ्युपगमपूर्वक-परदत्तद्रव्यादानजन्यादृष्टविशेष
इत्यर्थो वर्ण्यते तदा यद्यपि यत्र ऋणदानं विषयः तत्र निरुक्तार्थ उपपद्यते तथापि यत्र
“भक्ताय मोक्षं धारयति हरिः” इत्यादौ यत्र ऋणादिकं
न विषयः तत्र तादृशादृष्टविशेषः नैवोपपद्यते, हरेः पापपुण्यात्मकादृष्टानाश्रयत्वादिति
चेत्,
“भक्ताय मोक्षं धारयति हरिः”
इत्यादौ यद्द्यपि हरेः पापपुण्यात्मकादृष्टविशेषाश्रयत्वं न सम्भवति
तथापि हर्ष-क्रोधात्मकादृष्टाश्रयत्वं शास्त्रान्तरप्रसिद्धं
सम्भवति। तथा च पूर्वोक्तधात्वर्थे द्रव्यपदं पदार्थोपलक्षकम्। तथा च प्रकृते मोक्षदानाद्यभ्युपगमपुर्वक-पर(भक्त)कृतपूजनादिजन्यहर्षाद्यदृष्टविशेषः धात्वर्थः। एवञ्च
भक्तकर्तृक-मोक्षकर्मक-दानाभ्युपगमपूर्वक-परकृतपूजनादिजन्यहर्षादयाश्रयः हरिः इति शाब्दबोधः॥
***********
- ज. श्रिनिवासः, चेन्नै