नमो विद्वद्भ्यः विद्वत्तल्लजाश्च !
पप्रथमं मम भाषादौर्बल्यार्थे आरम्भैव क्षमां याचे ! परम् एतेन मार्गेणैव वेदान्ताध्ययनेन साकं समकालीनतया भाषाकौशलमपि सम्वर्धिषीष्ट इति प्रार्थयित्वा शड्कां मे प्रस्तौतुं प्रयतिष्येऽहम् !
अन्य धर्मीयान् / दार्शनिकान् बहून् जीवनमुक्तान् वयं जानीमः ! यथा - सर्वे परमपूजनीयाः एव - येशु-क्रिस्ताः , दूरदर्शिनः / ॑प्रोफेट् ॑ मुहम्मदाः , दलाई-लामाः , गौतमबौद्धाः , गुरु-नानकाः , प्रमुख-स्वामी-महाराजाः इत्यादयाः !
ते सर्वे तु अद्वैतिनः न ! अपितु ते सर्वे तु द्वैतिनः (इस्लाम् -धर्मः , क्रिस्तधर्मः च) अथवा शून्यवादिनः (यथा ? गौतमबौद्धाः दलाई-लामा-वर्याः ) ! तर्हि ॑द्वितीयाद्वै-भयं भवति ॑ उत ॑एकमेव सत्यम् ॑ इति कथं सम्पादयितुं शक्यते एतेद् वादम् आधारीकृत्य ! ᳚केवलम् अधिकारित्वम् पर्याप्तम् किम् ॑ इति प्रशन उद्भवति मनसि मे !
किञ्च बहवः अद्वैतमतानुयायिनः शास्त्रपण्डिताः सन्ति येषां जीवनमुक्तश्रेण्याम् अस्माभिः गणयितुं न शक्यते !
तर्हि एतस्य प्रश्नस्य को समाधानः ! एषा अनिर्वचनीया ख्यातिः किम् ! परन्तु तर्केण अपि प्रतिपादितव्यानि किल अस्माकं परमपूज्यानि श्रुतिवाक्यानि !
एतस्याः शड्कायाः विषये समाधानं कस्मिंश्चिदपि प्रकरणग्रन्थे अपठ्यत इति अस्पष्टत्वेन स्मर्यते मया ! विचारसागरे लभ्येत किम् इति चिन्तयामि ! कृपया उपदिश्यासुः / उपदिश्येरन् इति सविनयं प्रार्थयेऽहम् !
वेदान्तसम्बद्धप्रत्त्युत्तरैः साकं भाषापरिष्कारविषयकाः टिप्पण्यः अपि प्रसादरूपत्वेन स्वागतीकारिष्यन्ते मया !
गुरुसेवानिरता ! भवदीया !
साक्षी !