Srimad Ramayana Aranya kanda part 7a in sanskrit

6 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 27, 2024, 2:30:25 AM10/27/24
to
*श्रीरामायणकथा, अरण्यकाण्डम्!*
(सप्तमः सर्गः)
खरदूषणाभ्यां सह युद्धम्।
(द्वितीयः खण्डः)

(शूर्पणखा खरं प्रति)अहं तु एवं चिन्तयामि यद् भवान् महाशक्तिशाली अस्ति चेदपि युद्धे रामस्य पुरतः एकं क्षणमपि स्थातुं न शक्नुयात्। यदि भवान् आत्मानं शूरवीरं मन्यते तर्हि तेन सह सम्पूर्णशक्त्या युद्धं करोतु। यदि भवान् शत्रुघातिनः रामस्य वधं न  कुर्यात् तर्हि अहं भवतः समक्षम् आत्महत्यां कृत्वा स्वीयान् प्राणान् त्यक्ष्यामि।

शूर्पणखायाः इत्थं तिरस्कारवचनं श्रुत्वा खरः कुपितः भूत्वा अवदत् हे शूर्पणखे! त्वं वृथा हि भीता भूत्वा आत्महत्यायाः प्रलापं करोषि! अहम् अधुनैव गत्वा तौ उभावपि भ्रातरौ हत्वा आगमिष्यामि। मम समक्षं तयोः तथा तेजः, यथा सूर्यस्य समक्षं खद्योतः। त्वम् अकारणं हि  चिन्तनं करोषि। 

शूर्पणखायै सान्त्वनां दत्त्वा खरः तस्य विशालसेनां नीत्वा (यस्यां सेनायां चतुर्दशसहस्रं विकटाः  योद्धारः आसन्) तीव्रगत्या रामेण सह योद्धुम् अगच्छत्।  विशालसेनया सह खरः आगच्छति इति दृष्ट्वा रामः लक्ष्मणम् अब्रवीत् हे महाबाहो! अद्य तु एवं प्रतीयते यद् राक्षसराजः तस्य सम्पूर्णराक्षसदलेन सह आगच्छति। अद्य तु आर्यानार्ययोः मध्ये सङ्घर्षः भविष्यति, अपिच निःसन्देहः यत् आर्यस्य एव विजयः भविष्यति।  

त्वं सीतायाः रक्षणाय तां नीत्वा काञ्चन गुहां प्रविश येन अहं निश्चिन्तः भूत्वा युद्धं कर्तुं शक्नुयाम्। 

लक्ष्मणः तत्क्षणं हि ग्रजस्य आज्ञायाः पालनम् अकरोत्। सः सीतां नीत्वा पर्वतस्य एकाम् अन्धकारगुहाम् अगच्छत्। 
अभेद्यकवचं धृत्वा रामः राक्षसैः सह योद्धुं सज्जः अभवत्। एतद् दृष्ट्वा  देवता, यक्षः, किन्नरः, गन्धर्वः च इत्यादयः सर्वे   रामस्य विजयः भवतु इति कृत्वा एवं प्रकारेण परमात्मनः प्रार्थनां कुर्वन्ति स्म यद् हे त्रिलोकीनाथ! वीरपराक्रमिणे रामचन्द्राय एतावतीं शक्तिं ददातु येन गौः, ब्राह्मणः, ऋषिः, मुनिः च इत्येतेभ्यः अनेकप्रकारकष्टं यच्छतां राक्षसानां नाशः भवेत्।  

राक्षसानां सेना रामं चतसृषु दिक्षु अवेष्टत , तथा च आक्रमणं कर्तुं सज्जा अभवत्। रामः तदा भीषणविनाशं कुर्वाणम् अग्निबाणम् अक्षिपत् यस्मात् राक्षसाः हाहाकारं कुर्वन्ति स्म। रामः तत्परतया सह राक्षसैः क्षिपमाणान् बाणान् स्वेन बाणेन आकाशे हि कर्तयति स्म।  तद् दृष्ट्वा राक्षसाः अत्यन्तं कुपिताः भूत्वा युगपत् बाणवर्षणं कर्तुम् आरभन्त यस्मात्  रामः तेषां बाणैः आच्छादितः अभवत्।

रामः तदा स्वीयं धनुः मण्डलाकारं कृत्वा अद्भुत-हस्तलाघवस्य प्रदर्शनं कुर्वन् बाणान् क्षेप्तुम् आरभत यस्मात् राक्षसानां बाणाः छिन्नाः भूत्वा भूमौ पतन्ति स्म।

एतन्न ज्ञायते स्म यद् रामः कदा तूणीरात् बाणान् निष्कासयति कदा धनुषि प्रत्यञ्चां बध्नाति कदा च बाणान् क्षिपति इति।  रामस्य बाणानां प्रहारेण राक्षसाः निष्प्राणाः भूत्वा भूमौ पतन्ति स्म। अल्पे हि काले राक्षसानां सेना छिन्ना भिन्ना अभवत् यथा चण्डवाते आगते सति मेघाः छिन्नाः भवन्ति। सम्पूर्णं युद्धस्थलं राक्षसानां मृतशरीरैः पूर्णम् अभवत्। 
*-प्रदीपः!*
Reply all
Reply to author
Forward
0 new messages