Namaste.
संस्कृतशास्त्राणां प्रचाराय शास्त्राध्येतृ़णामानुकूल्याय च अस्माकं ‘भूमा’ प्रकाशनद्वारा निर्मिता: प्रस्थानत्रयतन्त्रांशा: अधुना Play store इत्यत्रोपलभ्यन्ते । संस्कृतव्याकरणसम्बद्धा: नैकै तन्त्रांशाः यथोपलभ्यन्ते न तथा दर्शनशास्रसम्बद्धाः । अतो अस्माभि: अयं प्रयत्नः प्रारब्ध: ।
१. भगवद्गीता-तन्त्रांशः - https://play.google.com/store/apps/details?id=in.lucidify.bhagavadgita
अस्मिन् तन्त्रांशे भगवद्गीतायाः सर्वेऽपि श्लोकाः शाङ्करभाष्यसहिताः उपलभ्यन्ते ।२. उपनिषद्-तन्त्रांशः - https://play.google.com/store/apps/details?id=in.lucidify.upanishads
अस्मिन् दशोपनिषदां मन्त्राणां सङ्ग्रहः अध्यायशः खण्डशश्च विहितः । शाङ्करभाष्यम् अचिरादेव योजयिष्यते ।
३. ब्रह्मसूत्रतन्त्रांशः - https://play.google.com/store/apps/details?id=in.lucidify.brahmasootras
अस्मिन् ५५५ ब्रह्मसूत्राणां अध्यायशः पादशः अधिकरणशः च सूत्राणां सङ्ग्रहो विहितः । अस्य भाष्यसंयोजनकार्यं प्रचलति ।कृपया एतान् त्रीनपि उपयुज्य अस्मान् प्रेरयन्तु इति प्रार्थये ।
- डा.विश्वनाथ हेगडे