उपकारः

27 views
Skip to first unread message

Suneesh Namboodiri

unread,
Jan 12, 2018, 5:38:50 AM1/12/18
to संस्कृते संवदेम
स्वर्वाणीप्रकाशः
 (वाट्साप्प् सदः)
🍀गुरुवासरः (11-01-18) दशमी💐
✍प्रस्तावविषयः-- उपकारः🌝


आत्मनः प्रतिकूलानि  परेषां न समाचरेत्।।

इत्येव खलु आप्तवाक्यम्। प्रतिकूलात्मकं कार्यं परेषां न समाचरेत् तर्हि तत्र करणीयं किं तत्रैव हि करणीयः परोपकारः।

उपकारमनस्थितिः सत्पुरुषाणाम् एव भवति। 
उदाराः वसुधैव कुटुम्बम् भावयन्ति इति सुभाषिते। 
उपकारीषु ईश्वर एव अग्रगण्य यतः तेन विना पक्षपातेन इह भूतानां जीवनव्यवस्था परिकल्पिता। सज्जनानां कृते उपकारः पुण्यदायको भवति। 

उपकारो हि नीचानां अपकरो हि जायते । पयःपानं भुजंगानां केवलं विषवर्धनं ॥

दुर्जनोपकारेण पापमेव प्राप्यते। अपकारेभ्योऽपि उपकारो महापुरुषलक्षणम् इत्येव लोकमतम्। 


उपकारः परो धर्मः

फलेच्छां त्यक्त्वा उपकारं कुर्मश्चेत् तदेव परमधर्मः।

अनेकासु कथासु उपकारमहिमा प्रतिपादिता वर्तन्ते। 

उपकारस्य स्वीकरणानन्तरम् उपकारस्मरणाऽपि आवश्यकी। 

तिलमात्रमप्युपकारं शैलमात्रं मन्यते साधुः

इति चाणक्यवाक्यम् अतः सज्जनाः सदा प्राप्तोपकारस्मरणां कुर्वन्ति। 

दानेन वृद्धि अतः यथाशक्तिः दानं करणीयम्। 

ततः परतरो नास्ति य आपत्सूपतिष्ठते।

आपत्काले य उपकारं करोति स एव श्रेष्ठः। 

लोकेऽस्मिन् सर्वे सहाय्यम् इच्छन्ति। 

कृतिनोऽपि प्रतीक्षन्ते साहायं कार्यसिद्धये।
चक्षुष्मानपि नालोकाद्विना वस्तूनि पश्यति।।

उपकारस्य महत्त्वं पूर्णतया सुभाषितकारः एकेन सुभाषितेन कथितम्। 

परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्।।
Reply all
Reply to author
Forward
0 new messages