आपस्तम्बधर्मसूत्राणि सटीकानि सानुवादानि

3 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 4, 2022, 5:54:44 AM2/4/22
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, Hindu-vidyA हिन्दुविद्या, dyug...@googlegroups.com, sanskrit-ocr, kalpa-...@googlegroups.com
(bcc - अद्वितीयदीक्षितः)

नमांसि। 

श्रीमदापस्तम्बधर्मसूत्राणि  सटीकानि सानुवादानि परिष्कृतप्रायाणि लभ्यन्ते https://vishvasa.github.io/vedAH/yajuH/taittirIyam/sUtram/ApastambaH/dharma-sUtram/sarva-prastutiH/2/05/12/ इत्यादिषु। अध्येतारो ऽनुष्ठातारश्चानेन स्वधर्मे ऽवस्थातुं समर्थतरा भूयासुः। यथारुचि पाठम् अनुकृत्य प्रयोक्तुम् प्रस्तोतुं वार्हन्ति सन्तः। 

दोषा github pull request इत्यनेनाध्वना यथासौकर्यं सद्भिः कुशलैर् मार्जयितुम् उचिताः। 

तत्र हरदत्तटीका श्रमेण ocr-कृत्वा परिष्कारिता - यस्य धन-व्ययो ऽस्मज्जातीयेन +अद्वयदीक्षिताख्येन सज्जनेन पूरयितुं प्रतिज्ञातः। अस्य सौहार्देन वर्धितोत्साहो नन्दामि। एवम् अस्माकम् एतादृश-कार्याणि श्रमवित्तादिदानेन समर्धयितुम् इच्छन्ति ये, ते मत्सम्पर्कं साधयन्तु। 

उदाहरणम् इह - 

23 तच्च लिङ्गञ् चरित्वोद्धार्यमित्येके

Up↑

तच्च लिङ्गं (=कुनखित्वादिकम्) चरित्वोद्धार्यमित्येके २३

हरदत्त-टीका

Up↑
सूत्रम्
Up↑


तच्च लिङ्गं चरित्वोद्धार्यमित्येके ॥ २३ ॥

टिप्पनी
Up↑


यस्मिन् कौनख्यादिके लिङ्गे यत् प्रायश्चितमुक्तं तच्चरित्वा तत् कौनख्यादिकं लिङ्गमुद्धरेदित्येके मन्यन्ते । अन्यत्राऽहिताग्निभ्य इति स्मृत्यन्तरम् ॥

इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्ने द्वादशी कण्डिका ॥१२॥

इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामुज्ज्वलायां द्वितीयप्रश्ने पञ्चमः पटलः ॥ ५ ॥

Bühler

Up↑
  1. Some declare, that after having performed that penance, he shall remove its cause. 1

  1. 'Its cause, i.e. the black nails, &c. According to another Smṛti, one shall not put away a wife or extinguish a fire, for the taking or kindling of which the penance had to be performed.'--Haradatta. But see Vasiṣṭha XX, 7 seq. 


-- 
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages