योगवेदान्तयोर्मध्ये विशेष:

138 views
Skip to first unread message

Sudhanshu Shekhar

unread,
Nov 5, 2025, 12:22:40 PM (8 days ago) Nov 5
to sanskrit...@googlegroups.com
हरे कृष्ण,
 
योगशास्त्रे असंप्रज्ञातसमाधिना, पुन: वेदान्तशास्त्रे ब्रह्मज्ञानेन निरतिशयानन्दस्वरूपस्य आत्मन: साक्षात्कार: प्रतिपादित:। यथा चित्तवृत्तिनिरोधरूपो योगोऽसंप्रज्ञातसमाध्याख्य: साक्षिण आत्मन: साक्षात्कारे हेतुत्वं वहति, तथैव ब्रह्मज्ञानमपि इति योगवासिष्ठे वर्णितम्। तत्र भगवान् वसिष्ठ उवाच - 

द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव। योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम्।।

असाध्य: कस्यचिद्योग: कस्यचित्तत्त्वनिश्चय:। प्रकारौ द्वौ ततो देवो जगाद परम: शिव:।। इति।

योगशास्त्रे चित्तं परमार्थवस्तु इति स्वीकृतम्। एवं तर्हि साक्षिमात्रस्य साक्षात्कारस्तु तदैव भवितुं शक्यते यदा चित्तस्य चित्तदृश्यस्य च अप्रतीतिर्भवेत्। यत: संप्रज्ञातसमाधौ आत्मैकाकारवृत्तिप्रवाहयुक्तं अन्तःकरणं साक्षिणा अनुभूयते, अतो न तत्र चित्तस्य अप्रतीति:, न पुन: साक्षिण: साक्षात्कारो वा भवितुं शक्यते। किन्तु असंप्रज्ञातसमाधौ चित्तं सर्वथा निरुद्धं भवति, न तत्र काऽपि वृत्तिरवशिष्यते। एवं सति संस्कारमात्ररूपेण स्थितमपि चित्तं न साक्षिणा अनुभूयते। अयमेव विशेष एतयो: समाध्योर्मध्ये। अथ यतोऽसंप्रज्ञातसमाधौ चित्तं चित्तदृश्यञ्च न साक्षिणा अनुभूयेते, अत: स्वप्रकाशसाक्षिमात्रस्य प्रकाश: तस्यामवस्थायाम्भवति

वेदान्तशास्त्रे किन्तु न एवंरूपा प्रक्रिया। अत्र चित्तस्य अपि कल्पितत्वमङ्गीकृतम्। चित्तस्य कल्पितत्वे सति, अकल्पितस्य अधिष्ठानस्य ज्ञानमात्रात् रज्जुसर्पवत् कल्पितस्य चित्तस्य अप्रतीतिर्भवति। न तस्य कृते कोऽपि समाधिरनुष्ठेय:। एतस्मात् कारणात् भाष्यकारै: कुत्रापि आत्मसाक्षात्काराय योगापेक्षा समाध्यपेक्षा न प्रतिपादिता, किन्तु ब्रह्मज्ञानं अधिष्ठानज्ञानमेव कारणत्वेनाङ्गीकृतम्। अधिष्ठानज्ञानात् कल्पितस्य प्रपञ्चस्य अदर्शनत्वे सति शुद्धात्मन आनन्दात्मक: प्रकाशो भवति इति प्रक्रिया   

अयं विशेषो योगवेदान्तयोर्मध्ये। इदन्तत्त्वङ्गूढार्थदीपिकायां षष्ठाध्यायस्य एकोनत्रिंशत्तमे श्लोकव्याख्याने विवरीतम्    

सुधांशु:





Vikram Jagannathan

unread,
Nov 5, 2025, 1:38:49 PM (8 days ago) Nov 5
to Sudhanshu Shekhar, sanskrit...@googlegroups.com
नमस्कारः, सुधांशो महोदय,

मम मतम् - असंप्रज्ञातसमाधेः तथा अखण्डाकारवृत्तिरूपावस्थयोर्मध्ये गूढतरं महत् साम्यमस्ति। बृहदारण्यकोपनिषद्भाष्ये (१।४।७) भगवान् भाष्यकारः स्पष्टं वदति - “न ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति” इति।

एतस्मिन्नर्थे स्वामिनः सर्वप्रियानन्दस्य किमपि भाषणम् अपि विद्यते; तस्मिन्नपि भवतोऽवधानम् आकर्षयितुमिच्छामि।

https://www.youtube.com/watch?v=j3y8THVdPPM (59:22)

प्रणामः,
विक्रमः

(अयं संस्कृतानुवादः ChatGPT-साहाय्येन कृतः; अहं ह्यद्यापि संस्कृतभाषायां नवशिक्षार्थी; यदि कश्चिद् दोषः भवेत्, क्षम्यताम्।)


--
You received this message because you are subscribed to the Google Groups "Sanskrit Advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to sanskritadvait...@googlegroups.com.
To view this discussion, visit https://groups.google.com/d/msgid/sanskritadvaitin/CAH9%3D%2BBCVoPbb8t3d5DQcz_WTQDUGj6ozxHb1ey1THEDxhUOGEA%40mail.gmail.com.
For more options, visit https://groups.google.com/d/optout.

Sudhanshu Shekhar

unread,
Nov 6, 2025, 1:18:29 AM (7 days ago) Nov 6
to Vikram Jagannathan, sanskrit...@googlegroups.com
हरि ॐ विक्रमवर्य, 

मम मतम् - असंप्रज्ञातसमाधेः तथा अखण्डाकारवृत्तिरूपावस्थयोर्मध्ये गूढतरं महत् साम्यमस्ति। बृहदारण्यकोपनिषद्भाष्ये (१।४।७) भगवान् भाष्यकारः स्पष्टं वदति - “न ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति” इति

धन्यवादाः।

तत्र भाष्ये चित्तस्य सर्ववृत्तिनिरोधरूपस्य असंप्रज्ञातसमाधे: मोक्षसाधनत्वं न अङ्गीकृतम्। अस्य कारणं तु अन्यत्र वर्णितम्। बन्ध: अज्ञानप्रसूतः अस्ति, अत: अज्ञाननिवारणादृते अस्य बन्धस्य निवारणं न भवितुं शक्यते। अथ अज्ञानस्य निवारणं तु केवलेन ज्ञानेन भवितुं शक्यते किल। अत एव सिद्धान्ते बन्धस्य निवारणं नाम मोक्ष: ज्ञानादेव स्वीक्रियते।

किन्तु तुष्यतुदुर्जनन्यायेन यदि योगस्य नाम असंप्रज्ञातसमाधेः मोक्षसाधनत्वं यदि अङ्गीक्रियेदपि चेत्, तथापि न ब्रह्मज्ञानादृते तस्य योगस्य आविर्भावः भवति। अयं सिद्धान्तः भवतः उपस्थापिते भाष्यांशे दृश्यते।

मधुसूदनसरस्वतीस्वामिभि: असंप्रज्ञातसमाधेः कारणत्वेन परवैराग्यं स्वीकृतम्। भगवत्पादैः ब्रह्मविज्ञानम् इति तु अन्तरं प्रथमदृष्ट्या प्रतीयते। किन्तु परवैराग्यं ब्रह्मज्ञानेन विना दु:शक्यम् इति अङ्गीकारे तु सर्वम् अनामयम्।
 
एतस्मिन्नर्थे स्वामिनः सर्वप्रियानन्दस्य किमपि भाषणम् अपि विद्यते; तस्मिन्नपि भवतोऽवधानम् आकर्षयितुमिच्छामि।

https://www.youtube.com/watch?v=j3y8THVdPPM (59:22)

बहुशोभनं व्याख्यानं स्वामिभि: कृतम्। तत्त्वं सम्यक् प्रतिपादितम्।

(अयं संस्कृतानुवादः ChatGPT-साहाय्येन कृतः; अहं ह्यद्यापि संस्कृतभाषायां नवशिक्षार्थी; यदि कश्चिद् दोषः भवेत्, क्षम्यताम्।)

चिन्ता मास्तु भ्रातः। वयं सर्वे विद्यार्थिनः एव स्मः।

भवदीयः
सुधांशुः 

Bandaru Viswanath

unread,
Nov 6, 2025, 10:19:25 AM (7 days ago) Nov 6
to Sanskrit Advaitin
अखण्डाकारवृत्तेः जाते सति अज्ञानतत्कार्यस्य च नाशः इति वेदान्तिनः,  योगदर्शने असंप्रज्ञातसमाधेः बहिरागमनं  भविता वा ? यदि भवति तर्हि तस्य पुरुषस्य स्थितिः का ?

धन्यवादाः

Vikram Jagannathan

unread,
Nov 6, 2025, 7:38:45 PM (7 days ago) Nov 6
to Sudhanshu Shekhar, sanskrit...@googlegroups.com
नमस्कारः, सुधांशो महोदय,

तत्र भाष्ये चित्तस्य सर्ववृत्तिनिरोधरूपस्य असंप्रज्ञातसमाधे: मोक्षसाधनत्वं न अङ्गीकृतम्। अस्य कारणं तु अन्यत्र वर्णितम्। बन्ध: अज्ञानप्रसूतः अस्ति, अत: अज्ञाननिवारणादृते अस्य बन्धस्य निवारणं न भवितुं शक्यते। अथ अज्ञानस्य निवारणं तु केवलेन ज्ञानेन भवितुं शक्यते किल। अत एव सिद्धान्ते बन्धस्य निवारणं नाम मोक्ष: ज्ञानादेव स्वीक्रियते।

किन्तु तुष्यतुदुर्जनन्यायेन यदि योगस्य नाम असंप्रज्ञातसमाधेः मोक्षसाधनत्वं यदि अङ्गीक्रियेदपि चेत्, तथापि न ब्रह्मज्ञानादृते तस्य योगस्य आविर्भावः भवति। अयं सिद्धान्तः भवतः उपस्थापिते भाष्यांशे दृश्यते।

सत्यम्; सम्मतम्। किंतु ममाभिप्रायोऽयम् (मम बोधोऽपि) - अविद्यां निवर्तयति या वेदान्तवाक्यजनिता ब्रह्माकारवृत्तिरूपा अवस्था, सा एव असंप्रज्ञातसमाधिः। स एव चित्तवृत्तिनिरोधः; स एव योगः।
तद्विपरीतं तु न सत्यम्। नैव सर्वेऽप्यसंप्रज्ञातसमाधयः ब्रह्माकारवृत्तिस्वरूपा भवन्ति। अन्येऽपि उपायाः सन्ति, येभिर्योगो वा असंप्रज्ञातसमाधिः साध्यते; ते तु मोक्षाय न नयन्ति।


मधुसूदनसरस्वतीस्वामिभि: असंप्रज्ञातसमाधेः कारणत्वेन परवैराग्यं स्वीकृतम्। भगवत्पादैः ब्रह्मविज्ञानम् इति तु अन्तरं प्रथमदृष्ट्या प्रतीयते। किन्तु परवैराग्यं ब्रह्मज्ञानेन विना दु:शक्यम् इति अङ्गीकारे तु सर्वम् अनामयम्।

सत्यम्; सम्मतम्।

चिन्ता मास्तु भ्रातः। वयं सर्वे विद्यार्थिनः एव स्मः।

मम उन्नत्यर्थं वेदान्ततत्त्वसम्बद्धान् दोषान् तथा संस्कृतव्याकरणदोषान् कृपया निरीक्ष्य संशोधयतु।
 
प्रणामः,
विक्रमः

Sudhanshu Shekhar

unread,
Nov 8, 2025, 11:42:45 AM (5 days ago) Nov 8
to Bandaru Viswanath, Sanskrit Advaitin
हरि ॐ विश्वनाथवर्य,

अखण्डाकारवृत्तेः जाते सति अज्ञानतत्कार्यस्य च नाशः इति वेदान्तिनः

इदं सम्यक्।

  योगदर्शने असंप्रज्ञातसमाधेः बहिरागमनं  भविता वा ? यदि भवति तर्हि तस्य पुरुषस्य स्थितिः का ?

बहवो धन्यवादा गूढप्रश्नार्थम्।  

आम्। असंप्रज्ञातसमाधेर्बहिरागमनं भवति इति मम बोधः। अत्र एषा प्रक्रिया - असंप्रज्ञातसमाधौ चित्तस्य प्रत्ययरूपपरिणामो न भवति, किन्तु संस्काररूपेण परिणामः चित्तस्य तु भवति एव। चित्तस्य सर्ववृत्तीनां निरोधोऽसंप्रज्ञातसमाधिरिति कथ्यते। अत्रेदमवधेयं यत् वृत्तीति शब्दात् चित्तस्य संस्काररूपपरिणामो न गृह्यते। वृत्ते: परिभाषायां विद्यमानानि वस्तूनि (प्रमाण, विपर्यय, विकल्प, निद्रा, स्मृति इति) एव तत्र अभिप्रेतानि।

अथ असंप्रज्ञातसमाधेरभ्यासात् चित्ते निरोधसंस्कारा आविर्भवन्ति, व्युत्थानसंस्कारा हीयन्ते। व्युत्थानसंस्कारा असंप्रज्ञातसमाधेरन्यकाले सर्वदा जायन्ते। संप्रज्ञातसमाधौ जायमाना: संस्कारा अपि व्युत्थानसंस्कारा एव। 

अथ असंप्रज्ञातसमाधिकाले यदि अभ्यासकारणाद् उत्पन्ना निरोधसंस्कारा: सुदृढा: सन्ति, तर्हि चित्तस्य प्रशान्तवाहिता स्थितिर्भवति, असंप्रज्ञातसमाधेर्भङ्गो न भवति। किन्तु यदि निरोधसंस्काराणां मान्द्यं विद्यते, तर्हि व्युत्थानसंस्कारैः निरोधसंस्कारा अभिभूयन्ते। अस्यां स्थितौ निरोधसंस्काराणां धाराया: प्रवाहस्य भङ्गो जायते, असंप्रज्ञातसमाधेर्बहिरागमनम् भवति। 

असंप्रज्ञातसमाधेर्बहिरागतः पुरुषः पुनः पुनः निरोधसमाधेरभ्यासात् चित्तगतनिरोधसंस्काराणां सुदृढत्वं यदा प्राप्नोति, तदा तस्य प्रशान्तवाहिता स्थिति: भवति। प्राप्ते काले पुनः कैवल्यं (चित्तस्य तस्य कारणे लीनत्वम्, द्रष्टु: केवलत्वम्) लभ्यते।        

अस्मिन् विषये अधिकं यदि ज्ञातव्यं, तर्हि योगसूत्रस्य व्यासभाष्यं (3.9, 3.10) द्रष्टव्यम्। 

सम्बद्धो जालसङ्केत: अधो दत्त: -

पुनरेकवारं धन्यवादं समर्पयामि सारगर्भितप्रश्नस्य उपस्थापनाय। 

भवदीयः 
सुधांशु:

Sudhanshu Shekhar

unread,
Nov 8, 2025, 12:22:36 PM (5 days ago) Nov 8
to Vikram Jagannathan, sanskrit...@googlegroups.com
हरि ॐ विक्रमवर्य, 
 
सत्यम्; सम्मतम्। किंतु ममाभिप्रायोऽयम् (मम बोधोऽपि) - अविद्यां निवर्तयति या वेदान्तवाक्यजनिता ब्रह्माकारवृत्तिरूपा अवस्था, सा एव असंप्रज्ञातसमाधिः। स एव चित्तवृत्तिनिरोधः; स एव योगः।

तद्विपरीतं तु न सत्यम्। नैव सर्वेऽप्यसंप्रज्ञातसमाधयः ब्रह्माकारवृत्तिस्वरूपा भवन्ति। अन्येऽपि उपायाः सन्ति, येभिर्योगो वा असंप्रज्ञातसमाधिः साध्यते; ते तु मोक्षाय न नयन्ति।

असंप्रज्ञातसमाधौ काऽपि वृत्तिर्न अवशिष्यते। असंप्रज्ञातसमाधिः संस्कारशेष इति तु योगसूत्रम्। एवं तत्र वृत्तीनाम् अभावस्य अङ्गीकारे सति पुनः कथं तत्र अखण्डाकारवृत्तेः सद्भावम् अङ्गीकर्तुं शक्यते? अखण्डाकारवृत्तिरपि एका वृत्तिरेव खलु! कथं सा तस्यां वृत्तिनिरोधावस्थायां भवितुं शक्येत! 

मम उन्नत्यर्थं वेदान्ततत्त्वसम्बद्धान् दोषान् तथा संस्कृतव्याकरणदोषान् कृपया निरीक्ष्य संशोधयतु।

निश्चयेन सूचयिष्यामि मया कृता: दोषा अपि तथैव सूचनीया:

भवदीयः  
सुधांशु:

V Subrahmanian

unread,
Nov 9, 2025, 2:27:38 AM (4 days ago) Nov 9
to Sudhanshu Shekhar, Vikram Jagannathan, sanskrit...@googlegroups.com
नमांसि | अत्र काचन जिज्ञासा |  योगमते (एवं साङ्ख्यमते च) मोक्षस्वरूपं कीदृशमिति | मुक्तजीवाः किं कञ्चन लोकं प्रविश्य तत्र वसन्ति वा? मुक्त्यवस्थायां 'मुक्तोऽहम्' इत्याद्यनुभवं भवति वा? 

भवदीयः
सुब्रह्मण्यः 

--
You received this message because you are subscribed to the Google Groups "Sanskrit Advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to sanskritadvait...@googlegroups.com.

Sudhanshu Shekhar

unread,
Nov 9, 2025, 1:49:17 PM (4 days ago) Nov 9
to V Subrahmanian, Vikram Jagannathan, sanskrit...@googlegroups.com
हरि ॐ सुब्बुवर्य,
 
योगमते (एवं साङ्ख्यमते च) मोक्षस्वरूपं कीदृशमिति | 
मुक्त्यवस्थायां 'मुक्तोऽहम्' इत्याद्यनुभवं भवति वा? 

मोक्षशब्दस्य व्यपदेशो योगसूत्रे व्यासभाष्ये वा बहुत्र मया न दृष्टः। कैवल्यमिति शब्दो लभ्यते। व्यासभाष्ये विमुक्त इति शब्दोऽपि  लभ्यते। 

वेदान्तिनां विदेहमुक्तेः स्वरूपं, योगिनां कैवल्यस्य स्वरूपं च बहुषु अंशेषु सारूप्यं लभेते। तयोः प्राप्तेः प्रक्रियायां भेदो वर्तते, किन्तु स्वरूपमध्ये नास्ति महदन्तरम् इति मे मतिः। कैवल्ये बुद्धेरव्यक्ते मूलकारणे लयं भवति, पुरुषस्य केवलीभाव आविर्भवति। तस्य पुरुषस्य पुनर्जन्म न भवति। अथ एवं स्फ़ुटं यत् कैवल्यकाले बुद्धेः लीनत्वात् कोऽपि व्यवहार: न भवितुं शक्नोति। 'मुक्तोऽहम्' इत्याद्यनुभवमपि न भवितुं शक्यते। कस्मिंश्चित् लोके प्रवेशादयोऽपि न सम्भवेत् यतो बुद्धे: सम्यक्तया लयः संपादितः इदं कैवल्यं परवैराग्यसाधितेन असंप्रज्ञातसमाधिना लभ्यते। (इदं किन्तु स्मारणीयं यत् अनन्ताः पुरुषाः सन्ति, एकस्य कैवल्स्य प्राप्ते अपि अन्ये पुरुषाः तु बद्धाः। पुनः बुद्ध्यव्यक्तादीनां सत्यत्वमपि योगशास्त्रे स्वीकृतम्।)

अथ संप्रज्ञातसमाधेर्या परमावस्था अस्ति, सा धर्ममेघसमाधि: इति नाम्ना व्यपदिश्यते (पृ. 583)। एतस्य समाधेर्लाभाद् अविद्यादयः पञ्चक्लेशा: पापपुण्यादयः कर्माशयाश्च नश्यन्तितदा क्लेशकर्मनिवृत्तौ स विद्वान् जीवन् एव विमुक्तो भवति इति व्यासभाष्यं कैवल्यपादे त्रिन्शत्तमे सूत्रे वर्णयति। विमुक्तिरिति शब्दो वेदान्तिनां जीवन्मुक्ते: सदृशो दृश्यते। 

सामान्यरूपेण तर्हि एवं वक्तुं शक्यते यत् धर्ममेघसमाधिना जीवन्मुक्ति:, असंप्रज्ञातसमाधिना कैवल्यम् (विदेहमुक्तिः) च लभ्येते। 

एवं सति जीवन्मुक्तौ ये व्यवहारा: सन्ति, 'मुक्तोऽहम्' इत्याद्यनुभवात्मका:, तेषाम् अङ्गीकारे काऽपि विप्रतिपत्तिर्मया न दृश्यते किन्तु एतेषां व्यवहाराणां स्पष्टतया उल्लेखोऽपि कुत्रचित् सूत्रभाष्ये मया न दृष्ट इति अपि विचारणीयम्

इदमपि ध्यातव्यं यदयं धर्ममेघसमाधिर्विवेकख्यातेः स्वच्छतमं निरन्तरप्रवहमानं च रूपम्। विवेकख्यातिर्नाम पुरुषबुद्ध्योः पृथकत्वज्ञानम्। अत्र एष: सिद्धान्तः - पुरुष बुद्धिश्च सत्ये वस्तुनी, किन्तु अविद्यादशायां तयोः पृथकत्वं न ज्ञायते। संप्रज्ञातसमाधिना तयोः पृथकत्वज्ञानं नाम विवेकख्यातिर्जायते। तस्याः परिपाके जाते सति धर्ममेघसमाधिर्भवति, तेन अविद्यादीनां क्षयो जायते। 

इदं स्फ़ुटं तर्हि यद् ब्रह्मात्मैक्यज्ञानस्य नास्ति अत्र कापि चर्चा। अत्र विवेकख्यातिः आत्मानात्मज्ञानसदृशी दृश्यते, तया एव अविद्याया नाश इति स्वीक्रियते योगशास्त्रे

एवं केचन अंशा: सन्ति यत्र सादृश्यं दृश्यते, अन्यत्र भिन्नता अपि दृश्यते

मुक्तजीवाः किं कञ्चन लोकं प्रविश्य तत्र वसन्ति वा?

इदमधिकृत्य मया किमपि न दृष्टम्। 

Vikram Jagannathan

unread,
Nov 9, 2025, 4:06:26 PM (4 days ago) Nov 9
to Sudhanshu Shekhar, sanskrit...@googlegroups.com
नमस्कारः, सुधांशो महोदय,

असंप्रज्ञातसमाधौ काऽपि वृत्तिर्न अवशिष्यते। असंप्रज्ञातसमाधिः संस्कारशेष इति तु योगसूत्रम्। एवं तत्र वृत्तीनाम् अभावस्य अङ्गीकारे सति पुनः कथं तत्र अखण्डाकारवृत्तेः सद्भावम् अङ्गीकर्तुं शक्यते? अखण्डाकारवृत्तिरपि एका वृत्तिरेव खलु! कथं सा तस्यां वृत्तिनिरोधावस्थायां भवितुं शक्येत!

भगवान् रमणमहर्षिराह - ‘अहं’वृत्तिर्नामैकैव मूलभूता, यस्यां सर्वाः अन्याः वृत्तयः लीयन्ते; सा चान्ते स्वयमपि लीयते, शेषे केवलोऽहमेव प्रकाशते।
एषैव मूलभूता वृत्तिरखण्डाकारवृत्तिः; सा अविद्यां समूलं नुदति, तथा कृत्वा अन्ते स्वयमपि लीयते, चैतन्यमेवावशिष्टं प्रकाशते। एतद् वेदान्तसारे (१७१–१७२) अपि उक्तम्।
एकया मूलवृत्त्या सह सर्ववृत्तीनां सम्यग्लयः असंप्रज्ञातसमाधिरित्यथवा निर्विकल्पसमाधिः; स एव चित्तवृत्तिनिरोधः, स एव योगः। अयं समाधिरेव चैतन्यम्। 
तस्मादखण्डाकारवृत्तिरूपावस्था योगे परिणमति, स च योगः चैतन्यस्य स्वरूपावस्था एव। 
न मम मतं यत् योगसाधना अद्वैतसाधनस्य तुल्यं फलम् आवहति; किन्तु ममाभिप्रायोऽयम्—अद्वैतसाधना योगदर्शनेन “योग” इति परिभाषितामेव अवस्थां प्रापयति।


निश्चयेन सूचयिष्यामि। मया कृता: दोषा अपि तथैव सूचनीया:।

कृतज्ञोऽस्मि; यथाशक्ति करिष्यामि।

Sudhanshu Shekhar

unread,
Nov 10, 2025, 7:16:12 AM (3 days ago) Nov 10
to Vikram Jagannathan, sanskrit...@googlegroups.com
हरि ॐ विक्रमवर्य,

वेदान्तसारे इदमुक्तम् - " निर्विकल्पकस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षया अद्वितीयवस्तुनि तदाकाराकारितायाश्चित्तवृत्तेरतितरामेकीभावेनावस्थानम् । तदा तु जलाकाराकारितलवणानवभासेन जलमात्रावभासवदद्वितीयवस्त्वाकाराकारितचित्तवृत्त्यनवभासेनाद्वितीयवस्तुमात्रमवभासते । ततश्चास्य सुषुप्तेश्वाभेदशङ्का न भवति, उभयत्र वृत्त्यभाने समानेऽपि तत्सद्भावासद्भावमात्रेणानयोर्भेदोपपत्तेः ।" इति।

अत्र उक्तं यत् निर्विकल्पकसमाधौ सुषुप्तिवत् चित्तवृत्ते: अभानमात्रं भवति, किन्तु चित्तवृत्तेः सद्भावं तत्रनिर्विकल्पकसमाधौ वर्तते। एतस्य उदाहरणमपि दत्तं जलाकाराकारितलवणस्य अनवभासनेन

इममधिकृत्य न्यायरत्नावल्यां गौडब्रह्मानन्दसरस्वतीभि: व्याख्यानं कृतम् -  

सम्प्रज्ञातसमाधिस्तु मनोदेहादिभिन्नतया साक्षिणो ज्ञानप्रवाहरूपः | 'ब्रह्मास्मी'ति शाब्दज्ञानोत्तरं तु तादृशधीप्रवाहरूप एव । असम्प्रज्ञातसमाधिस्तु सकलवृत्तिशून्यनिरोधरूपेण परिणतमावृत्तं मन एव । वेदान्तसारादौ तु 'निरोधरूपेण परिणामोऽपि ( असम्प्रज्ञातः, स ) केवलात्माकारवृत्तिरूपः, मनोवृत्तिभानाभावे समानेऽपि मनोवृत्ति-सत्त्वासत्त्वाभ्यामसम्प्रज्ञातसमाधिसुषुप्त्योर्भेदादि' त्युक्तम् । 

तन्न । 

'मोक्षे निर्विषयं स्मृतम्, यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह, तद्यच्छेच्छान्त आत्मनी 'ति श्रुतीनामुक्तसूत्राणां च विरोधात् । सर्वथा प्रमात्रादिभानशून्यस्यासम्प्रज्ञातसमाधेरावश्यकत्वात्, सुषुप्तिभिन्नसर्वकाले प्रमात्रादिभानमिति स्वीकारासम्भवात्, 'भिन्नविषयकानुमित्यादिसामग्रीरूपप्रतिबन्धककालीनघटादिमात्रप्रत्यक्षेच्छाजन्ये तत्प्रत्यक्षे व्यभिचारेण सुषुप्तिसमाधिभिन्नसर्वकाले प्रमात्रादिभानमित्यस्याप्यसम्भवात्, प्रमात्राद्यविषयके महावाक्यार्थबोधे बाधकाभाव इति भावः ।      


अत्र वेदान्तसारवर्णितं चित्तवृत्तेः असंप्रज्ञातसमाधौ सद्भावं निराकृतम् इति स्फुटम्। इदं निराकरणं योगसूत्रगूढार्थदीपिकाभ्यां सम्मतम् अपि इति मे भाति। वेदान्तसम्मताया अखण्डाकारवृत्तेः सद्भावं तु संप्रज्ञातसमाधौ एव स्वीकर्तुं शक्यते यतः तस्याम् अवस्थायाम् एव वृत्तेः सद्भावं विद्यते। असंप्रज्ञातसमाधौ चित्तस्य स्वाभाविकी आत्माकारिता तु विद्यते किन्तु चित्तवृत्तेः आत्माकारिता न विद्यते, तस्याः तत्र अभावात्        

तत्र गूढार्थदीपिकायां (6.25) एवमुक्तम् -  "आत्मनि निरुपाधिके प्रतीचि संस्था समाप्तिर्यस्य तदात्मसंस्थं सर्वप्रकारवृत्तिशून्यं स्वभावसिद्धात्माकारमात्रविशिष्टं मनः कृत्वा धृतिगृहीतया विवेकबुद्ध्या संपाद्यासंप्रघातसमाधिस्थः सन् किंचिदपि अनात्मानमात्मानं वा न चिन्तयेत्, न वृत्त्या विषयीकुर्यात्। अनात्माकारवृत्तौ हि व्युत्थानमेव स्यात्आत्माकारवृत्तौ च संप्रज्ञातः समाधिरित्यसंप्रज्ञातसमाधिस्थैर्याय कामपि चित्तवृत्तिं नोत्पादयेदित्यर्थः" इति।

स्फ़ुटं तर्हि यत् चित्तवृत्तेः अखण्डाकाराकारिता तु संप्रज्ञातसमाधौ एव भवितुमर्हति, असंप्रज्ञातसमाधौ कस्याश्चिदपि चित्तवृत्ते: असद्भावात्।

अत्रेदम् अवधेयं यद् असंप्रज्ञातसमाधौ चित्तवृत्तेः आत्माकारिता न विद्यते, किन्तु चित्तस्य स्वाभाविक आत्माकार: तु अवशिष्यते एव। गूढार्थदीपिका (6.25) वर्णयति - "तत्र घटदुःखाद्यनात्माकारे विरामप्रत्ययाभ्यासेन निवारितेऽपि निर्निमित्तश्चिदाकारो वारयितुं न शक्यते।" इति।    

आत्माकारं वृत्तिरहितं चित्तं स्वरूपसुखस्य अभिव्यञ्जकम् इति अपि विशेषेण बोध्यम् ।     

भगवान् रमणमहर्षिराह - ‘अहं’वृत्तिर्नामैकैव मूलभूता, यस्यां सर्वाः अन्याः वृत्तयः लीयन्ते; सा चान्ते स्वयमपि लीयते, शेषे केवलोऽहमेव प्रकाशते।
एषैव मूलभूता वृत्तिरखण्डाकारवृत्तिः; सा अविद्यां समूलं नुदति, तथा कृत्वा अन्ते स्वयमपि लीयते, चैतन्यमेवावशिष्टं प्रकाशते। एतद् वेदान्तसारे (१७१–१७२) अपि उक्तम्।
एकया मूलवृत्त्या सह सर्ववृत्तीनां सम्यग्लयः असंप्रज्ञातसमाधिरित्यथवा निर्विकल्पसमाधिः; स एव चित्तवृत्तिनिरोधः, स एव योगः। अयं समाधिरेव चैतन्यम्। 
तस्मादखण्डाकारवृत्तिरूपावस्था योगे परिणमति, स च योगः चैतन्यस्य स्वरूपावस्था एव। 
न मम मतं यत् योगसाधना अद्वैतसाधनस्य तुल्यं फलम् आवहति; किन्तु ममाभिप्रायोऽयम्—अद्वैतसाधना योगदर्शनेन “योग” इति परिभाषितामेव अवस्थां प्रापयति।

चैतन्यस्य द्रष्टु; स्वरूपावस्था अस्म्प्रज्ञातसमाधौ भवति, तस्य कैवल्यं तेन साध्यते।

एतत् सर्वं यत् किमपि भवेत् नाम, अस्माकं कार्यं तु विहितमेव। अस्माभि: समाधिः कर्तव्य इति। अथ सः समाधिः संप्रज्ञातसमाधिर्भवेद् उत असंप्रज्ञातसमाधि:, न तेन कापि चिन्ता कार्या। नयने निमील्य पद्मासने स्थित्वा स्वरूपावस्थानं करणीयम् इति।           

Vikram Jagannathan

unread,
Nov 10, 2025, 11:28:49 AM (3 days ago) Nov 10
to Sudhanshu Shekhar, sanskrit...@googlegroups.com
नमस्कारः, सुधांशो महोदय,

महोदय, कृपया वेदान्तसारस्य (१७२) अवलोकयतु। तत्र सुस्पष्टमुक्तं यत् अखण्डाकारवृत्त्युत्पत्तौ सर्वावृत्तीनां निवृत्तिः, अन्ते च सा स्वयमेव लीयते। वेदान्तमहावाक्यजन्या अखण्डाकारवृत्तेः उत्पत्त्यवस्था संप्रज्ञातसमाधिरिति निर्दिश्यते। तस्याः अखण्डाकारवृत्तेः पर्यवसानम्, यत्र सा अन्ते स्वयमेवोपशाम्यति, असंप्रज्ञातसमाधिः इति; एतत् न्यायरत्नावलीप्रवचनेन संगच्छते।

किञ्च, वेदान्तसारे (१७२) यदुक्तं, तत् वेदान्तसारे (१९७–१९९) इव स्वविरुद्धं प्रतितिष्ठते, विसंगतिमिव जनयति। ममाधीतमते तु नैवम्। यतो हि प्रथमम् परमार्थतत्त्वनिर्देशः - “ब्रह्म वेद ब्रह्मैव भवति” इति श्रुतेः प्रतिष्ठापनम्; द्वितीयं तु तत्त्वदर्शिनो ज्ञानिनो गुरोर्जीवन्मुक्तस्य वा दृष्ट्या निरूपणम्। अतः निर्विकल्पसमाधौ चित्तस्य अवशिष्टसत्त्वविषये भेदः उच्यते — अन्तर्बहिश्च अवस्थासु तदनुवृत्तेः विवक्षा।

एतस्मिन्नर्थे प्रमाणं भगवान् रमणमहर्षेः उपदेशः - स हि निर्विकल्पसमाधिं केवलनिर्विकल्पसमाधिम् तथा सहजनिर्विकल्पसमाधिम् इति द्विधा विभजति। एषा विभागा न परमार्थिक-चैतन्यदृष्ट्या सम्भाव्यते; केवलं जीवन्मुक्तदृष्ट्या एव।


इममधिकृत्य न्यायरत्नावल्यां गौडब्रह्मानन्दसरस्वतीभि: व्याख्यानं कृतम् -  
सम्प्रज्ञातसमाधिस्तु मनोदेहादिभिन्नतया साक्षिणो ज्ञानप्रवाहरूपः | 'ब्रह्मास्मी'ति शाब्दज्ञानोत्तरं तु तादृशधीप्रवाहरूप एव । असम्प्रज्ञातसमाधिस्तु सकलवृत्तिशून्यनिरोधरूपेण परिणतमावृत्तं मन एव । वेदान्तसारादौ तु 'निरोधरूपेण परिणामोऽपि ( असम्प्रज्ञातः, स ) केवलात्माकारवृत्तिरूपः, मनोवृत्तिभानाभावे समानेऽपि मनोवृत्ति-सत्त्वासत्त्वाभ्यामसम्प्रज्ञातसमाधिसुषुप्त्योर्भेदादि' त्युक्तम् ।
तन्न ।
'मोक्षे निर्विषयं स्मृतम्, यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह, तद्यच्छेच्छान्त आत्मनी 'ति श्रुतीनामुक्तसूत्राणां च विरोधात् । सर्वथा प्रमात्रादिभानशून्यस्यासम्प्रज्ञातसमाधेरावश्यकत्वात्, सुषुप्तिभिन्नसर्वकाले प्रमात्रादिभानमिति स्वीकारासम्भवात्, 'भिन्नविषयकानुमित्यादिसामग्रीरूपप्रतिबन्धककालीनघटादिमात्रप्रत्यक्षेच्छाजन्ये तत्प्रत्यक्षे व्यभिचारेण सुषुप्तिसमाधिभिन्नसर्वकाले प्रमात्रादिभानमित्यस्याप्यसम्भवात्, प्रमात्राद्यविषयके महावाक्यार्थबोधे बाधकाभाव इति भावः ।      

महोदय, कृपया क्षम्यताम्; न्यायरत्नावली–वेदान्तसारयोर्मध्ये वादप्रवेशेऽहं अनर्हः अस्मि। मम मते, मदीयं पूर्वोक्तं मतम् उभयपक्षयोः सामञ्जस्यं साधयति।


एतत् सर्वं यत् किमपि भवेत् नाम, अस्माकं कार्यं तु विहितमेव। अस्माभि: समाधिः कर्तव्य इति। अथ सः समाधिः संप्रज्ञातसमाधिर्भवेद् उत असंप्रज्ञातसमाधि:, न तेन कापि चिन्ता कार्या। नयने निमील्य पद्मासने स्थित्वा स्वरूपावस्थानं करणीयम् इति।

सादरं सम्मन्ये।
Reply all
Reply to author
Forward
0 new messages