नमस्तुभ्यं धन्यात्मन् !
भवतः सूक्ष्मप्रश्नानां यथामति ममोत्तराणि...
1. जडाचारजूतिरित्यस्मिन् शब्दे जूतिरित्यस्य पदस्य कोऽर्थ:?
अन्तिमश्लोके रेरिवेति सूचितरीया जूतिशब्दस्य प्रेरणम् इत्यर्थः। श्रोतारं जडाचारे अर्थाद् जडवद् आचरणे प्रोत्साहयतीति भावः।
2. चतुर्वित्त इत्यनेन शब्देन भवता धर्मार्थादय एव अभिप्रेता: किल?
न, भॊः। चतुर्वित्तं इति शब्देन अत्र साधनचतुष्टयसंपत्तिः विवक्षिता। चतुर्वित्तः इत्यनेन च साधनचटुष्टयसम्पन्नः अधिकारी उच्यते। स्वधर्मिष्ठः चतुर्वित्तो भवति स च स्वजिज्ञासुर्भवति इत्यादिः हेतुफलक्रमः।
3. श्रुतब्रह्मा इत्यस्मिन् शब्दे ब्रह्मा इत्येवं प्रयोग: कथं भवति? श्रुतब्रह्म इत्येवं प्रयोग: कुतो न कृतो भवता?
यद्यपि ब्रह्मशब्दो नपुंसकलिङ्गः, श्रुतब्रह्मसमासेन "श्रुतं ब्रह्म येन सः" इति कश्चित् पुमानेव विशेष्यते। अतः, श्रुतब्रह्मशब्दो नकारान्तः पुल्लिङ्गः। यथा प्रपञ्चोपशमः आत्मा, प्रपञ्चोपशमा माया, प्रपञ्चोपशमं ब्रह्म इति विशेष्यस्य लिङ्गमनु विशेषणं त्रेधा भवति तद्वत्। तस्माद् श्रुतब्रह्मा इति प्रकृतस्य रूपं प्रथमविभक्तौ। बहुव्रीहि-रचन-नियमोऽयम्।
4. आचरेत् इति शब्देन कर्तव्यतया ज्ञानिने विधानं क्रियते उत ज्ञानिन: स्वाभाविकी स्थितिर्वर्ण्यते?
उभयमेव सम्राट् :-)
अत्र मुख्यश्रोता श्रवणमननाभ्यां वेदान्त-विज्ञान-निश्चितार्थो ध्यानयोगपरो भावि-ज्ञाननिष्ठो भवति। तस्य विपरीत-भावना-निवृत्तौ उपकारकः स्याद् लोके जडवद् आचारः इति कर्तव्यतया ज्ञाप्यते। ज्ञापनं तु ज्ञाननिष्ठ-लक्षण-वर्णन-द्वारा क्रियते। (वस्तुतः ममैव ज्ञापनाय एते श्लोकाः रचिताः।)
5. "सागरी कूपितायै किं संज्वरेद्" इत्यस्य वाक्यस्य कृपया अर्थोऽवबोधयतु।
सागरः अस्य अस्ति इति सागरी आनन्दसागरस्य स्वामी। कूपः अस्य अस्तीति कूपी अल्पसुखी कृपणः। तस्य भावः कूपिता। सागरी कूपितायै नैव सञ्ज्वरेद् आदरेण प्रयतेत इत्यर्थः। 'यावानर्थ उदपाने सर्वतः संप्लुतोदके' इति स्मृतेः।
उत्तरेषु दोषाः सन्ति चेद् अवश्यं कृपया वदतु।
----------
मूले द्वादशश्लोकः एवं परिष्कर्तव्यः -
कण्ठं भित्वा विनिर्यायाद् शास्त्रमिच्छेद्यदीश्वरः।
मुक्तप्रायोन्य-मोक्ष्यत्व-भाराद् जडवदाचरेत्।।
भवदीयः
नटराजः
बहवो धन्यवादा महोदय। भवदभिप्राया अधुना सम्यक् प्रकाशन्ते।
सुधांशु:
Show quoted text