How to get GOD? - Sanskrit story

8 views
Skip to first unread message

K.N.RAMESH

unread,
Apr 2, 2025, 11:42:30 AM4/2/25
to
*ईश्वरप्राप्तेः अधिकारः।* 

गुरुकुलस्य प्रवेशोत्सवः समाप्तः अभवत्। कक्ष्याः नियमितरूपेण प्रचलन्ति स्म।
योगस्य अध्यात्मस्य च उपरि कुलपतेः स्कन्धदेवस्य प्रवचनं श्रुत्वा विद्यार्थिनः सर्वे अत्यन्तं सन्तोषम् अनुभवन्ति स्म।

एकदा कक्षायां शिष्यः कौस्तुभः प्रश्नम् अकरोत्- गुरुदेव! किम् अस्मिन् जन्मनि ईश्वरं प्राप्तुं शक्यते? स्कन्धदेवः क्षणमेकं तूष्णीम् अतिष्ठत्। किञ्चिद् विचारम् अकरोत् पुनः अवदत्- एतस्य प्रश्नस्य उत्तरं श्वः लभ्येत। अपिच भवन्तः सर्वे अद्य रात्रौ शयनात् पूर्वं वासुदेवमन्त्रस्य १०८ वारं जपं कृत्वा श्वः प्रातःकाले मां सूचयन्तु इति। 

परेद्यवि प्रातःकाले प्रवचनस्य समयः अभवत्। सर्वे विद्यार्थिनः अनुशासनबद्धाः भूत्वा उपाविशन्। कुलपतिः प्रवचनात् पूर्वं छात्रान् अपृच्छत्- युष्माकं मध्ये के के १०८ वारं मन्त्रजपं कृतवन्तः हस्तम् उपरि कुरुत! 

सर्वे विद्यार्थिनः हस्तम् उपरि कृतवन्तः। कश्चिदिति दोषं न अकरोत्। 
किन्तु कुलपतिः स्कन्धदेवः सन्तुष्टः नाभवत्। सः कक्षायां स्थितान् सर्वान् निरीक्षवान्। कक्षायां कौस्तुभः नासीत्।

कौस्तुभः आहूतः। कौस्तुभे आगते हि कुलपतिः प्रश्नम् अपृच्छत् भोः कौस्तुभ! त्वमपि सम्यक् १०८ वारं मन्त्रजपम् अकरोः?

 कौस्तुभः शिरः अवनमय्य विनयेन उक्तवान् गुरुदेव! ममापराधं क्षमताम्! अहं भृशं प्रयत्नं कृतवान्, किन्तु तन्न पूर्णम् अभवत्। यदा अहं मन्त्रसङ्ख्यां गणयामि स्म तदा भगवतः चिन्तनं न भवति स्म। यदा भगवतः चिन्तनं करोमि स्म तदा मन्त्रस्य गणनं विस्मरामि स्म।
तस्मात् मम व्रतः पूर्णः नाभवत्।

स्कन्धदेवः तदा स्मित्वा अवदत् भोः बालकाः! युष्माकं ह्यस्तनप्रश्नस्य उत्तरम् एतदेव। यदा वयं सांसारिकसुखं, सम्पत्तिः, भोगः च इत्यादीनां गणनं कुर्मः तदा वयम् ईश्वरं विस्मरामः।
यदि वयम् एकाग्रचित्तेन ईश्वरस्य चिन्तनं कुर्मः तर्हि निश्चयेन ईश्वरं लभामहे। 
*-प्रदीपः!*
Reply all
Reply to author
Forward
0 new messages