मूलम्--
यस्माच्च येन च यथा च यदा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म ।
तस्माच्च तेन च तथा च तदा च तच्च
तावच्च तत्र च विधातृवशादुपैति ॥१.४१॥
🌺
पदविभागः--
यस्मात् च येन च यथा च यदा च यत् च यावत् च यत्र च शुभ-अशुभम् आत्मकर्म । तस्मात् च तेन च तथा च तदा च तत् च तावत् च तत्र च विधातृ-वशाद् उपैति ॥१.४१॥
☀
अन्वयः--
शुभ-अशुभम् आत्मकर्म, यस्मात् च येन च यथा च यदा च यत् च यावत् च यत्र च (आचरति) तस्मात् च तेन च तथा च तदा च तत् च तावत् च तत्र च विधातृ-वशाद् (फलम्) उपैति ॥१.४१॥
🌸
तात्पर्यम्--
यस्माद्धेतोः, येन-करणेन हस्तादिना, यथा च = येन च प्रकारेण ; यदा च = यस्मिन् काले च, यत्-शुभाशुभशुभम् अशुभं वा ; आत्मकर्म = स्वस्य पापपुण्य-सुखदुःखादिकं ; यावत् = यावन्मितं ; यत्र =यस्मिन्देशे च भावि ; तत् = तस्मात् कारणात् ; तेनैव = उपकरणेन, तथा तेनैव प्रकारेण ; तदा च = तस्मिन्नेव काले च ; तच्च = तत्फलम् ; तावच्च = तावत् प्रमाणमेव ; तत्रैव देशे ; विधातृवशात् = भाग्यवशात् ; उपैति = शुभाशुभमात्मफलं स्वयमेव नरमुपयाति ॥१.४१॥
🌻
तात्पर्यम्--
जीवः- १. येन कारणेन, २. येनोपायेन, ३. येन विधानेन, ४. यस्मिन् काले, ५. यस्मिन् देशे, ६. यत्स्वरूपकं, ७. यत्प्रमाणकं च, -पापमथवा पुण्यकर्म आचरति, तस्य फलमपि तत्कारणकं, तदुपायकं, तद्विधानकं, तत्कालकं, तद्देशकं, तत्प्रमाणकं, तथैव च भवति ॥१.४१॥🌿
🌻
मूलम्--
🌼
रोगशोकपरीतापबन्धनव्यसनानि च ।
आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥१.४२॥
🌷
पदविभागः-
रोग-शोक-परीताप-बन्धन-व्यसनानि च । आत्मा-अपराध-वृक्षाणां फलानि एतानि देहिनाम् ॥१.४२॥
🌹
अन्वयः--
एतानि देहिनाम् आत्मा-अपराध-वृक्षाणां फलानि (भवन्ति)-- रोग-शोक-परीताप-बन्धन-व्यसनानि च (इति) ॥१.४२॥
💥
प्रतिपदार्थः--
देहिनां = शरीरिणाम् ; परीतापः = सन्तापः ; बन्धनं = कारादि-प्राप्तिः ; तान्येव- व्यसनानि = विपत्तयः ; तानि च-- आत्मापराधवृक्षाणां ~आत्मना कृताः अपराधाः, ते एव वृक्षाः तेषाम्-- अपराधाः = पापानि ; वृक्षाणां = स्वकर्म-वृक्षाणां, फलानि = फलभूतान्येव [स्वकृतैरेव पापैर्दुःखानि जनो लभते, नान्यैरिति भावः]॥१.४२॥
🌸
तात्पर्यम्--
आतुरता, हृत्पीडा, पश्चात्तापः, निर्बन्धः, दुःखकालाश्च प्राणिनां स्वयमाचरितानाम् अकार्याणां परिणामत्वेन सम्भवन्ति॥१.४२॥☀
🥀
मूलम्--
आपदर्थे धनं रक्षेद् दारान् रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥१.४३॥
🌸
पदविभागः--
आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैः अपि । आत्मानं सततं रक्षेद् दारैः अपि धनैः अपि ॥१.४३॥
🌻
अन्वयः--
आपदर्थे धनं रक्षेत्। धनैः अपि दारान् रक्षेत् । दारैः अपि धनैः अपि आत्मानं सततं रक्षेत् ॥१.४३॥
🌿
प्रतिपदार्थः--
आपदर्थे = आपत्प्रतीकाराय ; रक्षेत् = अर्जयेत्, निभृतं स्थापयेत् ; दारान् = कलत्रम् ; धनैः = धनदानादिभिः ; रक्षेत् = गोपायेत् ; आत्मानं = स्वशरीरन्तु ; दारैरपि = पत्न्यपेक्षयापि ; धनैरपि = धनापेक्षयापि च, तद्व्ययेनापि च ; रक्षेत् = पालयेत् ॥१.४३॥
☘
तात्पर्यम्--
कदाचित् भविष्यत्काले विपत्तिस्थितिः सम्भवेदिति धिया किञ्चित् धनम् उपयोगार्थं निकटे स्थापनीयम्। धनस्यापेक्षया पत्न्याः रक्षणं कार्यमथवा समये आपतिते वित्तेन भार्या रक्षणीया। ततश्च यदा आत्मनः विपत्कालः आपतेत्, तदानीं धनपत्न्योरपेक्षया, अथवा भार्यया, धनेन च स्वस्य रक्षणं करणीयम्॥१.४३॥🌹
मूलम्--
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥१.४४॥
🌼
पदविभागः--
धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थिति-हेतवः । तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥१.४४॥
🌸
अन्वयः--
प्राणाः धर्मार्थ-काम-मोक्षाणां संस्थिति-हेतवः । तान् निघ्नता किं न हतम् ? रक्षता किं न रक्षितम्? ॥
🌻
प्रतिपदार्थः--
प्राणाः = प्राणापानादिपञ्चवायवः ; संस्थितिहेतवः = यथावत्पालनादि-हेतवः, जीवने कारणभूतानि ; तान्प्राणान् स्वशरीरमिति यावत् ; निघ्नता = विनाशयता ; रक्षता = पालयता ; धर्मार्थकाममोक्षाख्याश्चत्वारः पुरुषार्थाः॥१.४४॥
🌷
तात्पर्यम्--
(शरीरस्य धारणे ये हेतवः ते) प्राणाः एव धर्मादि-पुरुषार्थ-चतुष्टयस्य संस्थापनेऽपि कारणम्। पुरुषः प्राणान् हत्वा सर्वं हन्ति, प्राणान् ऊत्वा (अव्+त्वा) सर्वम् अवति॥१.४४॥🍁
मूलम्--
🌸
धनानि जीवितञ्चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥१.४५॥
🌷
पदविभागः--
धनानि जीवितं च एव परार्थे प्राज्ञः उत्सृजेत् । सन्निमित्ते वरं त्यागः विनाशे नियते सति ॥१.४५॥
🍁
अन्वयः--
प्राज्ञः धनानि जीवितं च एव परार्थे उत्सृजेत् । विनाशे नियते सति सन्निमित्ते त्यागः वरम् ॥१.४५॥
🌼
प्रतिपदार्थः--
प्राज्ञः = विद्वान् ; जीवितं = प्राणान् ; परार्थे = परोपकाराय ; उत्सृजेत् = दद्यात् ; विनाशे = मरणे ; नियते = निश्चिते सति ; सन्निमित्ते = सत्कार्यसिद्धये, परोपकाराय ; त्यागः = प्राणपरित्यागः ; वरं = किञ्चित् श्रेष्ठः ॥१.४५॥
🌻
तात्पर्यम्--
बुधजनः परेषामुपयोगाय वित्तं जीवनं चार्पयति। नाशनमेव यदि (अशाश्वतेऽस्मिन्) लोके नियमः भवति, तर्हि सत्कार्याचरणार्थं धनप्राणयोः उपयोगः एव श्रेष्ठः॥१.४५॥☀
🍁
मूलम्--
विना वर्तनमेवैते न त्यजन्ति ममान्तिकम् ।
तन्मे प्राणव्ययेनापि जीवयैतान् ममाश्रितान् ॥१.४७॥
🌸
पदविभागः--
विना वर्तनम् एव एते न त्यजन्ति मम अन्तिकम् । तत् मे प्राण-व्ययेन अपि जीवय एतान् मम आश्रितान् ॥१.४७॥
🌻
अन्वयः--
एते वर्तनं विना एव न मम अन्तिकं न त्यजन्ति । तत् एतान् मम आश्रितान् मे प्राण-व्ययेन अपि जीवय ॥१.४७॥
🌼
प्रतिपदार्थः--
वर्त्तनं = जीविकां, वेतनं ; विनैव = (वेतनादिग्रहणं) विनाऽपि ; मम अन्तिकं = मत्सान्निध्यं ; न त्यजन्ति = न परिहरन्ति ; तत् = तस्मात् ; प्राण-व्ययेनापि = मत्प्राणोपयोगेन अपि ; जीवय = पाशच्छेदेन एनान् परिपालय ॥१.४७॥
🌹
तात्पर्यम्--
(कपोतानां कथायां मूषकेन कपोत राजा इत्थं वदति-) एतेभ्यः कपोतेभ्यः मासिकभृतिः कापि न दीयते, तथापि एते सदा मम सन्निधावेव वसन्ति, मां न परित्यजन्ति। अतः मम प्राणः अपगच्छेत् तथापि इमान् मम अधीने स्थितान् पूर्वं रक्ष- इति॥१.४७॥ 🌷
🍁
मूलम्
मांसमूत्रपुरीषास्थिपूरितेऽस्मिन् कलेवरे ।
विनश्वरे विहायास्थां यशः पालय मित्र मे ॥१.४८॥
🌸
पदविभागः--
मांस-मूत्र-पुरीष-अस्थि-पूरिते अस्मिन् कलेवरे । विनश्वरे विहाय आस्थां यशः पालय मित्र मे ॥१.४८॥
🌻
अन्वयः--
मित्र, अस्मिन् मांस-मूत्र-पुरीष-अस्थि-पूरिते विनश्वरे कलेवरे, आस्थां विहाय मे यशः पालय ॥१.४८॥
🌹
प्रतिपदार्थः--
मित्र = हे सुहृत् ; मांसं = पिशितम् ; मूत्रं = मेहनम् ; पुरीषं = विष्ठा ; अस्थि = कीकसम् ; निर्मिते = विरचिते, परिपूर्णे च ; विनश्वरे = विनाशशीले ; कलेवरे = शरीरे ; आस्थां = आलम्बनं, आदरं वा ; मे यशः = मम कीर्तिम् ; पालय = रक्ष ; ॥१.४८॥
🌼
तात्पर्यम्--
हे सखे, कायः विण्मूत्रादिना निर्मितः अशाश्वतः। अतः त्वं (तत् परित्यज्य) मम अपेक्षां विहाय (शाश्वतस्थायिनं) ख्यातिं अव॥१.४८॥🌷
🍁
मूलम्--
यदि नित्यमनित्येन निर्मलं मलवाहिना ।
यशः कायेन लभ्येत तन्न लब्धं भवेन् नु किम् ॥१.४९॥
🌸
पदविभागः--
यदि नित्यम् अनित्येन निर्मलं मलवाहिना । यशः कायेन लभ्येत तत् न लब्धं भवेत् नु किम् ॥१.४९॥
🌻
अन्वयः--
यदि नित्यं, निर्मलं, यशः- अनित्येन, मलवाहिना, कायेन- लभ्येत तत् (तर्हि) न लब्धं किम् नु भवेत् ? ॥१.४९॥
🌹
प्रतिपदार्थः--
नित्यं = चिरस्थायि ; निर्मलं = स्वच्छम् ; यशः = कीर्तिः ; अनित्येन = नश्वरेण ; मलवाहिना = मलमूत्रपरिपूर्णेन ; कायेन = शरीरेण ; तत्र 'नु'-इति वितर्के । किं लब्धं न भवेत् = सर्वमेव लब्धं भवेदित्यर्थः ॥१.४९॥
🌼
तात्पर्यम्--
यदि शाश्वती, मलरहिता कीर्तिः, अशाश्वतकेन, दूषितेन देहेन (तन्माध्यमेन) लभ्यते, तर्हि न किमपि अप्राप्तं शिष्यते। (सर्वमेव लब्धमिति यावत्।) ॥१.४९॥🌷
🍁
मूलम्--
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् ।
शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥१.५०॥
🌸
पदविभागः--
शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् । शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनः गुणाः ॥१.५०॥
🌻
अन्वयः--
शरीरस्य गुणानां च अन्तरम् अत्यन्तं दूरम् । शरीरं क्षण-विध्वंसि । गुणाः कल्पान्त-स्थायिनः ॥१.५०॥
🌹
प्रतिपदार्थः--
शरीरस्य = देहस्य ; अत्यन्तं दूरं = नितरां विप्रकृष्टम् ; अन्तरं = प्रभेदः ; क्षणविध्वंसि = अचिरविनाशि, क्षणभङ्गुरम् ; गुणाः = दयादाक्षिण्यादयः, यश इति यावत् । कल्पान्तस्थायिनः = प्रलयपर्यन्तस्थायिनः ॥१.५०॥
🌼
तात्पर्यम्--
देहस्य गुणानां च मध्ये भेदः महान्। कायः अविलम्बेन विनश्यति। गुणास्तु सृष्टिविलयं यावत् तिष्ठन्ति॥१.५०॥🌷
🍁
मूलम्--
योऽधिकाद् योजनशतात् पश्यतीहामिषं खगः ।
स एव प्राप्तकालस्तु पाशबन्धं न पश्यति ॥१.५१॥
🌸
पदविभागः--
यः अधिकाद् योजन-शतात् पश्यति इह आमिषं खगः । सः एव प्राप्त-कालः तु पाशबन्धं न पश्यति ॥१.५१॥
🌻
अन्वयः--
यः खगः योजन-शतात् अधिकाद् इह आमिषं पश्यति, सः एव प्राप्त-कालः तु पाशबन्धं न पश्यति ॥१.५१॥
🌹
प्रतिपदार्थः--
खगः = गृध्रादिः ; योजनशताद् अपि अधिकात् = शतमपि योजनानां पारे ; आमिषं = स्वभक्ष्यं मांसं ; पश्यति = (अत्र) द्रष्टुं शक्नोति ; स एव = दूरदृष्टिः खगः; प्राप्त-कालः = आसन्नमृत्युः सन् ; पाशबन्धं = जालं ; न पश्यति = नैव लक्षयति ॥१.५१॥
🌼
तात्पर्यम्--
यः पक्षी शताधिकयोजनदूरात् खाद्यपदार्थं मांसं द्रष्टुं शक्नोति, स एव मुत्यौ समीपे स्थिते सति (समीपस्थं) जालं न पश्यति॥१.५१॥🌷
--
You received this message because you are subscribed to the Google Groups "संस्कृते संवदेम" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvad...@googlegroups.com.
To post to this group, send email to samskrte-...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrte-samvadema.
For more options, visit https://groups.google.com/d/optout.
किमर्थम् एतावन्तः सन्देशाः ??