Glory of Brahmins - various quotes

18 views
Skip to first unread message

K.N.RAMESH

unread,
May 2, 2026, 5:41:16 AM (10 days ago) May 2
to
*🌼 निम्नलिखित वचनोंके अनुसार सलिङ्गसंन्यासमें जन्मकर्मसंस्कारसे विशुद्ध, वर्णाश्रमधर्मपालक, श्रौतस्मार्त्तधर्मनिष्ठ ब्राह्मणोंको ही प्रशस्त अधिकार प्राप्त है :*

'ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति' 
(बृहदारण्यकोपनिषत् ३.५.१),

'ब्राह्मणानामेवाधिकारो व्युत्थाने' 
(शाङ्करभाष्य-बृहदारण्यकोपनिषत् ३.५.१), 

'पारिव्राज्यदर्शनाच्च' 
(शाङ्करभाष्य-बृहदारण्यकोपनिषत् १.४.१५),

'एतमात्मानं विदित्वा प्रव्रजेयुरेव ब्राह्मणाः' 
(शाङ्करभाष्य-बृहदारण्यकोपनिषत् ४.४.२२),

'इतरवणपिक्षया वा यावज्जीवश्रुतिः। न हि क्षत्रियवैश्ययोः पारिव्राज्यप्रतिपत्तिरस्ति।' 
(शाङ्करभाष्य-बृहदारण्यकोपनिषत् ४.५.१५),

'यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं करः।
संन्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान्॥'
(नारदपरिव्राजकोपनिषत् ३.१४),

'ब्राह्मणः परिव्रज्य' 
(नारदपरिव्राजकोपनिषत् ३.८६),

'सन्यासिनं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः।
एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति॥'
(सन्यासोपनिषत् ६),

'ब्राह्मणः प्रव्रजेद् गृहात्'
(मनुस्मृति ६.३८),

'पारिव्रज्याश्रमप्राप्तिर्बाह्मणस्यैव चोदिता'
(विष्णुस्मृति ५.१३),

'ब्राह्मणस्याश्रमाश्चत्वारः, क्षत्रियस्याद्यास्त्रयः, वैशस्य आद्यौ'
(वैखानसगृह्यसूत्र १.१०-१२),

'मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम्।
बाहुजातोरुजातानां नायं धर्मो विधीयते॥'
(देवल / दत्तात्रेय),

'ब्राह्मणस्य तु चत्वारस्त्वाश्रमा विहिताः प्रभो।
वर्णास्तान् नानुवर्तन्ते त्रयो भारतसत्तम॥'
(महाभारत-शान्तिपर्व ६२.२),

'चरितब्रह्मचर्यस्य ब्राह्मणस्य विशाम्पते।
भैक्ष्यचर्यास्वधीकारः प्रशस्त इह मोक्षिणः॥'
(महाभारत-शान्तिपर्व ६१.७),

'तस्माद् धर्मो विहितो ब्राह्मणस्य दमः शौचमार्जवं चापि राजन्। तथा विप्रस्याश्रमाः सर्व एव पुरा राजन् ब्राह्मणा वै निसृष्टाः।'
(महाभारत-शान्तिपर्व ६३.७),

'चतुराश्रम्यधर्माश्च वेदधर्माश्च पार्थिव।
ब्राह्मणेनानुगन्तव्या नान्यो विद्यात् कदाचन॥'
(महाभारत-शान्तिपर्व ६५.९),

'गार्हस्थ्यं ब्रह्मचर्यं च वानप्रस्थं त्रयाश्रमाः।
क्षत्रियस्यापि कथिता ये चाचारा द्विजस्य हि॥
वैखानसत्वं गार्हस्थ्यमाश्रमद्वितयं विशः।
गार्हस्थ्यमुत्तमं त्वेकं शूद्रस्य क्षणदाचर॥'
(वामनमहापुराण १४.११९-१२०),

'ब्रह्मचर्यं च गार्हस्थ्यं वानप्रस्थं तथैव च।
प्रोक्ता वेदेषु संन्यास आश्रमा वेदवादिभिः॥
ब्राह्मणानां क्रमेणैते मताश्चत्वार आश्रमाः।
क्षत्रियाणां च वैश्यानां संन्यासो न प्रविद्यते॥
गार्हस्थ्यमेव शूद्राणामाश्रमः परिकीर्तितः।
अन्त्यजानां तदेवापि ज्ञातव्यं विबुधैः सदा॥'
(मुद्गलपुराण ३.१८.२-४),

'चत्वार आश्रमाश्चैते ब्राह्मणस्य सदैव हि।
अन्येषामन्त्यहीनाश्च क्षत्रविट्शूद्रकर्मणाम्॥
वर्तयन्त्योऽन्यथा दण्ड्या या वर्णाश्रमजातयः।'
(शुक्रनीति ४.३४०, ३४२)
Reply all
Reply to author
Forward
0 new messages