अथ अस्माकं सर्वेषां दैनन्दिनोऽनुभवो वर्तते यद्वयं कामानां परवशा भृत्या: स्म:। भोग्यवस्तूनाम् इच्छा, पाण्डित्यस्य इच्छा, मोक्षस्य इच्छा वा भवेत्, या काऽपि इच्छा भवेन्नाम, ताभिर्वशीकृता इव वयं वर्तामहे। स्पष्टं किल कामानाम् अभावे सत्येव शान्ते: प्रकाशो भविष्यति। तत्र कामस्य जनक: सङ्कल्प इति शास्त्रवचनं कश्चन साधनीय उपायो वक्ति। सङ्कल्प: कामस्य कारणञ्चेत्, सङ्कल्पाभावात् कामस्य अभावोऽपि तर्हि भवेदेव। कामस्य अभावे तज्जन्यानां तृष्णाशोकश्रमाणामपि सुतराम् अभावो भविता। तत: स्वरूपस्थितिरिति स्पष्टम्।
कामजन्यानि सुखानि कामक्षयजन्येभ्य: सुखेभ्यो हीयन्ते। तत्र मङ्किगीतायाम् एकपञ्चाशत्तमे श्लोके प्रोक्तम् 'यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हत: षोडशीं कलाम्।।' इति। इदन्तु अनुभवसम्मतमपि।
तस्माल्लभ्यते यत् कथञ्चिदपि कामक्षयजनकं सङ्कल्परहितत्वं सम्पादनीयम्। तद्भवति ज्ञानेन वैराग्येण अभ्यासेन च। एतेषु साधनेषु न किमपि उपेक्षणीयम्। सङ्कल्पस्य अपि जननी अस्ति आत्माश्रयविषयिका अविद्या। सा ज्ञानेन एव निवर्त्यते। किन्तु उत्पन्नेनापि ज्ञानेन प्रतिबन्धककारणात् अविद्याया निवृत्तिर्न भवितुमर्हति। वैराग्यन्तु अद: परं जनयति एव। मम सत्यत्वम्, दृश्यानां सर्वेषां मरीचिजलवद्वैतथ्यम् इति ज्ञानं दृश्यानां प्रति वैराग्यञ्जनयति। तद्वैराग्यं यदा दृढीभवति तदा सर्वमनोवृत्तीनाम् उपरम:, सर्वसङ्कल्पानामपि उपरमो भवेदेव। सा ज्ञानजनितपरवैराग्यजन्या मनोवृत्त्यभावावस्था अभ्यासेन पुन: पुन: सम्पादनीया।
एतै: साधनैर्मनसो नाशो जायते, तेन जायते सङ्कल्पाभावादन्तःकरणाश्रितानां कामानां नाश:, तृष्णाशोकश्रमाणामपि निवृत्तिर्भवति। एवं प्रतिबन्धकाभावसहकृतज्ञानेन अज्ञानस्य नाशे सति अस्माभिर्न: स्वकीया शान्तिरूपा ब्रह्मस्वरूपस्थितिर्लभ्यते। भयस्य समूलनाशो भवति, कामस्य अभावे शान्त: सन्तो वयं स्वरूपे वर्तामहे।परमपुरुषार्थरूपा नैष्ठिकी शान्तिर्लभ्यते।
अतोऽवगम्यते यत् सङ्कल्पस्य कामजनकत्वात्, सङ्कल्परहितत्वस्य कामक्षयजनकत्वाज् ज्ञानेन वैराग्येण अभ्यासेन च मनस: सङ्कल्परहितत्वं सम्पादनीयम्।