हरि ॐ
दृश्यस्य मिथ्यात्वम् अनुमानप्रमाणात् श्रुतिप्रमाणाद्वा यदा अवगम्यते तदा कार्यकारणभावस्य अपि मिथ्यात्वम् एतेन अवगम्यते। यतो जाग्रद्दृश्यं सर्वं स्वप्नदृश्यवद् मिथ्या अस्ति, तस्मादस्माभिर्दृष्ट: कार्यकारणभावोऽपि तथैव मिथ्या अस्ति। नास्ति तर्हि कोऽपि कार्यकारणभावो दृश्ययोर्मृत्तिकाघटयोर्मध्ये। यथा स्वप्ने स्वप्नदृश्यमृत्तिकाघटयोर्मध्ये कोऽपि कार्यकारणसम्बन्धो नासीत्, उभयोर्मिथ्यात्वात्, कार्यकारणसंबन्धस्य दृश्यत्वाच्च, तथैव जाग्रति अपि जाग्रद्दृश्यमृत्तिकाघटयोर्मध्ये कोऽपि कार्यकारणसम्बन्धो नास्ति।
अतो मम पुरतो दृश्यमानानां वस्तूनां किमपि कारणं नास्ति, तेषां प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वात्। पटस्य कारणं तन्तुर्नास्ति, प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वात्। पटस्य अधिकरणं तन्तुरिति दृश्यते। पटस्य मिथ्यात्वात् तन्तौ पटस्य त्रैकालिकनिषेधो भवेदेव। यतो यत्र पटो भासते, तत्रैव सो नास्ति, अत: का कथा तस्य पटस्य कारणस्य। इदं वेदान्तपरिभाषायां प्रपञ्चितम् अनुमानप्रमाणप्रकरणे "अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, पटत्वात्, पटान्तरवत्" इति। एवमवगम्यते यद्दृश्यमानस्य क्षेत्रस्य किमपि कारणं नास्ति। यत् कारणत्वेन भाति, तत् नास्ति कारणम्, कारणत्वेन तस्य प्रतिभानमात्रमेव भवति।
एवम् अधुना अनुभूयमानस्य मम सुखस्य नास्ति कारणं मयाचरितो धर्म:। मम दु:खस्य कारणं नास्ति मयाचरितोऽधर्म:। मम सुखदु:खे स्तो मिथ्या दृश्ये, नास्ति कोऽपि लाभस्तयो: कारणान्वेषणेन। मम मनसि या इच्छा जायते, य: क्रोधो जायते, यो द्वेषो जायते, ते सर्वे सन्ति ज्ञातैकसत्तावन्ति दृश्यानि। तेषां कारणान्वेषणे किमपि न लभ्यते, तेषां कारणानाम् अभावात्।
एवं सति मया किङ्कर्तव्यम्?
दृश्यन्ताम् एतानि दृश्यानि। तानि बुद्बुद्वद्जायन्ते, क्षणं यावत् तिष्ठन्त: पुन: तानि विलीयन्ते। दृश्यन्तां तेषां प्रादुर्भाव: स्थितिर्विलयश्च। किञ्चित् चलच्चित्रं प्रचलति भवत: पुरत:, दृश्यतां एतत्।
भवान् नास्ति दृश्यम्, भवान् अस्ति एतेषां दृश्यानां द्रष्टा। अत एव दृश्यन्तामेतानि दृश्यानि।
भवदीयःसुधांशु: