Cleaning kamandalu - sanskrit story

6 views
Skip to first unread message

K.N.RAMESH

unread,
Nov 8, 2025, 9:35:51 AM (yesterday) Nov 8
to
||ॐ||
।।गुरूणाम् कथा।। { बोधकथा}
‘’भासमानः कमण्डलुः’’ (१५)
श्रीरामकृष्णः परमहंसः प्रतिदिनं स्वस्य कमण्डलुं बहना संसक्तेन भस्मना मृत्तिकया च घर्षयित्वा प्रकाशमानं करोति स्म |
प्रतिदिनं कृतेन परिश्रमेण कमण्डलुः प्रकाशमानः दृश्यते स्म | रामकृष्णस्य शिष्यः प्रतिदिनं एतादृशं श्रमं, कमण्डलो घर्षणं च दृष्ट्वा विचित्रम् अनुभवति।
संशयस्य निवारणं कर्तुं तेन रामकृष्णः पृष्टः —भवतः कमण्डलुः भासमानः एव दृश्यते, कमण्डलौ वयं चित्रं अपि द्रष्टुम् शक्यते तर्हि किमर्थं प्रतिदिनं कमण्डलुं भस्मना, मृत्तिकया घर्षयति ? किं प्रतिदिनं एतादृशः श्रमः आवश्यकः ?
गुरुः श्रीरामकृष्णपरमहंसः मन्दं मन्दं हसित्वा अवदत् – पुत्र! कमण्डलोः भासमानता केवलं एकस्मिन् दिने परिश्रमं कृत्वा न प्राप्ता | कमण्डलोः उपरि यत् किट्टम् [मलं] अस्ति, तस्य अपाकरणाय प्रतिदिनं श्रमः आवश्यकः | एवमेव जीवने असमीचीनं तत्त्वम् अपि अस्ति , असमीचीनं संस्कारं अपाकर्तुं अस्माभिः प्रतिदिनं संकल्पपूर्णः परिश्रमः कर्तुम् आवश्यकः।
 मलस्य अपामार्जनम् आवश्यकम् खलु | कमण्डलु स्यात् अथवा व्यक्तेः जीवनम् । असमीचीनान् मलान् अपाकर्तुं प्रतिदिनं कठोरः परिश्रमः अत्यावश्यकः | यथा अयं कमण्डलुः प्रकाशते तथैव व्यक्तेः जीवनम् अपि कान्तिमत् भविष्यति |
प्रस्तुता कथा अस्मान् किं बोधयति ?
[१] प्रत्येकं जनेन स्वस्य असमीचीनं मलं अपाकर्तुं सदैव प्रयासः करणीयः|
[२] तुच्छं कार्यमपि मनोयोगेन यदि क्रियते तर्हि तत्रापि वैशिट्यपूर्णां भासमानताम् उत्पाद्य आकर्षणं निर्मितुं शक्यते |
सामान्यं कर्म अपि असामान्यत्वं प्राप्यते यदा एकाग्रतया मनोयोगेन च किञ्चित् कार्यं क्रियते |
‘’ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
चक्षुरुन्मीलितं येन 
तस्मै श्रीगुरुवे नमः |’’
  ॐॐॐॐॐ
डॉ. वर्षा प्रकाश टोणगांवकर
पुणे / महाराष्ट्रम्
----------------------
       🍫🍫🍫🍫🍫🍫
Reply all
Reply to author
Forward
0 new messages