शास्त्रज्ञानां विचारोत्र प्रवर्त्ततां शास्त्रमाश्रित्य । तथा च शास्त्रे येंशा अज्ञाता दुर्ज्ञाता वा भान्ति तेत्र प्रकटनीयाः , विद्वद्भिस्तत्समाधानाय यतिष्यते ।
प्रामाण्यचिन्तात्र प्रवर्त्तताम् । नात्र भवतु सम्भावनामात्रेण कालं क्षपयतामिव कालक्षपणम् । किं प्रमाणं किमप्रमाणं , कथं च परीक्षा इत्यादिकमज्ञात्वा प्रमेयस्य कथं निश्चयः स्यात् इति प्रामाण्यपरीक्षात्रापेक्षिता । तत्रापि निर्णीतस्य प्रामाण्यस्याविस्मरणेनैव प्रमेयस्योपस्थापनं कर्त्तव्यम् । तेन वस्तुतत्त्वं निर्णेतुं शक्येत कदाचन । अन्यथा तु इदमेव समीचीनं स्यात् रोचकत्वात् इतिवादिनामिव अतत्त्वरतिमत्त्वमापद्येत ।
रुचिप्रमाणकम् अप्रमाणमेव इति तस्य अमूलत्वेनालेखनमेवात्रास्तु ।
न चात्र प्राचीनमेव दुष्टं नवीनमेव वा इतिरीतिर्भूयात् । यत् परीक्षितं प्रमाणेन च समर्पितं तदेव समीचीनम् इत्येवास्माकं दृष्टिरस्तु ।
अत्रावेदनकाले परिचयः प्रयोजनं च सूचनीये । इदमौत्सर्ग्गिकमपेक्षितञ्च ।
पत्रं यदि भवद्भिः e-Mail-रूपेण न लभ्यते , तर्हि भवता My Groups इत्यत्र गत्वा परिष्कारो विधेयः । उत्सर्ग्गतः पत्राणां प्रेषणं न भवति(Google's arrangement to stop spams!) , भवतः स्वातन्त्र्येण तत् परिवर्त्तयितुं शक्यते ।
अत्र यदि कश्चन विद्वान् विशिष्य निवेदयितुमिष्यते , तर्हि पत्रधाराचयनपूर्व्वकं 'Assign' इतिविकल्पेन निवेदयितुं शक्यते सः ।
किञ्च यदि पत्रधारात्रागत्यारभ्यते(नाम स्वकीयपत्रागारादप्रेषयित्वास्मिन्पुट आगत्य लिख्यते) तर्हि तस्याः विषयाद्यानुकूल्येन सूचकसंयोजनं(Tagging) कर्त्तुं शक्यते ।
इति
ललितालालितः