द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव। योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम्।।
असाध्य: कस्यचिद्योग: कस्यचित्तत्त्वनिश्चय:। प्रकारौ द्वौ ततो देवो जगाद परम: शिव:।। इति।
योगशास्त्रे चित्तं परमार्थवस्तु इति स्वीकृतम्। एवं तर्हि साक्षिमात्रस्य साक्षात्कारस्तु तदैव भवितुं शक्यते यदा चित्तस्य चित्तदृश्यस्य च अप्रतीतिर्भवेत्। यत: संप्रज्ञातसमाधौ आत्मैकाकारवृत्तिप्रवाहयुक्तं अन्तःकरणं साक्षिणा अनुभूयते, अतो न तत्र चित्तस्य अप्रतीति:, न पुन: साक्षिण: साक्षात्कारो वा भवितुं शक्यते। किन्तु असंप्रज्ञातसमाधौ चित्तं सर्वथा निरुद्धं भवति, न तत्र काऽपि वृत्तिरवशिष्यते। एवं सति संस्कारमात्ररूपेण स्थितमपि चित्तं न साक्षिणा अनुभूयते। अयमेव विशेष एतयो: समाध्योर्मध्ये। अथ यतोऽसंप्रज्ञातसमाधौ चित्तं चित्तदृश्यञ्च न साक्षिणा अनुभूयेते, अत: स्वप्रकाशसाक्षिमात्रस्य प्रकाश: तस्यामवस्थायाम्भवति।
वेदान्तशास्त्रे किन्तु न एवंरूपा प्रक्रिया। अत्र चित्तस्य अपि कल्पितत्वमङ्गीकृतम्। चित्तस्य कल्पितत्वे सति, अकल्पितस्य अधिष्ठानस्य ज्ञानमात्रात् रज्जुसर्पवत् कल्पितस्य चित्तस्य अप्रतीतिर्भवति। न तस्य कृते कोऽपि समाधिरनुष्ठेय:। एतस्मात् कारणात् भाष्यकारै: कुत्रापि आत्मसाक्षात्काराय योगापेक्षा समाध्यपेक्षा न प्रतिपादिता, किन्तु ब्रह्मज्ञानं अधिष्ठानज्ञानमेव कारणत्वेनाङ्गीकृतम्। अधिष्ठानज्ञानात् कल्पितस्य प्रपञ्चस्य अदर्शनत्वे सति शुद्धात्मन आनन्दात्मक: प्रकाशो भवति इति प्रक्रिया।
अयं विशेषो योगवेदान्तयोर्मध्ये। इदन्तत्त्वङ्गूढार्थदीपिकायां षष्ठाध्यायस्य एकोनत्रिंशत्तमे श्लोकव्याख्याने विवरीतम्।
सुधांशु:
--
You received this message because you are subscribed to the Google Groups "Sanskrit Advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to sanskritadvait...@googlegroups.com.
To view this discussion, visit https://groups.google.com/d/msgid/sanskritadvaitin/CAH9%3D%2BBCVoPbb8t3d5DQcz_WTQDUGj6ozxHb1ey1THEDxhUOGEA%40mail.gmail.com.
For more options, visit https://groups.google.com/d/optout.
मम मतम् - असंप्रज्ञातसमाधेः तथा अखण्डाकारवृत्तिरूपावस्थयोर्मध्ये गूढतरं महत् साम्यमस्ति। बृहदारण्यकोपनिषद्भाष्ये (१।४।७) भगवान् भाष्यकारः स्पष्टं वदति - “न ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति” इति।
एतस्मिन्नर्थे स्वामिनः सर्वप्रियानन्दस्य किमपि भाषणम् अपि विद्यते; तस्मिन्नपि भवतोऽवधानम् आकर्षयितुमिच्छामि।
https://www.youtube.com/watch?v=j3y8THVdPPM (59:22)
(अयं संस्कृतानुवादः ChatGPT-साहाय्येन कृतः; अहं ह्यद्यापि संस्कृतभाषायां नवशिक्षार्थी; यदि कश्चिद् दोषः भवेत्, क्षम्यताम्।)
तत्र भाष्ये चित्तस्य सर्ववृत्तिनिरोधरूपस्य असंप्रज्ञातसमाधे: मोक्षसाधनत्वं न अङ्गीकृतम्। अस्य कारणं तु अन्यत्र वर्णितम्। बन्ध: अज्ञानप्रसूतः अस्ति, अत: अज्ञाननिवारणादृते अस्य बन्धस्य निवारणं न भवितुं शक्यते। अथ अज्ञानस्य निवारणं तु केवलेन ज्ञानेन भवितुं शक्यते किल। अत एव सिद्धान्ते बन्धस्य निवारणं नाम मोक्ष: ज्ञानादेव स्वीक्रियते।
किन्तु तुष्यतुदुर्जनन्यायेन यदि योगस्य नाम असंप्रज्ञातसमाधेः मोक्षसाधनत्वं यदि अङ्गीक्रियेदपि चेत्, तथापि न ब्रह्मज्ञानादृते तस्य योगस्य आविर्भावः भवति। अयं सिद्धान्तः भवतः उपस्थापिते भाष्यांशे दृश्यते।
मधुसूदनसरस्वतीस्वामिभि: असंप्रज्ञातसमाधेः कारणत्वेन परवैराग्यं स्वीकृतम्। भगवत्पादैः ब्रह्मविज्ञानम् इति तु अन्तरं प्रथमदृष्ट्या प्रतीयते। किन्तु परवैराग्यं ब्रह्मज्ञानेन विना दु:शक्यम् इति अङ्गीकारे तु सर्वम् अनामयम्।
चिन्ता मास्तु भ्रातः। वयं सर्वे विद्यार्थिनः एव स्मः।
अखण्डाकारवृत्तेः जाते सति अज्ञानतत्कार्यस्य च नाशः इति वेदान्तिनः
योगदर्शने असंप्रज्ञातसमाधेः बहिरागमनं भविता वा ? यदि भवति तर्हि तस्य पुरुषस्य स्थितिः का ?
सत्यम्; सम्मतम्। किंतु ममाभिप्रायोऽयम् (मम बोधोऽपि) - अविद्यां निवर्तयति या वेदान्तवाक्यजनिता ब्रह्माकारवृत्तिरूपा अवस्था, सा एव असंप्रज्ञातसमाधिः। स एव चित्तवृत्तिनिरोधः; स एव योगः।
तद्विपरीतं तु न सत्यम्। नैव सर्वेऽप्यसंप्रज्ञातसमाधयः ब्रह्माकारवृत्तिस्वरूपा भवन्ति। अन्येऽपि उपायाः सन्ति, येभिर्योगो वा असंप्रज्ञातसमाधिः साध्यते; ते तु मोक्षाय न नयन्ति।
मम उन्नत्यर्थं वेदान्ततत्त्वसम्बद्धान् दोषान् तथा संस्कृतव्याकरणदोषान् कृपया निरीक्ष्य संशोधयतु।
--
You received this message because you are subscribed to the Google Groups "Sanskrit Advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to sanskritadvait...@googlegroups.com.
To view this discussion, visit https://groups.google.com/d/msgid/sanskritadvaitin/CAH9%3D%2BBD0Jdq--La%2BaY4b1qOScv-Bwe0iZcTWTL_5VyZ0Zb4qJA%40mail.gmail.com.
योगमते (एवं साङ्ख्यमते च) मोक्षस्वरूपं कीदृशमिति |
मुक्त्यवस्थायां 'मुक्तोऽहम्' इत्याद्यनुभवं भवति वा?
मुक्तजीवाः किं कञ्चन लोकं प्रविश्य तत्र वसन्ति वा?
असंप्रज्ञातसमाधौ काऽपि वृत्तिर्न अवशिष्यते। असंप्रज्ञातसमाधिः संस्कारशेष इति तु योगसूत्रम्। एवं तत्र वृत्तीनाम् अभावस्य अङ्गीकारे सति पुनः कथं तत्र अखण्डाकारवृत्तेः सद्भावम् अङ्गीकर्तुं शक्यते? अखण्डाकारवृत्तिरपि एका वृत्तिरेव खलु! कथं सा तस्यां वृत्तिनिरोधावस्थायां भवितुं शक्येत!
निश्चयेन सूचयिष्यामि। मया कृता: दोषा अपि तथैव सूचनीया:।
भगवान् रमणमहर्षिराह - ‘अहं’वृत्तिर्नामैकैव मूलभूता, यस्यां सर्वाः अन्याः वृत्तयः लीयन्ते; सा चान्ते स्वयमपि लीयते, शेषे केवलोऽहमेव प्रकाशते।
एषैव मूलभूता वृत्तिरखण्डाकारवृत्तिः; सा अविद्यां समूलं नुदति, तथा कृत्वा अन्ते स्वयमपि लीयते, चैतन्यमेवावशिष्टं प्रकाशते। एतद् वेदान्तसारे (१७१–१७२) अपि उक्तम्।
एकया मूलवृत्त्या सह सर्ववृत्तीनां सम्यग्लयः असंप्रज्ञातसमाधिरित्यथवा निर्विकल्पसमाधिः; स एव चित्तवृत्तिनिरोधः, स एव योगः। अयं समाधिरेव चैतन्यम्।तस्मादखण्डाकारवृत्तिरूपावस्था योगे परिणमति, स च योगः चैतन्यस्य स्वरूपावस्था एव।न मम मतं यत् योगसाधना अद्वैतसाधनस्य तुल्यं फलम् आवहति; किन्तु ममाभिप्रायोऽयम्—अद्वैतसाधना योगदर्शनेन “योग” इति परिभाषितामेव अवस्थां प्रापयति।
इममधिकृत्य न्यायरत्नावल्यां गौडब्रह्मानन्दसरस्वतीभि: व्याख्यानं कृतम् -
सम्प्रज्ञातसमाधिस्तु मनोदेहादिभिन्नतया साक्षिणो ज्ञानप्रवाहरूपः | 'ब्रह्मास्मी'ति शाब्दज्ञानोत्तरं तु तादृशधीप्रवाहरूप एव । असम्प्रज्ञातसमाधिस्तु सकलवृत्तिशून्यनिरोधरूपेण परिणतमावृत्तं मन एव । वेदान्तसारादौ तु 'निरोधरूपेण परिणामोऽपि ( असम्प्रज्ञातः, स ) केवलात्माकारवृत्तिरूपः, मनोवृत्तिभानाभावे समानेऽपि मनोवृत्ति-सत्त्वासत्त्वाभ्यामसम्प्रज्ञातसमाधिसुषुप्त्योर्भेदादि' त्युक्तम् ।
तन्न ।
'मोक्षे निर्विषयं स्मृतम्, यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह, तद्यच्छेच्छान्त आत्मनी 'ति श्रुतीनामुक्तसूत्राणां च विरोधात् । सर्वथा प्रमात्रादिभानशून्यस्यासम्प्रज्ञातसमाधेरावश्यकत्वात्, सुषुप्तिभिन्नसर्वकाले प्रमात्रादिभानमिति स्वीकारासम्भवात्, 'भिन्नविषयकानुमित्यादिसामग्रीरूपप्रतिबन्धककालीनघटादिमात्रप्रत्यक्षेच्छाजन्ये तत्प्रत्यक्षे व्यभिचारेण सुषुप्तिसमाधिभिन्नसर्वकाले प्रमात्रादिभानमित्यस्याप्यसम्भवात्, प्रमात्राद्यविषयके महावाक्यार्थबोधे बाधकाभाव इति भावः ।
एतत् सर्वं यत् किमपि भवेत् नाम, अस्माकं कार्यं तु विहितमेव। अस्माभि: समाधिः कर्तव्य इति। अथ सः समाधिः संप्रज्ञातसमाधिर्भवेद् उत असंप्रज्ञातसमाधि:, न तेन कापि चिन्ता कार्या। नयने निमील्य पद्मासने स्थित्वा स्वरूपावस्थानं करणीयम् इति।
महोदय, कृपया वेदान्तसारस्य (१७२) अवलोकयतु। तत्र सुस्पष्टमुक्तं यत् अखण्डाकारवृत्त्युत्पत्तौ सर्वावृत्तीनां निवृत्तिः, अन्ते च सा स्वयमेव लीयते। वेदान्तमहावाक्यजन्या अखण्डाकारवृत्तेः उत्पत्त्यवस्था संप्रज्ञातसमाधिरिति निर्दिश्यते। तस्याः अखण्डाकारवृत्तेः पर्यवसानम्, यत्र सा अन्ते स्वयमेवोपशाम्यति, असंप्रज्ञातसमाधिः इति; एतत् न्यायरत्नावलीप्रवचनेन संगच्छते।
नमस्ते शुद्धांशो महोदय विक्रम महोदय च ।
प्रथमतया अस्य संस्कृताद्वैतिगणस्य कर्तु: शुद्धांशुमहोदयस्य कृते अभिनन्दनानि धन्यवादाश्च ।
बहुरुचिकरमस्ति इयम् चर्चा । अत्र समाधिविषये किञ्चित् अद्वैतवेदान्तस्य मूलभूतविषयान् वक्तुम् इच्छामि ।
१) ज्ञानमेव साक्षान्मोक्षसाधनम् ।
————————————————
मोक्ष: एकसाधनसाध्य: । मोक्षस्य साधनं तु ज्ञानमेव । आत्मज्ञानेनैव मोक्ष: सिद्ध्यति नान्यथा इति वेदान्तसिद्धान्त: इति वयं सर्वे जानीम: । अज्ञानवशादेव प्राप्तस्य मोक्षस्य अप्राप्ति: । अत: ज्ञानेनैव प्राप्तस्य मोक्षस्य प्राप्ति: न अन्यथा ।
“नान्यः पन्था॒ अय॑नाय विद्यते ।” (पु. सू)
“यदा चर्मवदाकाशम् वेष्टयिष्यन्ति मानवा: ।
तदा देवमविज्ञाय दु:खस्यान्तो भविष्यति ॥” (श्वे. उप. ६.२०) इत्यादि श्रुते: ।
बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् ।
पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति ॥ (आत्मबोध: २)
ज्ञानं विना मोक्षो न सिद्ध्यति इति भगवत्पदैरपि बहुत्र स्पष्टतया उक्तत्वात् च ।
२) वेदान्तशब्दप्रमाणयुक्तश्रवणमननमेव ज्ञानस्य साक्षात् साधनम् । समाधिर्न कदापि ज्ञानस्य साक्षात् साधनम्
———————————————————————————————————————————————————
ज्ञानमपि एकसाधनसाध्यमेव । किमपि ज्ञानं तु केनचित् प्रमाणेनैव सिद्ध्यति न अन्यथा । अत्र अपेक्षितम्प्रमाणं तु श्रवणकाले गुरुमुखात् श्रुतं वेदान्तशब्दप्रमाणमेव येन जीवात्मपरमात्मनोरैक्यम् ज्ञायते । अतो आत्मज्ञानस्यापि वेदान्तशब्दप्रमाणान्तरमन्यं किमपि साक्षात् साधनं नास्ति ।
निर्विकल्पकसमाध्यवस्थायां तु किमपि ज्ञातुम् न शक्यते प्रमातृप्रमाणप्रमात्रिपुटेरभावात् । अपि च
“न हि रज्जावारोपित: सर्पो रज्जुज्ञानं विना निवर्तते, येनात्मन्यारोपित: संसार: आत्मज्ञानं विना निवर्तेत । तस्मात् ब्रह्मात्मैकत्वज्ञानमेव संसारच्छेदकारणम्” इति रामरायकविभिर्भगवद्गीताया: ६.२९ श्लोकस्य भाष्यार्कप्रकाशे उक्तम् ।
“न हि कल्पितसर्पस्य रज्जु: विरोधिनी । अधिष्ठानविषयं वृत्तिज्ञानं तु कल्पितविरोधि - कल्पितसर्पस्य अधिष्ठानरज्जुज्ञानं विरोधि हि - रज्जुज्ञाने सर्पबुद्धे: नाशानुभवात्” इति वेदान्तसङ्ग्रहे रामरायकविभिरुक्तम् ।
अत: अधिष्ठानविषयकवृत्तिज्ञानमेव अज्ञानस्य कल्पितस्य च विरोधि न तु अधिष्ठानम् । अत: अहम्ब्रह्मास्मिवृत्तिरूपेण अधिष्ठानब्रह्मात्मविषयकवृत्तिज्ञानमेव अज्ञानस्य कल्पितजीवत्वस्य च विरोधि न तु आत्मा । अत: आज्ञाने सति निर्विकल्पकसमाधिना अज्ञानस्य कल्पितजीवत्वस्य च आत्यन्तिकनाशो न भवति अधिष्ठानविषयकवृत्तिज्ञानाभावात् ।
३) नाशो द्विविध:
————————
अपि च नाशो द्विविध: । लयो बाधश्च । आरोपितस्य लयस्तु आपेक्षिकनाश: एव आरोपितस्य पुनरुत्पत्तिसम्भवात् ।
आरोपितस्य बाधो एव आत्यन्तिकनाश: आरोपितस्य स्वतन्त्रसत्ता त्रिकालेऽपि नास्ति इति निश्चयात् । अधिष्ठानस्यैव स्वतन्त्रसत्ता इति सम्यग्ज्ञानोदयात् ।
वशिष्ठमहर्षिभिर्यदुक्तम् -
“द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव। योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम्।।”
अत्र वशिष्ठोक्तम् अद्वैतवेदान्तस्य मूलभूतसिद्धान्तानाम् हानिं विनैव अवगन्तव्यम् ।
अत्र वेदान्तशब्दप्रमाणरहितयोगेन निर्विकल्पकसमाधौ य: चित्तनाशो भवेत् तत्तु चित्तस्य लय: एव । चित्तस्य पुनर्भवनम् भवेदेव अज्ञानस्य अनुवर्तमानत्वात् वृत्तिज्ञानाभावात् इति एव अद्वैतवेदान्तिभि: वक्तव्यम् ।
अहम्ब्रह्मास्मीति अनेन ज्ञानेन य: चित्तनाशो भवेत् तत्तु बाध: । बाधे तु आरोपिस्य चित्तस्य त्रिकालेऽपि स्वतन्त्रसत्ता नास्तीति दृढनिश्चयो भवेत् अधिष्ठानविषयकवृत्तिज्ञानात् ।
४) सांख्ययोगसिद्धान्तस्तु अद्वैतिभिर्निराकृत:
————————————————————-
सांख्ययोगमतयो: सिद्धान्त: तु अद्वैतिभिर्निराकृत: एव सांख्ययोगमतयो: आत्मनानात्वाभ्युपगमे च प्रकृतिपुरुषयो: समानसत्ताकत्वाभ्युपगमे च सति अद्वैतश्रुतिविरोधात् । अत्र भगवत्पदैरेवमुक्तम् -
“निराकरणं तु — न साङ्ख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति । श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति — ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति । द्वैतिनो हि ते साङ्ख्या योगाश्च नात्मैकत्वदर्शिनः ।”
“तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति — ‘नावेदविन्मनुते तं बृहन्तम्’ (तै. ब्रा. ३ । १२ । ९ । ७) ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इत्येवमादिश्रुतिभ्यः”
उपरि “वेदनिरपेक्षेण साङ्ख्यज्ञानेन योगमार्गेण वा निःश्रेयसम् न अधिगम्यते…श्रुति: हि वैदिकादात्मैकत्वविज्ञानात् अन्यत् नि:श्रेयससाधनं वारयति” इति सावधानतया पश्यन्तु । “द्वैतिनो हि ते साङ्ख्या योगाश्च न आत्मैकत्वदर्शिनः” इत्यपि भगवत्पादै: स्पष्टतया उक्तमत्र ।
५) अद्वैतमते योगस्य समाधेश्च कुत्र अभ्युपगमनम्?
———————————————————————-
सांख्ययोगमतयो: सिद्धान्तस्य निराकरणं कृतञ्चेदपि तयोरविरुद्धसाधनानाम् अद्वैतवेदान्ताचार्यैरङ्गीकृतम् ।
अत: अष्टाङ्गयोगेन केषाञ्चित् उक्तानाम् साधनानाम् प्रयोग: अद्वैतमतेऽपि दृश्यते । योगस्य सिद्धान्तं नाङ्गीकृतं चेदपि साधनरूपेण श्रुत्यविरुद्धांशा: एव अस्माभि: स्वीक्रियन्ते । अत्र भगवत्पदैरेवमुक्तम् -
“येन त्वंशेन न विरुध्येते, तेनेष्टमेव साङ्ख्ययोगस्मृत्योः सावकाशत्वम्”
अद्वैतवेदान्तमते कुत्र अभ्युपगम्यते इति चेत् -
५.१) साधनचतुष्टयसम्पत्तौ शमो दमस्समाधानञ्च सम्पादनार्थं अष्टाङ्गयोगेन उक्तानि साधनानि उपयोगीनि भवन्ति । समाध्याभ्यासोऽपि अत्र अङ्गीकृत: । किन्तु शमो दमस्समाधानञ्च निर्विकल्पकसमाधेरेव साधयितुं शक्यते इति न । शमदमसमाधानमित्यादि तु निष्कामतया कृतया सगुणोपासनया अपि साधयितुम् शक्यते ।
५.२) श्रवणमननान्तरमपि कस्मिन्श्चित् प्रतिबन्धके सति अपरोक्षज्ञानं नोदेति चेत् तत्प्रतिबन्धकस्य निवारणार्थं निर्गुणब्रह्मोपासना कर्तुम् शक्यते इति पञ्चदश्याम् विद्यारण्यमुनिभिरुक्तम् नवमाध्याये । निर्गुणोपासनया उदित: पुण्य: प्रतिबन्धकस्य निवारणम् करोति । प्रतिबन्धकस्य निवारणे सति पूर्वकृतश्रवणबलादेव आत्मज्ञानमुदेति । अत्रापि निर्गुणब्रह्मोपासनकाले निर्विकल्पकसमाधि: भवितुमर्हति । किन्तु सा निर्विकल्पकसमाधि: ज्ञानस्य साक्षात् कारणम् न किन्तु ज्ञानप्रतिबन्धकस्य निवारकैव । अपि च अत्र प्रतिबन्धकस्य निवारणार्थं निर्गुणब्रह्मोपासनैव कर्तव्यम् इति न । निष्कामतया कृतया सगुणोपासनया अपि उदितपुण्येन ज्ञानप्रतिबन्धकस्य निवारणं भवितुमर्हति ।
५.३) श्रवणमननान्तरम् अपरोक्षज्ञानोदयान्तरम् विपरीतभावनानिवृत्त्यर्थं निदिध्यासनं अवश्यं कर्तव्यम् । सर्वदा इदं ज्ञातव्यं - निदिध्यासनमं कदापि ज्ञानार्थम् न । ज्ञानं तु श्रवणमननेनैव लभ्यते । निदिध्यासनं कदापि मोक्षार्थमपि न । यतो हि “मोक्ष: मम स्वरूपमेव । मया मोक्षोपि न प्राप्तव्य:” इति ज्ञानमपि श्रवणमननेनैव लभ्यते । तर्हि किमर्थं निदिध्यासनमिति चेत् केवलविपरीतभावनानिवृत्त्यर्थमेव ।
अत्रापि समाध्याभ्यासरूपनिदिध्यासनं कर्तुम् शक्यते । वेदान्तमते ज्ञानोदयानन्तरम् विपरीतभावनानिवृत्त्यर्थं निदिध्यासनकाले ध्यानम् क्रियते चेदपि तत्र तु सजातीयवेदान्तचिन्तनवृत्तिप्रवाहरूपध्यानमेव अपेक्षितम् न तु चित्तवृत्तिनिरोधरूपध्यानम् यत् योगशास्त्रे उक्तम् ।
किन्तु निदिध्यासनकाले समाध्याभ्यासरूपेणैव निदिध्यासनम् करणीयमिति न । केनापि रूपेण पुन: पुन वेदान्तचिन्तनम् करणीयम् । अन्यरूपेणापि कर्तुम् शक्यते यथा विद्यारण्यमुनिभिरुक्तम् -
“तच्चिन्तनं तत्कथनं अन्योन्यं तत्प्रबोधनं । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधा: ॥” (पञ्चदशी ७.१०६)
५.४) ज्ञाननिष्ठाप्राप्त्यनन्तरम् जीवन्मुक्तिसुखप्राप्त्यार्थं अपि केषांचित् ज्ञानिनां समाधौ प्रवृत्ति: भवितुम् अर्हति । किन्तु तत्प्राब्धवशादेव भवेत् । ज्ञानिन: प्रवृत्तौ वा निवृत्तौ वा नास्ति नियम: । ज्ञानिन: प्रवृत्तिर्वा निवृत्तिर्वा प्रारब्धवशादेव भवेत् ।
“जनकस्य प्रारब्धन्तु आमरणं राज्यपरिपालनादिरूपविशेषभोगहेतुरासीत् ॥ …………. वामदेवादिप्रारब्धं स्वल्पभोगहेतुरासीत् ......”।
“इत्थं ज्ञानिनां नानाप्रकारा विलक्षणव्यवहाराः कथिताः । सर्वेषामपि तेषां सममेव ज्ञानम् । फलमपि मोक्षरूपं समानमेव । व्यवहारास्तु प्रारब्धभेदान्नानाप्रकाराः । व्यवहारलोपाज्जीवन्मुक्तिसुखमधिक्रियेत । व्यवहाराधिक्ये जीवन्मुक्तिसुखं न्यूनतां व्रजेत् ।”
(विचारसागर: ४८४-आवर्ते ३३७/३३८ तमे पुटे)
अत: भिन्नानाम् ज्ञानिनाम् मध्ये समाधौ प्रवृत्तिरपि भिद्यते । अत: जीवन्मुक्तिसुखस्य तारतम्यमस्ति एव ज्ञानिनाम् मध्ये । किन्तु ज्ञानिनाम् ज्ञानस्य वा मोक्षस्य वा किमपि तारतम्यं नास्ति । सर्वे ज्ञानिन: मुक्ता: एव तेषाम् जीवने प्रवृत्तिर्वा भवतु निवृत्तिर्वा भवतु । एतत्सर्वं विचारसागरे सप्तमोध्याये (४६५-४८८-तमेषु आवर्तेषु) विस्तरेण चिन्तितम् ।
अत्र विचारसागरे ३३१ तमे पुटे यदुक्तम् (यद् भवतापि अत्र दर्शितम्) तद् पूर्वपक्षिणैव उक्तम् । स: अद्वैतवेदान्ती एव । किन्तु अद्वैतवेदान्तमते एकदेशी । स: ज्ञानिन: कृते समाधौ प्रवृत्ति: अनिवार्या इति साधयितुमिच्छति । ४६५-४८३ आवर्तेषु सर्वं तेन पूर्वपक्षिणैव उक्तम् । तत्र केचन अंशा: अस्माभि: सिद्धान्तिभि: स्वीकृता: अन्ये निराकृताश्च ।
अत: एव
“अतोऽवश्यमनुष्ठेयं तत् । इत्थं समाधेरवश्यानुष्ठेयतां श्रुत्वा “भूताविष्टवदेतेऽन्यथा कथयन्ति” इति मत्वा तत्त्वदृष्टिस्तूष्णीमनुक्त्वा किञ्चिदपि, जहास । अस्यायं सिद्धान्तः - नैवास्ति नियमो ज्ञानिनः शरीरव्यवहारे ।”
(विचारसागर: ४६५-आवर्ते ३२१ तमे पुटे)
६) अद्वैति-गण-मध्ये समाधे: विषये पूर्वं मया एतत्प्रेषितम्
कृपया पश्यन्तु ।
https://groups.google.com/g/advaitin/c/TXtp1Bs-ucY/m/o8EXvbSGAAAJ
https://groups.google.com/g/advaitin/c/TXtp1Bs-ucY/m/3Z9ejyuMAAAJ
केचन उट्टङ्कनदोषा: भवितुमर्हन्ति । दृष्टञ्चेत् कृपया सूचयन्तु ।
धन्यवादा: ।
ओम्
Satyan Chidambaran
https://www.youtube.com/@Advaita-Drishti
ओम् श्रीगुरुभ्यो नम: ।
नमस्ते सुधांशो महोदय विक्रम महोदय च ।
(केषाञ्चन उट्टङ्कनदोषानाम् परिशोधनं कृत्वा स्पष्टीकृत्वा पुन: प्रेषितमत्र । एतदेव पश्यन्तु)
प्रथमतया अस्य संस्कृताद्वैतिगणस्य कर्तु: सुधांशुमहोदयस्य कृते अभिनन्दनानि धन्यवादाश्च ।
बहुरुचिकरास्ति इयम् चर्चा । अत्र समाधिविषये किञ्चित् अद्वैतवेदान्तस्य मूलभूतविषयान् वक्तुम् इच्छामि ।
१) ज्ञानमेव साक्षान्मोक्षसाधनम् ।
————————————————
मोक्ष: एकसाधनसाध्य: । मोक्षस्य साधनं तु ज्ञानमेव । आत्मज्ञानेनैव मोक्ष: सिद्ध्यति नान्यथा इति वेदान्तसिद्धान्त: इति वयं सर्वे जानीम: । अज्ञानवशादेव प्राप्तस्य मोक्षस्य अप्राप्ति: । अत: ज्ञानेनैव प्राप्तस्य मोक्षस्य प्राप्ति: न अन्यथा ।
“नान्यः पन्था॒ अय॑नाय विद्यते ।” (पु. सू)
“यदा चर्मवदाकाशम् वेष्टयिष्यन्ति मानवा: ।
तदा देवमविज्ञाय दु:खस्यान्तो भविष्यति ॥” (श्वे. उप. ६.२०) इत्यादि श्रुते: ।
बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् ।
पाकस्य वह्निवज्ज्ञानं विना मोक्षो न सिध्यति ॥ (आत्मबोध: २)
ज्ञानं विना मोक्षो न सिद्ध्यति इति भगवत्पदैरपि बहुत्र स्पष्टतया उक्तत्वात् च ।
२) वेदान्तशब्दप्रमाणयुक्तश्रवणमननमेव ज्ञानस्य साक्षात् साधनम् । समाधिर्न कदापि ज्ञानस्य साक्षात् साधनम्
———————————————————————————————————————————————————
ज्ञानमपि एकसाधनसाध्यमेव । किमपि ज्ञानं तु केनचित् प्रमाणेनैव सिद्ध्यति न अन्यथा । अत्र अपेक्षितम्प्रमाणं तु श्रवणकाले गुरुमुखात् श्रुतं वेदान्तशब्दप्रमाणमेव येन जीवात्मपरमात्मनोरैक्यम् ज्ञायते । अत: आत्मज्ञानस्यापि वेदान्तशब्दप्रमाणातन्यत् किमपि साक्षात् साधनं नास्ति ।
“तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति — ‘नावेदविन्मनुते तं बृहन्तम्’ (तै. ब्रा. ३ । १२ । ९ । ७) ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इत्येवमादिश्रुतिभ्यः”
निर्विकल्पकसमाध्यवस्थायां तु किमपि ज्ञातुम् न शक्यते प्रमातृप्रमाणप्रमात्रिपुटेरभावात् । अपि च
“न हि रज्जावारोपित: सर्पो रज्जुज्ञानं विना निवर्तते, येनात्मन्यारोपित: संसार: आत्मज्ञानं विना निवर्तेत । तस्मात् ब्रह्मात्मैकत्वज्ञानमेव संसारच्छेदकारणम्” इति रामरायकविभिर्भगवद्गीताया: ६.२९ श्लोकस्य भाष्यार्कप्रकाशे उक्तम् ।
“न हि कल्पितसर्पस्य रज्जु: विरोधिनी । अधिष्ठानविषयं वृत्तिज्ञानं तु कल्पितविरोधि - कल्पितसर्पस्य अधिष्ठानरज्जुज्ञानं विरोधि हि - रज्जुज्ञाने सर्पबुद्धे: नाशानुभवात्” इति वेदान्तसङ्ग्रहे रामरायकविभिरुक्तम् ।
अत: अधिष्ठानविषयकवृत्तिज्ञानमेव अज्ञानस्य कल्पितस्य च विरोधि न तु अधिष्ठानम् । अत: अहम्ब्रह्मास्मिवृत्तिरूपेण अधिष्ठानब्रह्मात्मविषयकवृत्तिज्ञानमेव अज्ञानस्य कल्पितजीवत्वस्य च विरोधि न तु आत्मा । अत: आज्ञाने सति निर्विकल्पकसमाधिना अज्ञानस्य कल्पितजीवत्वस्य च आत्यन्तिकनाशो न भवति अधिष्ठानविषयकवृत्तिज्ञानाभावात् ।
३) नाशो द्विविध:
————————
अपि च नाशो द्विविध: । लयो बाधश्च । आरोपितस्य लयस्तु आपेक्षिकनाश: एव आरोपितस्य पुनरुत्पत्तिसम्भवात् ।
आरोपितस्य बाधो एव आत्यन्तिकनाश: आरोपितस्य स्वतन्त्रसत्ता त्रिकालेऽपि नास्ति इति निश्चयात् । अधिष्ठानस्यैव स्वतन्त्रसत्ता इति सम्यग्ज्ञानोदयात् ।
वशिष्ठमहर्षिभिर्यदुक्तम् -
“द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव। योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम्।।”
अत्र वशिष्ठोक्तम् अद्वैतवेदान्तस्य मूलभूतसिद्धान्तानाम् हानिं विनैव अवगन्तव्यम् ।
अत्र वेदान्तशब्दप्रमाणरहितयोगेन निर्विकल्पकसमाधौ य: चित्तनाशो भवेत् तत्तु चित्तस्य लय: एव । चित्तस्य पुनर्भवनम् भवेदेव अज्ञानस्य अनुवर्तमानत्वात् वृत्तिज्ञानाभावात् इति एव अद्वैतवेदान्तिभि: वक्तव्यम् ।
अहम्ब्रह्मास्मीति अनेन ज्ञानेन य: चित्तनाशो भवेत् तत्तु बाध: । बाधे तु आरोपिस्य चित्तस्य त्रिकालेऽपि स्वतन्त्रसत्ता नास्तीति दृढनिश्चयो भवेत् अधिष्ठानविषयकवृत्तिज्ञानात् ।
४) सांख्ययोगसिद्धान्तस्तु अद्वैतिभिर्निराकृत:
————————————————————-
सांख्ययोगमतयो: सिद्धान्त: तु अद्वैतिभिर्निराकृत: एव सांख्ययोगमतयो: आत्मनानात्वाभ्युपगमे च प्रकृतिपुरुषयो: समानसत्ताकत्वाभ्युपगमे च सति अद्वैतश्रुतिविरोधात् । अत्र भगवत्पदैरेवमुक्तम् -
“निराकरणं तु — न साङ्ख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति । श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति — ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति । द्वैतिनो हि ते साङ्ख्या योगाश्च नात्मैकत्वदर्शिनः ।”
उपरि “वेदनिरपेक्षेण साङ्ख्यज्ञानेन योगमार्गेण वा निःश्रेयसम् न अधिगम्यते…श्रुति: हि वैदिकादात्मैकत्वविज्ञानात् अन्यत् नि:श्रेयससाधनं वारयति” इत्येतद् सावधानतया पश्यन्तु । “द्वैतिनो हि ते साङ्ख्या योगाश्च न आत्मैकत्वदर्शिनः” इत्यपि भगवत्पादै: स्पष्टतया उक्तमत्र ।
५) अद्वैतमते योगस्य समाधेश्च कुत्र अभ्युपगमनम्?
———————————————————————-
सांख्ययोगमतयो: सिद्धान्तस्य निराकरणं कृतञ्चेदपि तयो: श्रुत्यविरुद्धसाधनानि अद्वैतवेदान्ताचार्यैरङ्गीकृतानि ।
अत: अष्टाङ्गयोगेन केषाञ्चित् उक्तानाम् साधनानाम् प्रयोग: अद्वैतमतेऽपि दृश्यते । योगस्य सिद्धान्तं नाङ्गीकृतं चेदपि साधनरूपेण श्रुत्यविरुद्धांशा: एव अस्माभि: स्वीक्रियन्ते । अत्र भगवत्पदैरेवमुक्तम् -
“येन त्वंशेन न विरुध्येते, तेनेष्टमेव साङ्ख्ययोगस्मृत्योः सावकाशत्वम्”
अद्वैतवेदान्तमते कुत्र योगस्य समाधेश्च अभ्युपगमनमिति चेत् -
५.१) साधनचतुष्टयसम्पत्तौ शमो दमस्समाधानञ्च सम्पादनार्थं अष्टाङ्गयोगेन उक्तानि साधनानि उपयोगीनि भवन्ति । समाध्याभ्यासोऽपि अत्र अङ्गीकृत: । किन्तु शमो दमस्समाधानञ्च निर्विकल्पकसमाधेरेव साधयितुं शक्यन्ते इति न । शमदमसमाधानमित्यादि तु निष्कामतया कृतया सगुणोपासनया अपि साधयितुम् शक्यते ।
५.२) श्रवणमननान्तरमपि कस्मिन्श्चित् प्रतिबन्धके सति अपरोक्षज्ञानं नोदेति चेत् तत्प्रतिबन्धकस्य निवारणार्थं निर्गुणब्रह्मोपासना कर्तुम् शक्यते इति पञ्चदश्याम् विद्यारण्यमुनिभिरुक्तम् नवमाध्याये । निर्गुणोपासनया उदित: पुण्य: प्रतिबन्धकस्य निवारणम् करोति । प्रतिबन्धकस्य निवारणे सति पूर्वकृतश्रवणबलादेव आत्मज्ञानमुदेति । अत्रापि निर्गुणब्रह्मोपासनकाले निर्विकल्पकसमाधि: भवितुमर्हति । किन्तु सा निर्विकल्पकसमाधि: ज्ञानस्य साक्षात् कारणम् न किन्तु ज्ञानप्रतिबन्धकस्य निवारकैव । अपि च अत्र प्रतिबन्धकस्य निवारणार्थं निर्गुणब्रह्मोपासनैव कर्तव्यम् इति न । निष्कामतया कृतया सगुणोपासनया अपि उदितपुण्येन ज्ञानप्रतिबन्धकस्य निवारणं भवितुमर्हति ।
५.३) श्रवणमननान्तरम् अपरोक्षज्ञानोदयान्तरम् विपरीतभावनानिवृत्त्यर्थं निदिध्यासनं अवश्यं कर्तव्यम् । सर्वदा इदं ज्ञातव्यं - निदिध्यासनमं कदापि ज्ञानार्थम् न । ज्ञानं तु श्रवणमननेनैव लभ्यते । निदिध्यासनं कदापि मोक्षार्थमपि न । यतो हि “मोक्ष: मम स्वरूपमेव । मया मोक्षोपि न प्राप्तव्य: नित्यमुक्तस्वरूपत्वात्” इति ज्ञानमपि श्रवणमननेनैव लभ्यते । तर्हि किमर्थं निदिध्यासनमिति चेत् केवलविपरीतभावनानिवृत्त्यर्थमेव ।
अत्रापि समाध्यभ्यासरूपनिदिध्यासनं कर्तुम् शक्यते । वेदान्तमते ज्ञानोदयानन्तरम् विपरीतभावनानिवृत्त्यर्थं निदिध्यासनकाले ध्यानम् क्रियते चेदपि तत्र तु सजातीयवेदान्तचिन्तनवृत्तिप्रवाहरूपध्यानमेव अपेक्षितम् न तु चित्तवृत्तिनिरोधरूपध्यानम् यत् योगशास्त्रे उक्तम् ।
किन्तु निदिध्यासनकाले समाध्यभ्यासरूपेणैव निदिध्यासनमेव करणीयमिति न । केनापि रूपेण पुन: पुन वेदान्तचिन्तनम् करणीयम् । अन्यरूपेणापि कर्तुम् शक्यते यथा विद्यारण्यमुनिभिरुक्तम् -
अत: आज्ञाने सति निर्विकल्पकसमाधिना अज्ञानस्य कल्पितजीवत्वस्य च आत्यन्तिकनाशो न भवति अधिष्ठानविषयकवृत्तिज्ञानाभावात् ।
अत्र विचारसागरे ३३१ तमे पुटे यदुक्तम् (यद् भवतापि अत्र दर्शितम्) तद् पूर्वपक्षिणैव उक्तम् । स: अद्वैतवेदान्ती एव । किन्तु अद्वैतवेदान्तमते एकदेशी । स: ज्ञानिन: कृते समाधौ प्रवृत्ति: अनिवार्या इति साधयितुमिच्छति । ४६५-४८३ आवर्तेषु सर्वं तेन पूर्वपक्षिणैव उक्तम् । तत्र केचन अंशा: अस्माभि: सिद्धान्तिभि: स्वीकृता: अन्ये निराकृताश्च ।
ओम् श्रीगुरुभ्यो नम:
सुधांशो महोदय,
भवता प्रत्युत्तरस्य कृते धन्यवादा: ।
यदा योगश्चित्तवृत्तिनिरोध इति योगसूत्रे वर्ण्यते तदा योग इति शब्देन संप्रज्ञातसमाधिरसम्प्रज्ञातसमाधिरिति समाधिद्वयम् अभिप्रेतम्। तत्र संप्रज्ञातसमाधौ वृत्तेः सत्त्वं, तस्या एकतानता इत्यादयः स्वीकृताः। एवं सति निदिध्यासनस्य अन्तर्भावः संप्रज्ञातसमाधौ भवितुं शक्यते इति मे मति:।
पूर्णतया निदिध्यासनस्य अन्तर्भाव: संप्रज्ञातसमाधौ न कर्तुम् शक्यते यतोहि निदिध्यासनन्तु भिन्नभिन्नरूपेण नेत्रोन्मीलितस्थित्यामपि कर्तुम् शक्यते यथा ५.3 मद्ये निर्दिष्टम् ।
समाध्यभ्यासरूपनिदिध्यासनस्य संप्रज्ञातसमाधौ अन्तर्भावोऽपि क्लेशकरो भवति एव ।
रामरावणयोर्युद्धं रामरावणयोरिव इति न्यायेन अद्वैतवेदान्तस्य समाध्यभ्यासरूपनिदिध्यासनम् अद्वैतवेदान्तस्य इव ।
यतो हि समाध्यभ्यासरूपनिदिध्यासने अज्ञानस्य नाशे सति विशेषतया वेदान्तशब्दानामहम्ब्रह्मास्मिवृत्तेश्च प्रवाहो भवेत् । केवलयोगाभ्यासेन साधितायां संप्रज्ञातसमाधौ तु अज्ञाने सति विशेषतया वेदान्तस्य शब्दानाम्प्रवहोऽपि न भवेत् ।
समाधेर्मोक्षस्य प्रति कारणता अद्वैतवेदान्ते निराकृता, किन्तु साधनावस्थायां साधकस्य स्थितेः सहजतया समाधौ अन्तर्भावो भवितुं शक्यते इति मे मतिः।
पूर्णतया सम्मतम् । साधनावस्थायां ज्ञानस्य अभावात् । तदेव मया ५.१, ५.२ मध्ये निर्दिष्टम् । अत्र योगस्य समाधिद्वयमपि साधनारूपेन कर्तुम् शक्यते । किन्तु तदपि अनिवार्यो न। यतोहि शमदमादे: सम्पादनम् ज्ञानप्रतिबन्धकस्य निवारणम् च अन्यमार्गेणापि साधयितुम् शक्यते ।
पुनः तत्त्वज्ञानानन्तरं चित्तस्य स्वाभाविकी, प्रारब्धनिरपेक्षा स्थितिस्तु वृत्तिशून्या एव भवितुमर्हति। अतः सा स्थितिर्यदि असंप्रज्ञातसमाधिरिति नाम्ना कथ्यते तर्हि तत्र कोऽपि दोषो मया न दृश्यते।
किमर्थम् वृत्तिशून्यताया: अपेक्षा अत्र महोदय? ज्ञानिन: मनसि अपि व्यवहारकाले वृत्तय: तु भवन्ति एव । ज्ञानी घटं पश्यति चेत्तस्य मनसि घटाकारवृत्ति: तु भवेदेव । निदिध्यासनकालेऽपि वेदान्तवृत्तय: भवन्ति एव । ज्ञानम् अस्ति चेत् सर्वदा ज्ञानं मनसि वृत्तिरूपेणैव निष्ठेदिति अपेक्षापि नास्ति । अहम् सम्यग्जानामि “पुरुषोऽहम्” इति । सर्वदा मनसि एवमेव वृत्तिरूपेणैव “पुरुषोऽहम्” इति वृत्ति: भवेदिति अपेक्षा नास्ति । किन्तु यदि प्रसङ्गवशात् तज्ज्ञानमपेक्षितम्, तर्हि झटिति संशयरहिता विपरीतभावनारहिता “पुरुषोहम्” इति ज्ञानम् वृत्तिरूपेण आगच्छति ।
अत्र विचारसागरे १३२-तमे आवर्ते ७८-तमे पुटे इदम् पश्यतु
“ज्ञानी च यदा व्यवहारे प्रवर्तते तदा स तत्त्वविस्मरणपूर्वकमेव प्रवर्तते । विषयप्रवृत्तिकालेऽज्ञवदास्ते ज्ञान्यपि । ज्ञानिनो हि चित्तं सदैवात्माकारमेव यदि स्यात्तदा तस्य जीवनादिनिमित्तभोजनादिव्यवहारोऽपि न सिद्ध्येत् । तस्मादात्मविमुखा बुद्धिरुभयोः समा ।”
टिपन्न्याम् “१. …. एवमेव ज्ञानिनो बुद्धिः यदा आत्माकारा तदा नानात्माकारा भवति, यदा अनात्माकारा तदा नात्माकारा भवति । यद्यप्येकान्तःकरणाधिकरणकभिन्नविषयकसामान्यविशेषरूपवृत्तिद्वयं युगपज्जायेत, तथापि विशेषरूपवृत्तिद्वयं तु नैव जायेत । यथा व्यवहारान्तरासक्तः पुरुषः पेटिकास्थधनं हस्तेन स्पृशन्नपि न स्मरति तत् धनम्, व्यवहारावसाने तु तद्धनं स्मरति; एवमेव ज्ञान्यपि व्यवहारदशायां यदा विषयाभिमुखो भवति तदा तस्य तत्त्वविस्मरणं भवति, व्यवहारसमाप्तौ पुनरपि तत्त्वनिष्ठ एव स भवति । अत एवोक्तं भाष्यकारैः श्रीभगवत्पूज्यपादैरध्यासप्रकरणे -``पश्वादिभिश्चाविशेषात् । अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः'' इति ।
पञ्चदश्याम् नवमे अध्याये एतद् विस्तरेण चिन्तितम् ।
एवं ध्यानैकनिष्ठोऽपि लेशाल्लौकिकमाचरेत् ।
तत्त्ववित्त्वविरोधित्वाल्लौकिकं सम्यगाचरेत् ॥ ८७॥
ध्यानं त्वैच्छिकमेतस्य वेदनान्मुक्तिसिद्धितः ।
ज्ञानादेव तु कैवल्यमिति शास्त्रेषु डिण्डिमः ॥ ९७॥
तत्त्वविद्यदि न ध्यायेत्प्रवर्तेत तदा बहिः ।
प्रवर्ततां सुखेनायं को बाधोऽस्य प्रवर्तने ॥ ९८॥
तत्त्वज्ञानोदयादूर्ध्वं नास्ति किमपि कर्तव्यं कर्म इति सम्प्रतिपन्नम्। असंप्रज्ञातसमाधेर्विधानं कर्तुं न शक्यते, किन्तु ज्ञानिनो या सहजा वृत्तिशून्या स्थिति: परवैराग्यकारणाद्भवेदेव, सा असंप्रज्ञातसमाधिर्भवति इति मम आशयः। तेन समाधिना मनोनाशोऽपि भवेदेव।
प्रारब्धवशात् येषां ज्ञानिनाम् निवृत्ति: अधिका भवेत् तेषाम् कृते एवं भवितुम् अर्हति । किन्तु तत्रापि भेद अस्ति । केवलयोगाभासेन साधिता असंप्रज्ञातसमाधि: अद्वैतवेदान्तदृष्ट्या तु लय: एव । आज्ञानम् कारणरूपेण तत्र सम्यक्तिष्ठति । अद्वैतवेदान्ते यदि एतादृशी स्तिथि: ज्ञानानन्तरम्भवेत् ज्ञानिनाम् स न लय: किन्तु बाध: । अत: आपातत: समानम् इति दृश्यते किन्तु सूक्ष्मदृष्ट्या भिद्यते ।
न सो मनोनाशो ज्ञानिना इष्टत्वेन प्राप्तव्य:, किन्तु स्वयमेव सो लभ्यते इति मम अभिप्रायः।
प्रारब्धवशाल्लभ्यते । किन्तु प्रारब्ध: इच्छाद्वारेणैव सर्वं साधयति । अत: केषाञ्चित् ज्ञानिनाम् मनसि लोकसङ्ग्रहस्य इच्छा उदेति प्रारब्धवशात् । ते लोकसङ्ग्रहे प्रवृत्ता: भवन्ति न तु जीवन्मुक्तिसुखाय समाधौ । अन्येषाम् ज्ञानिनाम् मनसि निवृत्ते: इच्छा उदेति प्रारब्धवशात् । ते समाधौ मग्ना: भवन्ति न तु लोकसङ्ग्रहे।
अधिष्ठानविषयकवृत्तिज्ञानयुक्तो यो निर्विकल्पकसमाधिर्भवति, तेनैव अज्ञानस्य नाशो भवति।
अत्र मया अखण्डाकारवृत्तिर्विवक्षिता। श्रवणमनननिदिध्यासनैर्यदा प्रतिबन्धकानां नाशो भवति, तदा प्रतिबन्धकाभावसहकृतश्रवणोत्थिता अखण्डाकारवृत्तौ प्रतिफलितं चैतन्यम् अज्ञानं नश्यति। एवं निर्विकल्पकसमाधिरुपायत्वेन नाङ्गीकृता, किन्तु तस्य स्थितिस्तु सहजतया आविर्भवति इति मे मतिः।
अज्ञानस्य निवृत्त्यर्थम् मोक्षार्थं च निर्विकल्पकसमाधि: नानिवार्या न पर्याप्ता । अधिष्ठानविषयकवृत्तिज्ञानन्तु अनिवार्यम्पर्याप्तञ्च । श्रवणमननकाले (निदिध्यासनात् पूर्वमेव) अखण्डाकारवृत्त्या आज्ञानस्य निवृत्ति: भवेत् शब्दप्रमाणव्यापारेण । तदा तु त्रिपुटी अपेक्षिता एव । निदिध्यासनकाले तु विपरीतभावनानिवृत्त्यर्थम् वृत्ते: पुन: पुन: आवर्तनम्भवेत् न तु अज्ञानस्य निवृत्त्यर्थम् ।
सम्यक्। किन्तु तत्र यो निर्विकल्पकसमाधेर्भेदो वर्णित अद्वैतभावनारूपनिर्विकल्पसमाधि:, अद्वैतावस्थानरूपनिर्विकल्पसमाधिरिति सो भेदस्तु मुख्यवेदान्तसिद्धान्तानुसारी इति मे भाति। अद्वैतभावनारूपनिर्विकल्पसमाधौ त्रिपुटीभानरहिता अखण्डाकारवृत्तिर्वर्तते यया अविद्या निवर्त्यते।
अद्वैतभावनारूपनिर्विकल्पसमाधि: मुख्यवेदान्तसिद्धान्तानुसारी इति साधु: । किन्तु सर्वदा ज्ञातव्या नानिवार्या इति ।
अद्वैतावस्थानरूपनिर्विकल्पसमाधिरस्य अद्वैतभावनारूपनिर्विकल्पकसमाधेर्जायते।
अद्वैतावस्थानरूपनिर्विकल्पसमाधि: तु पूर्वपक्षिणैव उक्तम्। टिप्पण्याम् पूर्णतया न सम्मति: । किन्तु अस्तीति अभ्युपगम्यते चेदपि नानिवार्या । वेदान्तस्य तात्पर्यं तु अद्वैतज्ञाने एव अस्ति न तु कासाञ्चित् अवस्थायाम् । ज्ञानी तु प्रवृत्तौ वा निवृत्तौ वा “अहम् नित्यमुक्तोऽस्मि” इति जानाति । तदनतरम् किमपि कर्तव्यमिति नास्ति ।
अत्र अद्वैतभावनारूपनिर्विकल्पसमाधेरन्तर्भाव: संप्रज्ञातसमाधौ भवति, तत्र वृत्तिसत्त्वात्। अद्वैतावस्थानरूपनिर्विकल्पसमाधि: असंप्रज्ञातसमाधिरिति मे भाति, तस्य वृत्तिशून्यत्वात्।
पुन: आपातत: समानम् इति भाति किन्तु सूक्ष्मदृष्ट्या भिद्यते । । केवलयोगाभासेन साधिते समाधिद्वयेऽपि अज्ञानस्य अनुवर्तमानत्वात् ।
सम्यग्व्याख्यानं महोदय।
धन्यवादा: महोदय