निरहमनिदं स्वरूपम्

3 views
Skip to first unread message

Sudhanshu Shekhar

unread,
Apr 7, 2026, 5:27:46 AMApr 7
to Sanskrit Advaitin

कार्यकारणभावो मिथ्या, दृश्यत्वात्, रज्जुसर्पवत्, स्वप्नदृश्यकार्यकारणभाववच्चेति अनुमानाद् दृश्यस्य कार्यकारणभावस्य मिथ्यात्वं सुखेन अवगम्यते। मिथ्यात्वं पुन: तस्य दृश्यस्य ज्ञातैकसत्ताकत्वं नाम प्रातिभासिकत्वं साधयति। तर्हि दृश्यकार्यं दृश्यकारणं च यथा दृष्टिसमसमये जायेते, तथैव तयोर्मध्ये कार्यकारणभावोऽपि तस्मिन्नेव समये उत्पद्यते। किन्तु समानकाले उत्पन्नवस्तुनोर्मध्ये कार्यकारणसम्बन्धो भवितुं न शक्यते। एतेन सिध्यति यत् कोऽपि कार्यकारणसम्बन्धो दृश्यमानयोरविद्याकार्ययोर्मध्ये नास्ति, तस्य कार्यकारणभावस्य प्रतिभासमात्रं भवति। 

सम्यक्। किन्तु किम् एवमपि वक्तुं शक्यते यद् अविद्याकार्याविद्ययोर्मध्येऽपि कार्यकारणसम्बन्धो नास्ति? उच्यते चेत् तर्हि कथं दृश्यस्य अनुमानसिद्धम् अविद्याकार्यत्वं न विरुध्यते। अविद्याया: कारणत्वं नाङ्गीक्रियते चेत्तर्हि किमर्थं भवता ज्ञानाय यत्न: क्रियते। श्रुतिषु ज्ञानस्य मोक्षकारणत्वम् अपि ज्ञानस्य अविद्यानिवारकत्वाद् अविद्यायाश्च बन्धकारणत्वादेव कथ्यते खलु। तर्हि इदमेव लभ्यते यद् दृश्यानाम् अविद्याकार्याणां मध्ये कार्यकारणसम्बन्धस्य निराकरणं स्वीक्रियते अपि चेत्, न अविद्याकार्याविद्ययोर्मध्ये कार्यकारणसम्बन्धस्य निराकरणं युक्तियुक्तम्

नैतत् सारम्। दृश्यताम्। मिथ्याशब्देन इदमेव लभ्यते यद् दृश्यमानानां वस्तूनां सत्ता नास्ति, तेषाम् अस्तित्वं नास्ति, किन्तु तेषु अस्तित्वस्य प्रतिभासमात्रं भवति। यदा अस्माभि: कार्यकारणभावस्य निषेध: क्रियते, तदा न तस्य कार्यकारणभावस्य प्रतिभासस्य निषेध: क्रियते, किन्तु प्रतिपन्नोपाधौ तस्य अत्यन्ताभावो नाम त्रैकालिकनिषेधप्रतियोगित्वं प्रतिपाद्यते। अविद्याकार्याविद्ययोर्मध्ये य: कार्यकारणसम्बन्धो दृश्यते, स: सम्बन्ध: सत्ताहीन:, न तस्य अस्तित्वं विद्यते। किन्तु अधिष्ठानभिन्नदृष्ट्या तस्य प्रतिभासस्य निराकरणं कर्तुं न शक्यते। अतो लभ्यते यत् दृश्यवस्तूनाम् उत्पत्तिसमये यथा अविद्याकार्याणां मध्ये कार्यकारणभाव: प्रातिभासिकतया जायते, तथैव अविद्याकार्याविद्ययोर्मध्येऽपि कार्यकारणभावो जायते। अविद्याया अनादित्वं स्वीक्रियते अपि चेत् न तेन सिद्धान्तस्य काऽपि हानि:

अथ यथा अविद्याया: सत्ताहीनं प्रतिभासमात्रं भवति, तथैव अविद्याया बन्धकारणत्वस्य अपि सत्ताहीनं प्रतिभासमात्रं भवति। तथैव ज्ञानाय या प्रवृत्तिर्मयि दृश्यते, सा प्रवृत्तिर्ज्ञाननिष्ठाविद्यानिवारकत्वस्य प्रतिभासमात्रेण उपपद्यते श्रुतीनाम् अर्थोऽपि एवमेव स्वयमेव ऊहनीय: 

एवं किं लभ्यते इति पृष्टे सति इदमेव वक्तव्यं यत् कार्यकारणभावस्य मिथ्यात्वावबोधेन अस्माकं द्रष्टृस्वरूपे स्थितिर्भवति यत् किमपि दृश्यते अस्माकं पुरत: तत्सर्वम् इन्द्रजालं मरीचिजलस्वप्नवत् प्रचलति इति बोधो जायते। यावद् ज्ञायते तावदेव तेषां स्थिति: मम द्रष्टुस्तै: सह नास्ति किमपि प्रयोजनम् अहमिति बोधो योऽस्ति सोऽपि मरीचिजलवदेव, कदाचिद्दृश्यते, कदाचिद् न दृश्यते। अत: सोऽपि तिरस्क्रियते ज्ञानाय मम प्रवृत्तिरपि अविद्याप्रयुक्ता, मम कर्त्तव्यकर्मसु निरतत्वम् अविद्याप्रयुक्तम्, तैरिन्द्रजालैर्न मयि द्रष्टृस्वरूपे कोऽपि विक्षोभ:। अतो निरहमनिदमात्मके  निजस्वरूपे शान्त: सन् वर्ते                           
Reply all
Reply to author
Forward
0 new messages