Japa -Sanskrit essay

14 views
Skip to first unread message

K.N.RAMESH

unread,
Jun 27, 2018, 4:32:51 AM6/27/18
to
Courtesy:  मानसी दीक्षित

नमः सभायै।

प्रस्तावविषय: नामजपमहिमा।

 रामनाम्नैव महासागरे शिला अतरन्। इति प्रसिद्धम्। दस्युः वाल्याधीवरो$पि रामनामजपेन ऋषिवाल्मीकिरूपेण पर्यवर्तत। तथा तेन आर्षकाव्यस्य रामायणस्य रचना कृता । एष नामजपमहिमा। न केवलं रामनाम अपितु कस्यापि ईश्वररूपनामैव भवसागरतरणिः। ईश्वरस्तु निर्गुणो निराकार उपाधिरहितश्च। सामान्यानां चंचलचित्तं स्थिराय मनुष्यस्य भावप्रकटीकरणं नाम ईश्वरस्य मनुप्रणितं रुपम्। प्रतिमारूपेण ईश्वरस्य विविधाः प्रतिमाः दरीदृश्यते। सुगुणोपासनया निर्गुणं प्रति गन्तव्यपथि नामसाधना महत्त्वपूर्णं साधनम्। सर्वैभ्यः सुलभं साधनमेतत्। केवलं तत्र सातत्यमावश्यकम्। संसारीजनेभ्यः नियतकर्मणा सह नामजपस्य विधानमस्ति। तेन नामानुसंधानस्य अभ्यासो भवति। कार्यमपि एकाग्रतया संपन्नं भवति।  महाराष्ट्रस्य वारकरीसंप्रदायस्य मूलाधारो नामजपः। सर्वे सन्तसज्जना: नाममहात्मं वदन्ति। सर्वेषु धर्मेषु नामजपस्य महत्त्वं वर्तते। पध्दत्यां यदाकदा भिन्नता दृश्यते। परं जपसाधनं मालैव। 
    वाचिक,मानसिक तथा च उपांशु एते त्रयः जपप्रकाराः। तस्मिन् उपांशु जपः श्रेष्ठः। नामानुसंधाननेन शनैः शनैः ईश्वरानुसंधानं जायते। 
  गुरुमंत्ररूपेण प्राप्तेन नामजपेन चित्तं शान्तायते।  शांतचित्तं स्थिरसुखीजीवनस्य कुञ्चिका। मनुजीवनस्य एकमेव लक्ष्यं स्वस्वरुपसाक्षात्कारेण परब्रह्मप्राप्तिः। नैव एकस्मिन् जन्मनि तत् प्राप्यते। जन्मजन्मान्तरस्य पुण्यसुकृतेन शक्यमेतत्। पुण्यासंचयाय नामजप: रामबाणरुपेण उपयुज्यते चेत् ईश्वरदर्शनं अस्मिन् जन्मन्येव शक्यमिति साक्षात्कारीभिः प्रतिपादतम्। नियम एव ईशचरणयोः संपूर्णसमर्पणं, गुरुवचने महती श्रध्दा तथा च मनसि प्राणिमात्राणां प्रति प्रेम। प्रेम्ना तु विश्वं वशीभवति। विश्वनिर्माता  अपि प्रेममयसमर्पितभक्तस्य प्रतिक्षारतः।

राकारोच्चारमात्रेण मुखान्नीर्याति पातकम् |
पुन: प्रवेशसन्देहे मकारस्तत् कपाटवत् ||



K.N.RAMESH

unread,
Jul 2, 2018, 7:26:58 AM7/2/18
to
Many thanks to Sri.S.L.Abhyankar ji for proof reading this.

Courtesy: Smt.मानसी दीक्षित

नमः सभायै।

प्रस्तावविषय: नामजपमहिमा।

 रामनाम्नैव महासागरे शिला अतरन्। इति प्रसिद्धम्। दस्युः वाल्याधीवरो$पि रामनामजपेन ऋषिवाल्मीकिरूपेण पर्यवर्तत। तथा तेन आर्षकाव्यस्य रामायणस्य रचना कृता । एष नामजपमहिमा। न केवलं रामनाम अपितु  किमपि  ईश्वररूपनामैव भवसागरतरणिः। ईश्वरस्तु निर्गुणो निराकार उपाधिरहितश्च। नामजपः प्रायः चित्तवृत्तिनिरोधस्य ईश्वरप्रणिधानस्य च सरलतमं साधनम् |   प्रतिमारूपेण ईश्वरस्य विविधाः प्रतिमाः दरीदृश्यन्ते । सुगुणोपासनया निर्गुणं प्रति गन्तव्यपथि नामसाधना महत्त्वपूर्णं साधनम्। सर्वेभ्यः सुलभं साधनमेतत्। केवलं तत्र सातत्यमावश्यकम्। संसारीजनेभ्यः नियतकर्मणा सह नामजपस्य विधानमस्ति। तेन नामानुसंधानस्य अभ्यासो भवति। कार्यमपि एकाग्रतया संपन्नं भवति।  महाराष्ट्रस्य वारकरीसंप्रदायस्य मूलाधारो नामजपः। सर्वे सन्तसज्जना: नाममाहात्म्यं  वदन्ति। सर्वेषु धर्मेषु नामजपस्य महत्त्वं वर्तते। पध्दत्यां यदाकदा भिन्नता दृश्यते। परं जपसाधनं मालैव। 
    वाचिक,मानसिक तथा च उपांशु एते त्रयः जपप्रकाराः।तेषु उपांशु-जपः श्रेष्ठः। नामानुसंधानेन शनैः शनैः ईश्वरानुसंधानं जायते। 
  गुरुमंत्ररूपेण प्राप्तेन नामजपेन चित्तं शान्तायते।  शांतचित्तं स्थिरसुखीजीवनस्य कुञ्चिका। मानवजीवनस्य एकमेव लक्ष्यं स्वस्वरूसाक्षात्कारेण परब्रह्मप्राप्तिः। नैव एकस्मिन् जन्मनि तत् प्राप्यते। जन्मजन्मान्तरस्य पुण्यसुकृतेन शक्यमेतत्। पुण्यासंचयाय नामजप: रामबाणरूपेण उपयुज्यते चेत् ईश्वरदर्शनं अस्मिन् जन्मन्येव शक्यमिति साक्षात्कारिभिः प्रतिपादितम्। नियम एव ईशचरणयोः संपूर्णसमर्पणं, गुरुवचने महती श्रध्दा तथा च मनसि प्राणिमात्राणां प्रति प्रेम। प्रेम्ना तु विश्वं वशीभवति। विश्वनिर्माता  अपि प्रेममयसमर्पितभक्तस्य प्रतीक्षारतः।  
Reply all
Reply to author
Forward
0 new messages