गुरुवन्दनम् - व्याख्यानम्

7 views
Skip to first unread message

Dhandapany Natarajan

unread,
Jan 18, 2026, 7:17:22 PM (12 days ago) Jan 18
to Sanskrit Advaitin

ओं नमो वाण्यै नमो गुरुभ्यः।

।। गुरुवन्दनम् ।।


मातृब्रह्माम्नायमार्गे नयन्तं

मानब्रह्माद्वैतदृष्ट्या नदन्तम्।

मेयब्रह्मानन्यभावान्नटन्तं

मातुं ब्रह्माराधयामो नमन्तः।।


श्रोत्रिय-ब्रह्मनिष्ठ-गुरु-स्तुति-गर्भित-वन्दनात्मकः सूत्र-भूतः अयं श्लोकः यथा-मति व्याख्यायते। दोषाः क्षम्यन्तां परन्तु सूच्यन्ताम्।


मातृ-ब्रह्म आम्नाय-मार्गे नयन्तम् इति।

मातृ-ब्रह्म-शब्दस्य शास्त्र-दृष्ट्या परीक्षित-कर्म-चित-लोकः, त्यक्त-साध्य-साधन-एषणः, योगारूढः, मृदित-कषायः, पर-ब्रह्म-अन्वेषमाणः, शुश्रूषुः प्रमाता इति अर्थः। गुरोः सदय-दृष्ट्या आरुरुक्षुः, भावि-गुण-ब्राह्मणः इति अपि।

प्रथम-शारीरक-सूत्राद् 'अधिकारित्व-प्राप्तेः अनन्तरम् एव ब्रह्मजिज्ञासा कर्तव्या' इति गम्यते। तथापि, तन्निमित्ता गुरूपसत्तिः प्रायः अनधिकारिभिः अर्धाधिकारैश्च हि क्रियते। अत्र "त्वादृङ्नो भूयान्नचिकेतः प्रष्टा" इति वचनं प्रमाणम्। तेनैव सूत्रेण आचार्य-धर्मोऽपि प्राप्यते 'शिष्यस्य अधिकारित्वं निश्चित्य एव ब्रह्मविचारः कारयितव्यः' इति। परन्तु , यत्र शिष्यः श्रद्धालुः तत्र गुरुः दयालुः। मैत्रः करुणः स इति। संसार-ताप-वशाद् ये केऽपि तं उपसीदन्ति, तान् अनिराकुर्वन् , अधिकार-तारतम्यानुसारं तेभ्यः उचितानि शास्त्र-सम्मत-साधनानि -- उत्तिष्ठत, जाग्रत, दाम्यत, दत्त, दयध्वं, अन्नं न निन्द्याद्, नियतं कुरु, नाम उपास्स्व, संवत्सरं संवत्स्यथ, वस अपराणि द्वात्रिंशतं वर्षाणि, श्रद्धत्स्व इत्यादिभिः आदेशैः सन्मार्गं दर्शयन्, तेषां चित्त-नैर्मल्य-नैश्चल्य-संसिद्धि-पर्यन्तं मार्जार-उपायं मर्कट-उपायं वा प्रयोज्य ब्रह्म-ज्ञान-योग्यत्वं प्रति नयन्तम्। तदनन्तरं तान् एव श्रोतव्यः, मन्तव्यः, निदिध्यासितव्यः, तन्मयः भवेत् , अन्या वाचो विमुञ्छथ, नानुध्यायाद् बहून् शब्दान् , जडवद् लोके आचरेद् इत्यादिभिः च वचोभिः ब्राह्मीं स्थितिं प्रति नयन्तम्। 'आराधयामः' इत्यनेन सम्बन्धः।


मान-ब्रह्म अद्वैत-दृष्ट्या नदन्तम् इति।


मान-ब्रह्म नाम पर-विद्या-बोधकं वेदान्त-शास्त्रं श्रुति-स्मृति-रूपं तदुपकारि-तर्क-सहितम्। यद्यपि अपौरुषेयत्वाद् निर्दुष्ट-प्रमाणं वेदान्त-शास्त्रं, तथापि अनेकैः एतद् विविधं व्याख्यातम् इति कारणात् , श्रुत्या अविवक्षिताः असमर्थ-पौरुषेय-प्रमाण-दुष्प्रयोग-जन्य-जगत्-सत्यत्व-भ्रान्ति-ज्ञान-रूपाः अर्थाभासाः अपि मण्डिताः लोके। अद्वैत-दर्शने एव वृत्तिकार-प्रसंख्यानादि-असमीचीन-वादाः श्रूयन्ते। एतेषां मध्ये, श्रुति-वाक्यानां षड्लिङ्ग-विचारात्मिकया मीमाम्सया, 'सर्वं खलु यद् भूतं यच्च भव्यं, तद् एकं एव अद्वितीयं प्रपञ्चोपशमं सत्यं ज्ञानं अनन्तं आनन्दं ब्रह्म। तदेव सर्वक्षेत्रेषु साक्षाद् अपरोक्षात् स्वयंज्योतिः प्रज्ञानं क्षेत्रज्ञं चापि' इति, 'अतः अन्यद् आर्तम्, नेह नाना अस्ति, पूर्णम् एव अवशिष्यते' इति, 'एक-ब्रह्म-विज्ञानेन सर्व-जगद्-विज्ञानं स्यात्', 'ब्रह्मविद् ब्रह्मैव इह भवति, तरति शोकं पाप्मानं च, विमुक्तः अमृतः भवति" इति च तत्त्वतः ब्रह्मविद्यां अद्वैत-दृष्ट्या नदन्तं -- प्राचीन-प्रक्रियाभिः आधुनिक-दृष्टान्तादिभिः च, शिष्याणाम् अवगति-पर्यन्तं, 'भूयः एव प्रवक्ष्यामि, श्रुणु मे वचनम्' इति जामितां विना उपदिशन्तम्। पूर्ववद् 'आराधयामः' इत्यनेन सम्बन्धः।


मेय-ब्रह्म-अनन्य-भावाद् नटन्तम् इति।


न अन्यः अनन्यः। मेयं च तद् ब्रह्म च मेयब्रह्म। मेयब्रह्मणः अनन्यः मेयब्रह्मानन्यः। तस्य भावः मेयब्रह्मानन्यभावः। तस्माद् मेयब्रह्मानन्य-भावात्। मेयब्रह्मानन्यत्वाद् इति अर्थः। हेतौ पञ्चमी।

मेयं प्रमेयं तात्पर्येण प्रतिपादितं वेदान्त-प्रमाणेन। ब्रह्मणः वेदान्त-प्रमाणकत्वम् अपि वेदान्तेन एव ज्ञायते -- 'सर्वं ब्रह्म औपनिषदम्' , 'तं तु औपनिषदं पुरुषं पृच्छामि', 'ब्राह्मीं वाव त उपनिषदम् अब्रूम' इत्यादिश्रुतिभ्यः।

ब्रह्म-ज्ञानस्य आवश्यकतत्वं वा मेयत्वम्। 'इह चेदवेदीद् अथ सत्यं अस्ति', 'आत्मानं चेद् विजानीयाद्...', 'तम् एतं विद्वान् अमृत इह भवति। न अन्यः पन्थाः' 'विद्यया अमृतम् अश्नुते', 'ज्ञेयं यत्तद् प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसे' इत्यादीनि श्रुति-स्मृति-वाक्यानि ब्रह्ममेयत्वम् एतस्मिन् अर्थे प्रतिपादयन्ति।

अनन्य-भावः नाम जीव-ब्रह्मणोः उपाधि-गतानां परिच्छिन्नत्व-परोक्षत्व-मुखानां भेद-आभासानां निषेधेन प्राप्तः ऐक्य-भावः। आनन्द-स्वरूप-ब्रह्मणः अनन्यत्वाद् नटन्तम् 'रसो वै सः। रसं ह्येवायं लब्ध्वा आनन्दी भवति।', 'आत्म-क्रीड आत्म-रतिः' इत्युक्त-रीत्या रमन्तं भगवन्तम् अस्मद्-गुरुम् आराधयामः।


मातुं ब्रह्म आराधयामः नन्तः इति।


आराधयामः पूजयामः श्रद्धया भक्त्या 'स एव ईश्वरः' इति भावेन नमन्तः दण्डवत् प्रणिपातेन ब्रह्म यथोक्त-लक्षणं शास्त्र-आचार्य-उपदेशाद् मातुं साधिष्ठ-ब्रह्म-विद्यां प्राप्तुं 'अधीहि भगवो ब्रह्म। तद्विज्ञानार्थं मुमुक्षुर्वै शरणम् अहं प्रपद्ये' इति।

ओं तत् सत्।

Sudhanshu Shekhar

unread,
Jan 18, 2026, 9:34:59 PM (12 days ago) Jan 18
to Dhandapany Natarajan, Sanskrit Advaitin
बहुशोभनं व्याख्यानं महोदय। गुरुस्तुतिरूपस्य एतस्य श्लोकस्य विवरणम् अद्वैततत्त्वदृष्ट्या श्रुतिशिखावचनपुरस्सराभिर्युक्तिभिश्च भवद्भिः सम्यक् कृतम्।

अद्वैततत्त्वविषये भवन्तः अग्रेऽपि लिखेयुरिति आशास्महे।

भवदीयः
सुधांशु:

--
You received this message because you are subscribed to the Google Groups "Sanskrit Advaitin" group.
To unsubscribe from this group and stop receiving emails from it, send an email to sanskritadvait...@googlegroups.com.
To view this discussion, visit https://groups.google.com/d/msgid/sanskritadvaitin/83f1b700-dd22-41f7-b603-a263e69edd68n%40googlegroups.com.
For more options, visit https://groups.google.com/d/optout.
Reply all
Reply to author
Forward
0 new messages