युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् इति अस्ति भगवतो वचनं भगवद्गीतायाम्। तत्र युक्त इति शब्देन कर्मयोगिनो विवक्षिता: सन्ति। मया यानि कानि कर्माणि क्रियमाणानि सन्ति, तानि सर्वाणि ईश्वराय एव न मत्कृते इति अस्ति यस्य दृढबोध: स: कर्मयोगी इति संज्ञया शास्त्रेषु वर्ण्यते। ईश्वरं प्रति कर्मफलानाम् अर्पणम् एव तेषां त्याग इति कथ्यते। तेषां कर्मफलानां त्यागे सति नैष्ठिकी शान्ति: लभ्यते इति विद्यते गीताया उद्घोष:। अत्र नैष्ठिकी शान्ति: इति शब्दद्वयं मोक्षमुद्दिश्य प्रवर्तते।
तत्र प्रश्नो जायते यत् कर्मफलानां त्यागे सति किं झटिति नैष्ठिकी शान्तिर्लभ्यते उत अस्ति कश्चिद्विलम्ब: तत्प्राप्तौ। भगवत्पादा ब्रुवते यत् कर्मयोगस्य मोक्षप्राप्तौ साधनत्वं परम्परया एव भवति न तु साक्षात्। मोक्षस्य साक्षात् साधनत्वं तु ज्ञानस्य एव। अत: कर्मयोगानन्तरं सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठानां व्यवधानं भवति। एवं ज्ञानादेव कैवल्यमिति श्रुतिरपि सफला भवति।
अत्रावधेयमिदं यत् कर्मयोगस्य ध्यानयोगे ज्ञाननिष्ठायां च महती भूमिका वर्तते। कर्मयोगादृते मनस: समाहितत्वं प्राप्तौ महान् क्लेशो भवति। मया इदं कार्यं करणीयम् इति बुद्धिर्यदा विद्यते तदा तस्य कार्यस्य अकरणं मनसि विक्षोभो जनयति। तस्य कार्यस्य कामप्रेरिततया क्रियमाणे सति फले आसक्ति: शिष्यते, सा तु विक्षोभात्मिका एव। किन्तु यदा ईश्वराय कर्मफलस्य अर्पणं भवति, तदा तत्प्रसादत्वेन फलस्य ग्रहणम् अस्मासु आसक्तेर्निवारकं भवति। आसक्तौ निवारितायां सति मन: सहजं चाञ्चल्यं त्यक्त्वा शान्तं सत् समाहितं भवति।
मया यानि कर्माणि कर्तव्यानि, तानि ईश्वरार्पितबुद्ध्या कृतानि। भगवता तत्फलानि दीयन्ते उत नेत्यत्र नास्ति मम काऽपि चिन्ता। न किमपि अस्ति मदभीप्सितं फलम्। ईश्वराज्ञानुसारेण ईश्वरप्रीत्यर्थं मया कर्माणि कृतानि। न इत: परं मया किमपि चिन्तनीयम्। यत्किमपि मया कर्तुं शक्येत, तत्सर्वं मया कृतम्। एतादृशी विचारधारा मनसि सन्तोषो जनयति। एवं मन: शीतलं भवति, सुखेन समाहितं च भवति। तस्माज्जायते चित्तस्य शुद्धि:। पुन: ईश्वरानुग्रहेण यदा ज्ञानम् उत्पद्यते तदा सर्वकर्मसंन्यासपूर्विकया ज्ञाननिष्ठया मोक्षाख्यस्य स्वरूपस्थिते: प्राप्तिर्भवति।