महाक विः कालिदासः भारतीय संस्कृ त साहित्ये अत्यन्त प्रसिद्धः । सः कविकुलगुरुः इति प्रकीर्तितः । विद्वज्जनाः तं दीपशिखा कालिदासः इति स्तुतवन्तः । तस्य सरला सुन्दर उपमालंकार प्रयोगेन प्रभाविताः जनाः तं उपमाकालिदासः इति अपि अस्तौषीत् । यथाह्नह्न
उपमा कालिदासस्य भारवेरर्थ गौरवं ।
दण्डिनः पदलालित्यं, माघेसंति त्रयो गुणाः ।।
इति । कालिदासः संस्कृ त वाङ्मये अलंकारप्रायः इति वक्तुं अनया उक्त्या शक्यते ।
भासोह्रासः कविकुलगुरुः कालिदासो विलासः ।
हर्षोहर्षः हृदयवसतिः पञ्चबाणस्तु बाणः ।।
कैषां नैषा क थय कविता कामिनी कौतुकाय । इति
कालः कालिदासस्य देशकालादिविषये भेदाभिप्रायाः सन्ति । केचन पण्डिताः क्रिस्तपूर्व प्रथम शतकं कालिदासस्य कालः इति अन्ये के चन तस्य कालः क्रिस्ताब्दानन्तर पञ्चमशतकं इति अभिप्रयन्ति । क्रि स्तपूर्व सप्तपञ्चाशत्तमे वर्षे विक्र मशक द्वितीय प्रवर्तकः चन्द्रगुप्त विक्रमादित्यस्य आस्थाने एषः क विरासीत् इति निर्धारितम् ।
देशः ह्नह्न तस्य देशविषयेऽपि एकाभिप्रायं नास्ति । तस्य कृतीनां निश्चितदृष्ट्या परीक्ष्य विद्वांसः तस्य देशः उज्जयिनी इति अभिप्रयन्ति । तस्य कृ तीनां द्वारा कालिदासः व्याकरण, दर्शन, वेदान्तादि शास्त्रेषु निपुणः आसीत् इति ज्ञायते । कालिदासस्य काव्यशैली सुमधुरा, सरला सुन्दरा च । एषः वैदर्भी शैली प्रयोगे सिद्धहस्तः । वैदर्भी स्वयं कृतवती श्री कालिदासं वरं इति उक्तिः प्रसिद्धा एव । एषः न तु के वलं उपमालन्कारे, परन्तु अर्थन्तरन्यासालंकार, उत्प्रेक्षालन्कारादि प्रयोगेष्वपि सिद्धहस्तः आसीत् । अतः ह्न
कालिदासः गिरां सारं कालिदासः सरस्वती ।
चतुर्मुखोऽथवा साक्षाद्विदुर्नान्ये तु मादृशाः ।।
इति मल्लिनाथस्य उक्तिः कालिदासस्य श्रेष्ठतायाः निरूपिका अस्ति ।
कालिदासस्य कृतयः कालिदासस्य सर्वे रचनाः मनोरञ्जकाः, सुमधुराः । ते
१ कुमारसम्भवम्
कुमारसम्भवम् पञ्चमहाकाव्येषु एकः । एतस्मिन् क थाभागे पार्वती स्वतपसः महिम्ना शिवं क थं वरयति, शिवः ब्रह्मचारि रू पेण अपर्णायाः आश्रमं प्रविश्य तां कथं परीक्षति इति वर्णितम् ।
अथाजिनाषाढधरः प्रगल्भवाक्
ज्वलन्निव ब्रह्ममयेन तेजसा ।
विवेश कश्चित् जटिलस्तपोवनं
शरीरबद्धः प्रथमाश्रमौ यथा ।।
इति शिवपार्वत्योः विवाहनन्तरं तारकासुर वधार्थम् कुमारसम्भव प्रसन्गं सविवरं वर्णितम् ।
२ मेघदूतम् :
मेघदूत खण्डकाव्ये कश्चित् यक्षः कुबेरस्य शापप्रभावेण रामगिरि आश्रम प्रान्ते अरण्ये पत्नी वियोगेन दुःखेन क थं मेघं संप्राथ्य, तस्य पन्त्यै विरहसंदेशं प्रेषितवान् इति हृदयन्गमया रीत्या वर्णितम् । अन्ते सः यक्षः शाप विमोचनानन्तरं अलकापुरीम् गतवानिति वर्णितम् । एतत्काव्यद्वारा कालिदासस्य भारतदेशस्य भौतिक स्वरूपं ज्ञान स्वाभाविक विषयपरिज्ञानं ज्ञायते ।
३ ऋतुसंहारम् :
वसन्तऋतु इत्यादि ऋतु आगमन निर्गमन विशेषं प्रकृति वर्णनं सुन्दररीत्या एतत्काव्ये वर्णितम् ।
४ मालाविकाग्निमित्रम् :
एतस्मिन् नाटके अग्निमित्रनामक राज्ञः मालविकायाः विवाह प्रस”ं वर्णितम् । अग्निमित्रस्य धारिणी, इरावती च द्वे पत्न्यौ स्तः । कि न्तु धारिण्याः अन्तःपुरे एक स्मिन् चित्रपटे दासीवेषधारिणीं मालविका नाम राजकु मारीं दृष्टवा तां मोहयति । तदनन्तरं विदूषक स्य साहाय्येन क थञ्चित् तां परिणयति । विदूषक रू पेण विनोदं दत्तवान् ।
५ विक्रमोर्वशीयम् :
ऊर्वशी पुरुरवयोः प्रेमकथा, तयोः विवाहं, भरतमुनि शापप्रभावेण ऊर्वश्याः भूलोक वासं, एक वर्षकाल पर्यन्तं तयोः सुखमय जीवनं, पुत्रजन्मानन्तरं तस्य मुखदर्शनानन्तरं ऊर्वशी शापविमोचनं, स्वार्नलोक प्राप्तिः इत्यादयोः घटनाः हृदयन्गमया रीत्या वर्णितम् ।
६ रघुवंशम् :
रघुवंश महाक व्यं संस्कृत पञ्चमहाकाव्येषु एकं । १९ सर्गात्मक रघुवंश महाकाव्यस्य संक्षिप्त कथा सारांशः ।
एतस्मिन् काव्ये दिलीप, रघु, अज, दशरथ, श्रीराम, कुश, अतिथि अग्नि, वरुणा इत्यादि सूर्यवंशस्य राज्ञां चरितं वर्णितम् अस्ति । रघुमहाराजस्य प्रतिभया एतद्वंशं रघुवंशमिति ख्यातिं आपेदे । काव्यस्य प्रारम्भे एव कालिदासः ।
वागर्थाविव संपृक्तौ वागर्थ प्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वती परमेश्वरौ ।।
इति संप्रार्थ्य ।
क्वसूर्य प्रभवो वंशः क्वचाल्प विषयामतिः ।
तितीर्षुर्दुस्तरं मोहाद्डुपेनास्मि सागरं ।।
इति तस्य विनयं प्रदर्शितवान् । दिलीप सुदक्षिणयोः नंदिनी धेनोः सेवाफलेन, दिलीपस्य शापविमोचनं, तदनन्तरं रघोः जन्म वृत्तान्तं, रघोः दिग्विजय यात्रा, तस्य पराक्र मं, तदनन्तरं विश्वजित् यागरू पेण सर्व संपदः त्यागं वर्णितम् । रघोः सुतः अजः इन्दुमत्योः च विवाह प्रसन्गे इन्दुमती सौन्दर्य वर्णना समये
सञ्चयारिणी दीपशिखेन रात्रौ, यं यं व्यतीयाय पतिं वा सा ।
नरेन्द्रमाभट्टि एव प्रपेदे विवर्ण भावं स भूमिपालः इति हृदयन्गमया रीत्या वर्णितवान् । तदनन्तरं श्रीराम चरितं (रामायणं) कुश, लव, राज्यपालना व्यवस्था अन्ते अग्निवर्णस्य विषलोलुपता, तस्य अमात्यैः प्रोत्साहेन तस्य पत्न्याः सिंहासनारोहणं वर्णितम् । के चन विद्वांसः अमन्गलोपसंहारेण कालिदासः तदनन्तरमपि काव्यमरचयत् इति अभिप्रयन्ति ।
७ अभिज्ञान शाकुन्तलम् :
अभिज्ञान शाकुन्तलं कालिदासस्य नाटक रत्नमिति कीर्तिम् अवाप । इदं नाटकं सप्तान्क समन्वितम् । महाभारतस्य शकुन्तलोपाख्यानस्य आधारेण सः स्व विशिष्ट शैल्या नूतन कथा संविधानं निर्मितवान् तस्य पात्र चित्रणं, भाषा सामर्थ्यं रचना विधानं सर्वश्रेष्ठम् इति विद्वद्भिः सम्मानितम् ।
राजा दुश्यन्तः कृष्णसारमेकं अनुसृत्य कण्वाश्रम प्रान्तं गत्वा तत्र सखीभ्यां सह आश्रमवृश्रान् सिञ्चन्तीं शकुन्तालां दृष्टवा तस्याम् अनुरक्तः अभवत् । तयोः गन्धर्व विवाहानन्तरं, परिसमाप्तासु यज्ञक्रियासु राजा स्वनामधेयान्कितम् अन्गुलीयकम् शकुन्तरलायै दत्वा त्रिभिः दिवसैः त्वाम् मम नगरं आनेतुम् सैनिकान् प्रेषयामि इति वचनं दत्वा स्वनगरं प्रति जगाम । तदनन्तरं दूर्वास शापात् सः राजा दुष्यन्तः तां विस्मरति । भर्तृसमागम सन्तोषनिमग्नया शकुन्तलया नदीमध्ये अन्गुलीयकं दुरदृष्टवशात् प्रभृष्टम् भवति । पश्चात् दुष्यन्तेन अवमानितां शकुन्तलां माता मेनका आदाय भगवतः मरीचेः आश्रमे भगवत्याः अदितेः हस्ते न्यासीचकार । तदनन्तरं अन्गुलीयक दर्शनेन दुष्यन्तेन सर्वं ज्ञातम् । अत्रान्तरे कालनेमिप्रसूतं दुर्जयं नाम दानवगणं हन्तुं दुश्यन्तमानय इति इन्द्रस्याज्ञया मातलिः आगत्य तस्मै इन्द्रस्य सन्देशं विज्ञापितवान् । राज्यभारं अमात्येषु निक्षिप्य रथमारुह्य मातलिना साकं दिवं ययौ तत्र दानवान् विजित्य पुरस्कारेण सन्तुष्टः सन् देवरथमारुह्य विहायसा प्रस्थितः मेघमण्डलं अतिलङ्घ्य हेमकूट पर्वतप्रान्ते मरीचि महर्षि दर्शनार्थं गत्वा तत्र स्वपुत्रं भरतं भार्यां शकुन्तलां च दृष्टवा पश्चत्तापेन शकुन्तलायाः पादयोः पतित्वा क्षमां प्रार्थितवान् । तदनन्तरं मरीचेः आशीर्वादं प्राप्य भार्या पुत्रसहितं स्वराजधानीं गतवान् ।
साभार
सुधर्मा