Turban of foolishness - sanskrit story

4 views
Skip to first unread message

K.N.RAMESH

unread,
Aug 7, 2026, 4:27:11 AM (6 days ago) Aug 7
to
मौढ्यपट्टबन्धः
पुरा किल ध्यानचन्द्राभिधानः परतत्त्वजिज्ञासुर्भगवद्भक्तिरसार्द्रहृदयः कश्चित् सार्थवाहो बभूव। सोऽन्वहं प्रातःकृत्यानि निर्वर्त्य परमेश्वरं समभ्यर्च्य स्वविपणिं प्रतस्थे। स च यावन्मध्यन्दिनं पण्याजीवं समाचरत्, अह्नोऽपरभागे तु स ईश्वरप्रणिधान-सच्छास्त्रविमर्शादिभिरेव कालं निन्ये।

अथैकदा तन्नगरवरिष्ठो नैगममुख्यः श्रीमान् लक्ष्मीपतिर्नामा तं ध्यानचन्द्रं स्वधाम समाहूय तदुत्तमाङ्गे कञ्चनोष्णीषविशेषं सन्निवेश्यैवमभिदधे— “मयेदमुष्णीषं परममूढाय कस्मैचित् प्रदानाय निरमायि। त्वं हि वणिक्कुले जातः सन्नपि वित्तोपार्जने नितान्तमुदासीनतां भजसे। अतः परं जाड्यं किम्? त्वत्सदृशोऽपरो मूढो नहि लोके विचक्ष्यते। तस्मादेतदुष्णीषं तुभ्यमेव मयार्प्यते” इति।

एवं तेनाभिहितोऽपि ध्यानचन्द्रो न किञ्चित् प्रत्युवाच, स्ववृत्तौ च यथापूर्वं प्रववृते। ज्ञातिबान्धवा अपि सर्वे तदीयं मौढ्यं मुहुर्मुहुरुद्घोष्य तं परिजहसुः।

अथ कालक्रमेण स लक्ष्मीपतिर्दारुणेन केनचिद् व्याधिना जगृहे। प्रवर्धमानगदाबाधश्चासौ पञ्चत्वायोद्यतोऽभवत्। तस्मिन्नवसरे तल्पगतं तमभिवीक्षितुमुपगतो ध्यानचन्द्रः पप्रच्छ— “भोः श्रेष्ठिन्! पारलौकिकसुखव्यवस्थां विधातुं कश्चित् पुरुषः किं त्वया इतः पूर्वमेव प्रेषयामासिथ?” इति।

लक्ष्मीपतिस्तु विस्मयाकुलमनाः प्रत्यवादीत् — “अये ध्यानचन्द्र! किमिदं त्वयाभिधीयते?”

“आमुष्मिकाय हि वासाय प्रकृष्टा काचन व्यवस्थापेक्ष्यते खलु? त्वत्परिचर्यायै च दाराः सुता बान्धवाश्च त्वया सह समेयुर्नूनम्?” इति ध्यानचन्द्रः पुनरप्राक्षीत्।

“अहो! को नु नाम परलोकं प्रति कमपि प्रेषयितुं शक्नुयात्? न कोऽपि मया सममनुगन्तुं प्रभवति। द्रविणं बान्धवा वणिज्या वा, न किमपि तत्र मया सह नेतुं शक्यम्। एकाकिनैव मया तत्र यास्यते…”

“यद्येवम्, तर्हीदमुष्णीषं धर्तुं त्वमेव योग्यतमोऽसि” इत्यभिधाय ध्यानचन्द्र आत्मशिरोऽधिष्ठितं तमुष्णीषमवतार्य लक्ष्मीपतेर्मूर्ध्नि न्यधात्।

विस्मयविस्फारिताक्षो लक्ष्मीपतिस्तं बभाषे — “सखे! किमिदं त्वं विधत्से?”

ततो ध्यानचन्द्रः प्रत्युवाच — “यतो ‘न किमपि परलोकं प्रति नेतुं शक्यते’ इति त्वं जानन्नपि यावज्जीवं प्रभूतं द्रविणमन्वचिन्वथाः। साम्प्रतं तु न तद् द्रविणं तवोपकाराय कल्पते, न वा कलत्रसुतबान्धवाः। नित्याय श्रेयसे किमप्यनर्जयित्वा, त्वया क्षणभङ्गुरायैहिकसुखायैव सर्वस्वमुपायुङ्क्थाः। इयं हि परा कोटिर्मौढ्यस्य। अतो मत्तोऽपि गरीयान् मूढस्त्वमेवासि। अत एवैष मौढ्यपट्टो मया तुभ्यं प्रत्यर्पितः” इति।

Reply all
Reply to author
Forward
0 new messages