हरि ॐ,
अस्माकञ्जीविते मनसो महत् प्राधान्यं वर्तते। कस्मिंश्चिदपि कार्ये वयं प्रवर्तितुमुत्सहामहे न वा इति मनसा एव निर्धार्यते। मम मन एतस्मिन् कार्ये रमते अतोऽहमेतं कार्यं कर्तुं प्रवर्ते इति अस्ति सामान्या व्याख्या अस्माकम्। भवान् यदि परीक्षायामुत्तमान् अङ्कान् वाञ्छति तर्हि पठने मनो योजयतु, मनसि रुचिः सम्पादयतु। एतेन भवतो मनोऽध्ययने लग्नं भविता परीक्षायामुत्तमान् अङ्काञ्च भवान् लब्धा। एवमेव वर्तन्ते अनेकानि उदाहरणानि दैनन्दिने जीविते।
अध्यात्मसाधनायामपि मनसः साम्राज्यं दरीदृश्यते। अद्य मम मनो ध्यानं कर्तुमिच्छति, श्वो मम मनो वेदान्तपठने निरायासं लग्नमभूत्, अतो मया तत्तत् कार्यं कृतम्।
अथ नाहं मन इति वेदान्तोपदेशः। सामान्येन दृश्यत्वानुमानेन अपि इदं तत्त्वम्, अस्माकं मनसो वैलक्षण्यम्, स्फुटमस्ति। एवं ज्ञाते सति अपि एतस्य तत्त्वस्य विस्मरणात्, विपरीतभावनाया उदयात्, इन्द्रियजन्यसुखे प्रीतिबुद्धिकारणाच्च वयं मनोऽनुसरामः।
अत्र एव अस्ति अभ्यासस्य वैराग्यस्य च आवश्यकता। वैराग्यादपि प्राधान्यम् अभ्यासस्य अस्ति साधनायाः प्रारम्भिके चरणे इति मे मतिः। मम मनो यत् किमपि वाञ्छेत्, मम तु एतस्मिन् काले इदमेव कार्यं श्रेयस्करम्, अतोऽहमिदमेव कार्यं करोमि न अन्यत् किमपि। मम मनो लग्नं भवति न वा इति नास्ति मम काऽपि चिन्ता। प्रातः चतुर्वादने उत्थाय ध्यानं कर्तव्यमिति मम कृते वरम् अतोऽहमेवमेव करोमि।
एतेनाभ्यासेन मनसः प्राधान्यं अस्माकं जीविते न्यूनीक्रियते। तस्य सम्यग्निवारणं तु अविद्यानाशेन एव भवति किन्तु अभ्यासस्य आवश्यकता महती अस्ति मनस: साम्राज्यस्य न्यूनीकरणे। सदा अस्माभिरेतस्य अभ्यासस्य माहात्म्यं स्मर्तव्यम्। अध्यात्मविद्यायां मम महत् पाण्डित्यं वर्तते इति सूक्ष्माभिमानात् कदापि न अभ्यास उपेक्षणीय:। मया तु साधनायां महती प्रगति: सम्पादिता इति एतेनापि अभ्यासो नावहेलनीयः:। अभ्यासो मम कृते अमृतमिति मत्वा अभ्यासोऽनुष्ठेयः।
भवदीयः
सुधांशुः