यथा वेदानां फलदातृत्वं तु विप्राणां प्रति अस्ति न तु शूद्राणां प्रति, तेषाम् उत्तमत्वाभावात्, तथैव ब्रह्मविद्यया सर्वात्मभावप्राप्तिरपि देवादीनामेव भवितुं शक्यते न तु मनुष्याणाम्, तेषु उत्तमत्वाभावात्।
पुन: यथा अनुष्ठानादृते यागज्ञानमात्रस्य फलदातृत्वं नास्ति, तथैव अनुष्ठानादृते ब्रह्मविद्याया: फलदातृत्वं न भवितुं शक्यते। अत: ब्रह्मविद्यया सह किमपि अनुष्ठानं कर्तव्यम्।
अथ ऋतुकालादृते अन्यस्मिन् काले यथा गर्भाधानं न भवितुं शक्यते अनुकूलकालस्याभावात्, तथैव सत्ययुगादौ ब्रह्मविद्यया सर्वात्मभावप्राप्तिर्भवेन्नाम, न तु एतस्मिन् प्रतिकूले कलियुगादौ।
अथ यथा राज्ञा कृषिफलस्य कश्चित् भाग: करत्वेन गृह्यते, न सो भाग: कृषकस्य उपभोगाय भवितुमर्हति, राज्ञोऽनुग्रहस्य अभावात्, एवमेव देवतानुग्रहाभावाद्ब्रह्मविद्या अपि स्वकीयाया: सर्वात्मभावफलं जनयितुं न समर्था भवितुमर्हति। देवानां पोषणं भवति मनुष्यै: कृतैर्यागादिभि:। सर्वात्मभावप्राप्तमनुष्याणां न यागादिषु प्रवृत्तिर्भवेदित्यत: स्वार्थकारणाद्देवै: सा फलप्राप्ति: प्रतिबध्यते।
एवं प्राप्ते सति एतेषां निराकरणं क्रियते। उत्तमत्वं नास्ति सर्वात्मभावप्रयोजकं यतो देवादिषु ऋषीणां मध्ये वा येन ब्रह्मविद्या प्राप्यते, तेनैव सर्वात्मभावो लभ्यते नेतरेण। तथैव मनुष्याणां मध्ये अपि यो ब्रह्म जानाति, स एव सर्वात्मभावो लभते। अतो विद्याया एव माहात्म्यम्, न तु उत्तमत्वस्य। पशूनां तु बोध एव न भवितुं शक्यते। मनुष्याणां मध्ये तु महाभागस्य विदुरस्य शूद्रत्वे सत्यपि मोक्ष: प्रसिद्ध:। अतो नास्ति उत्तमत्वस्य किमपि प्रयोजनम्।
अथ यथा यागज्ञानमनुष्ठानमपेक्षते, तथा ब्रह्मविद्या नापेक्षते किमपि अनुष्ठानम्, प्रयोजनाभावात्, अन्यथा दर्शनाच्च। वामदेवस्य सर्वभावप्राप्तौ तु नास्ति अनुष्ठानस्य अवकाशो यत: तेन मातुर्गर्भे स्थित्वा एव सर्वात्मभावोऽप्राप्यत। अथ अनुष्ठानस्य किमपि प्रयोजनमपि न दृश्यते। अज्ञानस्य एव विघ्नरूपता अस्ति सर्वात्मभावप्राप्तौ, सा तु ब्रह्मविद्यया सम्यग्निवारिता। ततोऽनुष्ठानस्य किमपि प्रयोजनं न अवशिष्यते। यदा अविद्याया ध्वंसो भवति, तदा पुरुषार्थस्य समाप्तिर्जायते, यत: स्वरूपानन्दस्य स्वत: प्रकाशो भवति, न किमपि अर्थान्तरं प्राप्तव्यत्वेन अवशिष्यते।
अथ कालस्य अपि अपेक्षा नास्ति ब्रह्मविद्याया फलदातृत्वे। असर्वात्मता अज्ञानाद्भवति, सा तु ब्रह्मविद्यया निवर्त्यते, का अस्ति कालस्य अपेक्षा तत्र? ज्ञानस्य फलं तु अन्वयव्यतिरेकाभ्यां सिद्धम्, न कालस्य कापि भूमिका तत्र।
अथ मनुष्या: सन्ति देवानामधमर्णा:, ते सन्ति देवानां ऋणिन:। अत: ते देवानां कृते यागादीनां कुर्वन्ति। तै: प्रदत्तानि हवींषि देवा भुञ्जन्ति। सर्वात्मभावप्राप्तनरो न यागादिषु उत्सहते, अतो देवता: सर्वात्मभावस्य निरोध: कुर्वन्ति इति पूर्वपक्षिण आशय:। अत्र अवधेयं यत् यद्यपि देवता अज्ञानिनाम् ईश्वरा: सन्ति, किन्तु ज्ञानिनां प्रति तेषाम् ईश्वरत्वं नास्ति। ईश्वरेशितव्यसंबन्धोऽज्ञानजो भवति, ज्ञानी तु देवानामपि आत्मत्वेन भवति। स्वात्मानं प्रति न कोऽपि देवो मनुष्यो वा ईश्वरो भवितुं शक्यते। अतो ज्ञानी कदापि न देवानाम् अधमर्णो भवितुं शक्नोति यत: स: कर्मणाम् अतिक्रमणं चक्रे। पुन: ये अधमर्णा: सन्ति अज्ञानिन:, तेषां प्रति अपि देवा न कदापि फलानि प्रतिबध्नन्ति। कर्मेषु यत् प्रबलं कर्म, तस्य फलं ते ददति। कदापि तेन कर्मफलस्य नाशो न क्रियते, उपेक्षामात्रमेव क्रियते अन्यकर्मण: प्रबलत्वात्। एवं सति कथं तेन ज्ञानिभ्यो ब्रह्मविद्याया: फलं प्रतिबध्यते? न प्रतिबध्यते इति आशय:।
अथ इदमपि स्मर्तव्यं यदज्ञानिनोऽपि नास्ति देवानां प्रति अधमर्णत्वम्, तस्मै कारणाभावात्। देवै: किमपि पूर्वं दत्तं नास्ति येन अस्माकमधमर्णत्वं जायेत। शतपथब्राह्मणे (1.7.2.1) यत् मनुष्याणां ऋणित्वं कथ्यते तत्तु अवदानविधे: अर्थवाद एव अस्ति। अवदानं नाम यत्किञ्चिद् अग्नौ जुह्वति। अत्र मनुष्याणाम् अधमर्णत्वं तान् अवदानविधौ प्रेरयितुं अर्थवाद एव अस्ति, न तेन तेषां अधमर्णत्वं सिध्यति। अथ यदि अविदुषामपि ऋणित्वं नास्ति, तर्हि का कथा ज्ञानिनां यैर्देवानामपि आत्मत्वं लब्धा।
इत्थं सिध्यति यत् ब्रह्मविद्यया सर्वात्मभावप्राप्तिर्भवति एव। इदं सर्वं बृहदारण्यकवार्तिकसारे (1.4.1051 तमश्लोकतः आरभ्य 1.4.1100 तमश्लोकपर्यन्तम्) विवरीतम्।
सन्दर्भ: https://archive.org/details/PPPZ_shathapatha-brahmanam-part.-1-by-ganga-prasad-upadhyay-with-hindi-translation-ne/page/141/mode/1up