मुमुक्षुतायाः चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम्!

1 view
Skip to first unread message

Sudhanshu Shekhar

unread,
May 25, 2026, 3:23:07 AM (7 days ago) May 25
to Sanskrit Advaitin

मोक्षार्थिभि: चत्वारि साधनानि सम्पादनीयानि इति वेदान्तग्रन्थेषु सर्वत्र लभ्यते। तत्र विवेकवैराग्यशमादिषट्कसम्पत्तिमुमुक्षुत्वम् इति साधनचतुष्टयम्। 

ब्रह्म सत्यं जगन्मिथ्या इति निश्चयो विवेक इति शब्देन कथ्यते। अत्र नित्यानित्यवस्तुविवेके अनित्य इति शब्दो मिथ्यात्वबोधक इति अवधेयम्। अनित्यसुखस्य मूढै: काम्यमानत्वात्, स्वाप्निकमिथ्यासुखस्य अकाम्यमानत्वाद्वेदान्तेषु ब्रह्म नित्यं जगदनित्यमिति अनभिप्रेत्य ब्रह्म सत्यं जगन्मिथ्या इति एव लभ्यते। एतस्मादेव विवेकाद्वैराग्यस्य प्राप्तिर्भवति। नात्र भ्रमितव्यं यद्दृश्यजगतोऽनित्यत्वबोधनात् किमपि फलं न जायते। उत्पद्यते तस्माद्बोधनादपि वैराग्यं किन्तु दृश्यजगतो मिथ्यात्वनिश्चयादृते न तद्वैराग्यं दृढतामाप्नोति। अत एव जगतो मिथ्यात्वनिश्चय: सम्पादनीय:। 

वैराग्यं नाम ऐहिकामुष्मिकपदार्थेषु जुगुप्सा। एते सर्वे पदार्था अनित्या मिथ्याभूता:। ते सन्ति सर्वथा उपेक्षणीया: त्यक्तव्या:। एतै: सह मम सम्बन्ध: कदापि न जायेत, एतेषु सत्यत्वबुद्धिर्मम कदापि न भवेदिति जुगुप्साजनितो भावो वैराग्य इति कथ्यते।

अथ शमादिषट्कसम्पत्तौ शमो नाम वैराग्योत्तरी मनस: स्वलक्ष्ये सगुणे निर्गुणे वा ब्रह्मणि निर्विकारा निश्चला अवस्थिति:। अयं शमो वैराग्यजन्य:। वैराग्यस्य विवेकजन्यत्वं प्रागेव उक्तम्। विषयेषु पुन: पुन: दोषदर्शनञ्च वैराग्यलाभे महद्भूमिका वहति। येन केनापि प्रकारेण वैराग्यं जायेत, तन्निश्चयेन सम्पादनीयम् इति भाव:। तस्माद्वैराग्यात् शमो जायते

इन्द्रियाणां विषयेभ्य: शब्दादिरूपविषममार्गेभ्य: पराङ्गमुखीकरणं स्वगोलके स्थापनञ्च दम इति उच्यते

एवं यदा इन्द्रियाणि सम्यक्तया निगृहीतानि तदा मनो विषयाकारपरिणामं परित्यज्य निश्चलस्थितिर्लभते। सा स्थिति: उपरति: इति संज्ञया निर्दिश्यते। 

सर्वदुःखानां चिन्ताविलापरहितम् अप्रतीकारपूर्वकञ्च यत् सहनं तत् तितिक्षा इति कथ्यते। अस्यां तितिक्षायां विवेकवैराग्यशमदमोपरतीत्यादीनां सर्वेषां साहाय्यं भवति। 

तत्त्वमस्यादिशास्त्रे तदनुसारिगुरुवाक्ये च दृढविश्वासोपेता सत्यत्वबुद्धि: श्रद्धा इति शब्देन निगद्यते। तया श्रद्धया पुरुष: वेदान्तानुसारिणि साधनमार्गे प्रवर्तते। 

अथ शम इति शब्देन संकल्पविकल्पात्मकस्य मनस: स्वलक्ष्ये निर्विकारा स्थिति: कथ्यते इति उक्तम्। सम्प्रति समाधानम् इति शब्देन अध्यवसायात्मिकाया बुद्धे: शुद्धे निरुपाधिके ब्रह्मणि सर्वदा सम्यक्तया स्थापनं उच्यते। 

एवं शमदमोपरतितितिक्षाश्रद्धासमाधानमिति शमादिषट्कसंपत्ति: साधनचतुष्टये तृतीयं साधनम्। 

अधुना मुमुक्षुत्वं विवेचनीयम्। अहंकारादारभ्य यत् किञ्चित् वस्तु आत्मत्वेन अस्माभिर्गृहीतं तत् सर्वम् अस्मान् दृढपाशेन बध्नाति। अयं बन्धो दृश्यत्वान्मिथ्या मिथ्यात्वादात्माज्ञानजन्यश्च। एतस्माद्बन्धान्मोचनम् अत आत्मज्ञानादेव भवितुं शक्यते, अज्ञानस्य ज्ञाननिवर्त्यत्वात्। आत्माज्ञानजन्याद्बन्धादात्मज्ञानेन मोक्तुम् इच्छा मुमुक्षुता इति संज्ञया निर्दिश्यते। सेयं मुमुक्षुता त्रिविधा, मन्दा मध्यमा तीव्रा च। यदा साधनचतुष्टये द्वितीयतुरीययो: तन्नाम वैराग्यमुमुक्षुत्वयो: तीव्रत्वं वर्तते तदैव शमादयोऽर्थवन्त: फलवन्तश्च। वैराग्यस्य तीव्रत्वे सत्येव शमादयोऽर्थवन्त:, मुमुक्षुत्वे तीव्रत्वे सत्येव शमादय: फलवन्त इति आशय:।          

एतत्सर्वं विवेकचूडामणौ विंशतितमश्लोकादारभ्य प्राय: दशसु श्लोकेषु विवरीतम्। चन्द्रशेखरभारतीस्वामिभि: कृता व्याख्या अपि अत्र द्रष्टव्या।  

अत्र किञ्चिदालोचनीयम्। साधनचतुष्टये पूर्वपूर्वसाधनस्य उत्तरोत्तरसाधनम्प्रति कारणता वर्तते। एवं मुमुक्षुत्वम्प्रति विवेकवैराग्यशमादीनां सर्वेषां कारणता इति स्फुटम्। अत्र तीव्रमुमुक्षुता एव अभिप्रेता इति अवबोधनीयम्। अथ यदा विवेकवैराग्यशमादीनां चरमोत्कर्षान्मुमुक्षुता तीव्रत्वम् आप्नोति, यदा बन्धस्य श्वासावरोधकत्वं स्फुटं दृश्यते, यदा दृश्यते हस्तामलकवदस्माकं बन्धोऽस्माकं दीनता च, तदा अस्माभिर्बन्धान्मोक्तुं सत्यप्रयत्न: प्रथमतया क्रियते। तदा इदम्प्रथमतया आत्मज्ञानस्य महत्त्वन्दृश्यते। किं वदति मम गुरु:, किमाम्नायते शास्त्रै:! मम बन्धो मिथ्या इति! अहङ्कारे बुद्धौ शरीरे च मम आत्मभावो मिथ्या इति। तर्हि अहं नास्मि किमपि एतन्दृश्यम्, नास्ति पुन: मम कोऽपि सम्बन्ध एतैर्दृश्यै: सह। अथ एवं मम बन्ध एव नास्ति तर्हि किमर्थं कस्माच्च अहं मोक्तुं प्रयते?

इदं सर्वं दृश्यमुपेक्षणीयम्। न मम बन्धोऽस्ति न पुन: मोक्षो वा। मम पुरत: मया सह सम्बन्धरहितानि दृश्यानि प्रचलन्ति। तानि प्रचलन्तु नाम। न तेन मम कापि हानि: कोऽपि लाभो वा

एवं मुमुक्षुता अपि त्यक्ता भवति। 

इदन्तत्त्वं कठोपनिषदोऽपि ज्ञातुं शक्यते। तत्र प्रथमाध्याये द्वितीयवल्ल्या: चतुर्विंशतितमे मन्त्रे श्रुत्या आम्नायते "नाविरतो दुश्चरितान्नाशान्तो नासमाहित:। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्॥" इति। अत्र प्रकृतम् आत्मा केन पुरुषेण प्राप्तुमशक्य: इति व्याख्यातम्। नायमात्मा पापकर्मणोऽनुपरतेन पुरुषेण लभ्यते। इन्द्रियेषु आसक्तमनसा अशान्तेन पुरुषेण अपि अयमात्मा न प्राप्यते। तथैव य: पुरुषोऽसमाहितोऽस्ति तन्नाम य एकाग्रमना नास्ति, विक्षिप्तचित्तोऽस्ति, तेनापि अयमात्मा न प्राप्यते। किञ्च अशान्तमानसो य: पुरुष: तेनापि आत्मा न लभ्य: अत्र अशान्तमानस इति शब्दं व्याख्यायन्तो भाष्यकारा ब्रुवते "समाहितचित्तोऽपि सन्समाधानफलार्थित्वात् नापि अशान्तमानस: व्यापृतचित्तो वा" इति। अत्र अयमाशय: - समाहितचित्तपुरुषोऽपि समाधानस्य फलमिच्छति चेत् तर्हि न तेन आत्मा लभ्यते। समाधानस्य फलमिच्छन् पुरुष: शान्तमना भवितुं न शक्यते मनस: शान्तिरहितत्वादात्मस्वरूपे स्थितिरपि अशक्या एव। अत एव बन्धान्मुक्तेरिच्छा अपि त्यक्तव्या। या कापि इच्छा भवेन्नाम, सा त्यक्तव्या एव। अत: मुमुक्षुत्वस्य चरमोत्कर्षे मुमुक्षुत्वमपि त्यक्तव्यम् इति आशय:

इदमेव तत्त्वम् अष्टावक्रगीतया अपि गीयते "न शान्तिं लभते मूढो यत: शमितुमिच्छति। धीरस्तत्त्वं विनिश्चित्यसर्वदा शान्तमानस:॥" इति।         

Reply all
Reply to author
Forward
0 new messages