राष्ट्रियसंस्कृतसंस्थानस्य शृङ्गेरीपरिसरस्य रजतमहोत्सवस्य उद्घाटनसन्दर्भे शृङ्गेरीशारदापीठस्य जगद्गुरुभिः श्रीश्रीभारतीतीर्थमहास्वामिभिः कृतम् अनुग्रहभाषणम् । न केवलं विचारप्रवाहः अपि तु तेषां मुखारविन्दात् प्रसरितः विरललभ्यः संस्कृतभाषाप्रवाहः अपि सर्वैः संस्कृतच्छात्रैः संस्कृताध्यापकैः संस्कृतानुरागिभिः च अवश्यं श्रोतव्यः ।