Sanskrit sloka on Krishna with 8 vibhaktis

414 views
Skip to first unread message

K.N.RAMESH

unread,
Sep 21, 2018, 4:29:37 AM9/21/18
to
हरिःॐ। नमस्ते आचार्यः। नमः सर्वेभ्यः॥

कृष्णशब्दः श्लोकरूपेण।

कृष्णो रक्षतु मां चराचरगुरुं कृष्णं नमस्याम्यहम्
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहम्
 कृष्णे भक्तिरचञ्चलाऽस्तु भगवन् हे कृष्ण तुभ्यं नमः॥

*कृष्णः* मां रक्षतु। 
*कृष्णं* चराचरगुरुं अहं नमस्यामि।
*कृष्णेन* अमरशत्रवः विनिहताः।
*कृष्णाय* तस्मै नमः।
*कृष्णात्* एव जगत् इदं समुत्थितम्।
*कृष्णस्य* दासः अस्मि अहम्।
*कृष्णे* अचञ्चला भक्तिः अस्तु।
*हे कृष्ण* भगवन्। तुभ्यं नमः॥

धन्यवादः। सर्वं कृष्णार्पणम्॥
Reply all
Reply to author
Forward
0 new messages