🌺आदिशङ्कराचार्यः🌺
श्रुतिस्मृतिपुराणानामालयं करुणालयम्।
नमामि भगवत्पादं शङ्करं लोकशङ्करम्।।
पुरा बौद्धमतप्रचारः अत्यधिक आसीत्। जनाः कर्माचारविमुखा आसन्। केवलं शून्यवादमेव अनुसरन्ति स्म। तस्मिन् समये शङ्कर एव शङ्कररूपेण अवततार।धर्मरक्षणार्थं आत्मानं सृजामीति भगवता उक्तं खलु। तदर्थमेव शङ्करावतारः प्रकटितः।
शङ्करावतारः वेदेऽपि प्रतिपादितः। यजुर्वेदे रुद्रानुवाके "नमस्सोमायच...... इत्यारभ्य तस्मिन् मध्ये नमःकपर्दिने च व्युप्तकेशाय च ..... इति " स्तूयते। तत्र कपर्दिन् इत्युक्ते जटाजूटधरः इति अर्थो वर्तते। किन्तु झटिति व्युप्तकेशाय नमः इत्यपि प्रस्तूयते । व्युप्तकेशः इत्युक्ते मुण्डितकेशःइत्यर्थः। मुण्डितकेशः केवलं शंकराचार्याः एव ।अनेन प्रकारेण वेदे शङ्कराचार्यावतारः प्रतिपाद्यते।
शङ्करभगत्पादानां पितरौ आर्याम्बा शिवगुरुरास्ताम्। तौ ईश्वरं उपास्य शङ्करं सुतमिव लब्धवन्तौ। शङ्करभगवत्पादः वैशाखशुद्धपञ्चम्यां अजायत। प्राचीनसम्प्रदाये संख्याः अक्षरसंकेतरूपेण प्रोच्यन्ते। "कादि नव , टादि नव, रु पञ्च, याद्यष्टौ" एवं प्रकारेण सूचनाविधानमस्ति। अनेन प्रकारेण आचार्याणां जन्मदिवसमनुसृत्य "शङ्कर" इति नामकरणं क्रियते । वैशाखशुद्धपञचमी आचार्याणां जन्मदिवसः खलु। अर्थात् पञ्चमी तिथिः, प्रथमपक्षः, द्वितीयो मासः। ताः संख्याः' शंकर' इति पदसंकेताः भवन्ति। 'याद्यष्टौ 'इति सूत्रमनुसृत्य' श' इत्युक्ते पञ्च।(य, र, ल , व, श...)'कादि नव' इति सूत्रमनुसृत्य 'क' अक्षरस्य संकेतो भवति प्रथमा इति। पुनः 'याद्यष्टौ' इति सूत्रप्रकारेण 'र' इत्युक्ते द्वितीयो भवति। द्वितीयो मासः, प्रथमपक्षः, पञ्चमीतिथिः इति भवति(र क शं)। "अङ्कानां वामतो गतिः" इत्यनुसारेण "शङ्करः" इति नामकरणं अकुर्वन्। पक्षमाससंख्यासूचनाविधानेन 'शङ्कर' इति नामधेयः संभवति। आचार्याणां तेषां पितृभ्यां अनेनप्रकारेणैव नामकरणं कृतम।।
(कञ्चिपरमाचार्यवर्याणां जगद्गुरुबोधाः इति पुस्तके संगृह्य अनूदितं मया।)🙌🙏
बाला...🙏✍️🌹