Adarniya Bhatta mahodayaH
मम मूल प्रश्नः आसीत् यत् "वागर्थाविव सम्पृक्तॊ वागर्थ प्रतिपत्तये"
अत्र वाक् शब्दस्य अर्थः किं ?
शब्दः., वाक्यः वाक् (वाणी) इति वा ? काव्यमधिकृत्य मम् प्रश्नं नास्ति!
काव्यशास्त्रस्य उद्धरणम् तु सम्यक् एव! काव्ये तु सर्वम् चलति एव! तथापि
अत्रापि मम एकः प्रश्नः ? गुणदोषविवेचने तेषाम् आकारः कुत्र वर्तते?
तत्र हि, पनसादि शब्देन, पनसात् अर्थप्रतिपत्तिर्नास्ति कथमिति चेत्
पृथगर्थदर्शनात्. अनेन शब्दश्च हस्तसंकेतसम्बन्धनिर्देशात् अर्थसाधनात्.
अतः पनसशब्देन अर्थप्रतिपत्तिर्नास्ति. ननु च अप्रतिपत्तिरस्ति. अतः
वाक्यमेवार्थानां शब्दार्थस्य प्राधान्ये अस्ति. न तु शब्दः .!
वाक्यपदीयकारमतेन अपि शब्देन अर्थ प्रतिपत्ति न भवति तदयथा-
नित्येअनित्येअपि वAच्ये अर्थे पुरुषेण कथंचन! सम्बन्धो अकृतसंबन्धॆः
शब्दॆः कर्तुं न शक्यते!!वाक्यपदीय(१४९,१.९-१०) एतस्मात् कारणात्
वागर्थाविव सम्पृक्तो वागर्थ प्रतिपत्तये , अत्र तु वाक् इति पदस्य अर्थः
वाक्य एव अस्ति न तु शब्दः इति. मन्तव्यः! अस्मिन् श्लोके कालिदासस्य
अभिप्रायः तु अयम् अस्ति यत् संसारस्य व्यवहारः वाक्येन चलति न तु
शब्देन.!. तत्र वाक्यंपदीये - अनादिनिधनम् ब्रह्म शब्दतत्त्वम् यदक्षरम्,
विवर्तते अर्थभावेन प्रक्रिया जगतो यतः!! वाक्य० १/१ वाक्यं विना शब्दाः
निरर्थकाः भवन्ति! एवं अपि च, शब्द ब्रह्म एव अस्ति चेत् , तदा, नॆव वाचा
नॆव मनसा ग्यातुम् शक्यो न चक्षुषा इति वचनस्य सार्थकता भविष्यति!
अर्थस्य प्रतिपत्ति तु वाण्या(भाषा) एव भवति न तु वाक्येन शब्देन वा
इति!.. अत्रापि वाक्यं तु मात्र भाषायाः एकिकं(इकाई) अस्ति! अतएव भावस्य
सम्यक् अभिव्यक्ति मात्र वाक्येन एव न भवति! तत्कृते तु प्रकरणस्य
आवश्यकता, प्रकरणे सति शब्दानाम् परस्परसम्बन्धेन वाक्यस्य निर्माणम्
भवति तदनन्तरमेव विविधभावानाम् भाषामाध्मेन अभिव्यक्ति भवति! अतएव
अमरकोषे वाक् इति शब्दस्य समानार्थशब्देषु सन्ति - भारती, भाषा, गीः,
वाक्, वाणी, सरस्वती! मम कथनस्य सारः अभिप्रायः वा अस्ति यत् कालिदास्य
मते अपि तु वाक् (वाणी) च अर्थ च वागर्थॊ मन्तव्यः ! अर्थः तु वाण्यां
उत् भाषायां सम्मिलिताः सन्ति न तु शब्दे इति! अतः पश्यन्ति, मध्यमा,
वॆखरी रूपेण भावस्य अभिव्यक्तिर्भवति अत्र परा वाक् इत्यस्य संकेतः
नास्ति तत् तु ब्रह्म एव अस्ति एतस्मात्! काव्यशास्त्रेषु च
काव्यनिर्माणे तु प्रतिभा एव मुख्यं, तत्र रम्यांणि वीक्ष्य मधुराणि
-----अभिशा०/९ इति!
अतः पार्वतीपर्मेश्वरॊ, अत्र तु नित्यस्य अभिप्रायः नास्ति, अनित्यस्य एव
पार्वतीपर्मेश्वरॊ तु जगतस्य पितरॊ अस्ति, न तु नित्य ब्रह्म परावाक्
इति तत् तु अखन्डम् एकम् नित्यम् न इश्वरॊ न परमेश्वरॊ इति!
Ataeva शरीरशरीरिणोरिव शब्दार्थयोः संबन्धः satyam nAsti nityam api nAsti ca
2009/12/18 hn bhat <hnbh...@gmail.com>:
--
rnp