✍प्रस्तावविषयः-- दन्ताः😬
मुखान्ते श्वेतवर्णयुक्तः, खादनायोपयुक्तः, दन्त इति कश्चित् अवयवविशेषः विलसति। प्रायः 32दन्ताः प्रौढमानवेषु वर्तन्ते। भक्ष्य-भोज्य-लेह्य-चोष्यादिभेदविशिष्टस्य खादनपदार्थस्य वैविध्यमनुसृत्य दन्तानामाकृतौ चतुर्विध-वैविध्यं भवति। दन्तैः सम्यक् चर्वितमन्नं सुपाच्यं भवति। संदश्य यदन्नं न खादितं, तेन उदरे पचनकार्ये विघातो जायते। तादृशेनान्नेन पीडा च जायते।
दन्ताः मुखस्य आकृतौ विशेषस्थानं भजन्ते। विगतदन्ताः वृद्धाः, कारणान्तरैः दन्तविहीनाः जना असुन्दराः दृश्यन्ते। न केवलं मनुष्यानाम्, अपि तु सर्वजीवानां दन्ताः भवन्ति। हस्तिनः दन्तौ दीर्घौ, सुन्दरौ, महार्घौ चेति लोके प्रसिद्धौ। राक्षसानामपि घोराः दन्ताः विकृताकारतां प्रददति। आरण्यकाः क्रूरजन्तवः सिंहादयः सत्त्वानां हनने, खादने चोपयुक्त-दन्त-विशिष्टाः ।
सन्ति दन्तानां बहूनि उपयोगानि । फलादीनां कर्तनाय, पूगादीनां विभाजनाय दन्ताः प्रयुज्यन्ते। यः यावत् दृढं वस्तु दन्तैः विभक्तुं शक्नुयात्, स तावान् बलवानिति लोके ख्यातिमर्जति। कदाचित् बालादीनां क्रोधादिप्रदर्शनाय दन्ताः अत्यन्तमुपयुक्ताः। अन्यबालानां हस्ताद्यवयवेषु दन्तबलं प्रदर्श्य बालैः वीरत्वं ज्ञाप्यते। जिह्वायाः अनुचित-प्रयोगेण कदाचित् दन्तपातस्य भीतिरस्ति लोके। अतः तेलुगुभाषायां लोकोक्तिरस्ति—“जिह्वे, दन्तपातकारी मा भूः” इति, अर्थात् अशिष्टशब्दान् प्रयुज्य मम अहितं मा कारय इति जिह्वा प्रार्थ्यते। दन्तवैद्यः प्रायः सर्वेषां दन्तरोगपीडितानां भयकारी कश्चित् पुरुषः विराजते। इत्यलं विस्तरेण॥