🙏हितोपदेश-सुभाषित-श्लोकाः - 1.15🌺
🌷
मूलम्-
दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥१.१५॥
🌹
पदविभागः-
दरिद्रान् भर कौन्तेय मा प्रयच्छ ईश्वरे धनम् । व्याधितस्य औषधं पथ्यं नीरुजस्य किम् औषधैः ॥१.१५॥
🌻
अन्वयः-
कौन्तेय, दरिद्रान् भर। ईश्वरे धनं मा प्रयच्छ । व्याधितस्य औषधं पथ्यं (भवति)। नीरुजस्य किम् औषधैः (प्रयोजनम्?)॥१.१५॥
☘
प्रतिपदार्थः-
कौन्तेय = हे कुन्ती-पुत्र, युधिष्ठिर ; दरिद्रान् = धनहीनान् ; भर = पालय ; ईश्वरे = धनिनि, ऐश्वर्यवति ; धनं = वित्तं ; मा प्रयच्छ = मा देहि ; व्याधितस्य = रुग्णस्य, शरीरबाधया पीडितस्य ; पथ्यं = हितकारकम् ; नीरुजस्य = रोगशून्यस्य, स्वस्थस्य तु ; औषधैः = भैषजैः, अगदैः ; किं = किं फलं ; न किमपीत्यर्थः ॥१.१५॥
🌼
तात्पर्यम्-
हे कुन्तीपुत्र, निर्धनान् (धनेन) पोषय। यः पूर्वमेव धनवान्, तस्मै धनं मा देहि। अस्य उदाहरणं दीयते। यथा- यः रोगपीडितः सः औषधेन हितं प्राप्नोति। यः पूर्वमेव स्वस्थः तस्य औषधसेवनं कुतः?💥
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.16🌺
🌷
मूलम्-
दातव्यमिति यद् दानं दीयतेऽनुपकारिणि ।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ॥१.१६॥
🌼
पदविभागः-
दातव्यम् इति यद् दानं दीयते अनुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥१.१६॥
🌹
अन्वयः-
यद् दानं अनुपकारिणि ‘दातव्यम्’ इति देशे काले च पात्रे च दीयते, तद् सात्त्विकं दानं विदुः ॥१.१६॥
☘
प्रतिपदार्थः-
दातव्यमिति = मया अवश्यमिदं कस्मैचन सत्पात्राय देयम् ; इति = इति बुद्ध्या ; दीयते = अर्पयते ; अनुपकारिणि = यस्मिन् पुरुषे आत्मनः लाभप्रत्यपेक्षा नास्ति, यस्मात् न किमपि स्वार्थं न साध्यते ; देशे = तीर्थादौ, सुक्षेत्रेषु ; काले = सूर्येन्दुग्रहणादौ, सत्काले ; पात्रे = योग्ये, सत्पात्रे, विदुषि ; (यद्दानं दीयते) तत् सात्त्विकमित्यन्वयः ॥१.१६॥
🌼
तात्पर्यम्-
‘मया अवश्यं कस्मैचन सत्पात्राय धनं देयम्’ इति (निःस्वार्थबुद्ध्या) प्रतिफलानापेक्षया साधुस्थले, साधुकाले, साधुपुरुषाय दत्तं दानं सात्विकं दानमिति व्यपदिश्यते॥🌻
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.17🌺
🌷
मूलम्-
न धर्मशास्त्रं पठतीति कारणं
न चापि वेदाध्ययनं दुरात्मनः ।
स्वभाव एवात्र तथातिरिच्यते
यथा प्रकृत्या मधुरं गवां पयः ॥१.१७॥
🌼
पदविभागः-
न धर्मशास्त्रं पठति इति कारणं न च अपि वेद-अध्ययनं दुरात्मनः । स्वभावः एव अत्र तथा अतिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥१.१७॥
अन्वयः-
धर्मशास्त्रं पठति इति कारणं न ; वेद-अध्ययनं न च अपि (कारणं)। दुरात्मनः स्वभावः एव अत्र- यथा प्रकृत्या मधुरं गवां पयः- तथा अतिरिच्यते ॥१.१७॥
🌻
प्रतिपदार्थः-
धर्मशास्त्रं = पुराणस्मृत्यादीनि ; पठति = अध्ययनं करोति ; दुरात्मनः = दुष्टस्वभावस्य ; (स्वभावपरिवर्तने) कारणं = हेतुः ; वेदाध्ययनं = वेदस्य गुरुमुखतः अध्ययनं ; स्वभावः = स्वतःसिद्धः, स्वकीयभावः ; अतिरिच्यते = सर्वोन्नतं, सर्वत्र बलवत् ; गवां पयः = दुग्धं ; प्रकृत्या = संसिद्ध्या ; मधुरं = गुड-इक्ष्वादिस्थः मिष्टस्वादुभावः ॥१.१७॥
🌹
तात्पर्यम्-
धर्मशास्त्रं पठति, वेदाध्ययनं करोति इति कारणेन (स्वभावः) न परिवर्तते। दुर्जनस्य स्वभावः सर्वस्मात् अतिक्रम्य भवति। धेनूनां दुग्धं स्वभावत- एव मधुरं भवति (तत्र न कोऽपि बाह्यप्रयत्नः आवश्यकः इति यावत्।)☘
[धर्मशास्त्र-पठनं, वेदाध्ययनं वा दुष्टानां खलानां दुरात्मनां स्वभावपरिवर्तने न शक्तं भवति, स्वभावस्य सर्वतो बलवत्त्वात् । अत एव हि कटुकषाय-प्राय-तृणादि-भक्षणेऽपि, दुग्धं स्वभावेनैव मधुरं भवति, एवं- मधुरपयःपानेऽपि भुजङ्गानां स्वभावतो विषमेव भवति, नाऽमृतमिति भावः] 💥
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.18🌺
🌷
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥१.१८॥
🍁
अवश-इन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया । दुर्भग-आभरण-प्रायः ज्ञानं भारः क्रियां विना ॥१.१८॥
🌻
अवश-इन्द्रिय-चित्तानां क्रिया हस्ति-स्नानम् इव । क्रियां विना ज्ञानं भारः। दुर्भग-आभरण-प्रायः। ॥१.१८॥
🌹
अवशेन्द्रिय-चित्तानां ~ अवशानि इन्द्रियाणि, चित्तं च येषान्ते, तेषाम्-अवशेन्द्रिय-चित्तानाम् = निरवग्रहेन्द्रिय-स्वान्तानां पुंसाम् ; क्रिया = धर्माचरणादिकं कर्म ; हस्तिस्नानम् इव = गजस्नानमिव, निष्फलम् ; दुर्भगाया आभरणानीव- दुर्भगाभरणप्रायः = दुष्ट-दुर्भाग्य-स्त्रीधारित-भूषणवत्, ज्ञानं = विद्या ; क्रियां विना = तद्विहिताचरणं विना, भार एव ॥१.१८॥
🌹
येषां चित्तं स्वाधीनं नास्ति, तैराचरितं धर्माचरणादिकं कर्म व्यर्थं भवति। यथा- गजाः स्नानं कृत्वा स्नानानन्तरमेव धूलिप्रक्षेपादिना पुनरात्मनो मलिनतामापादयन्ति। अपि च- आचरणं विना शुष्कज्ञानं भारभूतं भवति। यथा- दुर्भाग्यवत्याः स्त्रियः आभरणैः शोभा न वर्धते, केवलं भारवत्त्वमेव तथा।
🌼
[दुर्भगाधृताभरणैः पत्यादिमनोरञ्जनाऽभावाद् भारवत्तत्सर्वं तस्याः क्लेशप्रदमेव । यथा नानाभरणभूषिताऽपि खलु वन्ध्या, दुष्टा कुरूपा वा स्त्री न शोभते, न वा सा पत्युर्मनः प्रीणाति, एवं ज्ञानवानपि तदुक्ताचारशून्यो नैव शोभते, इत्याशयः । अत्र प्रायश्शब्दो बाहुल्येऽव्ययम्। अकारान्तो वा प्रायशब्दः पुंसि । दुर्भगाया भरणं पालन, तत्तुल्यं निष्फलमिति वाऽर्थः।]☘
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.19🌺
🌷
मूलम्-
नदीनां शस्त्रपाणीनां नखिनां शृङ्गिणां तथा ।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥१.१९॥
🌻
पदविभागः-
नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा । विश्वासः न एव कर्तव्यः स्त्रीषु राज-कुलेषु च ॥१.१९॥
🌼
अन्वयः-
नदीनां, शस्त्र-पाणीनां, नखिनां, शृङ्गिणां, तथा स्त्रीषु, राज-कुलेषु च विश्वासः न एव कर्तव्यः ॥१.१९॥
🍀
प्रतिपदार्थः-
नदीनाम् = आपगानाम् ; शस्त्रपाणीनां = गृहीत-शस्त्राणाम् ; नखिनां = नखायुधानां सिंहादीनाम् ; शृङ्गिणां = शृङ्गायुधानां गोवृषभादीनाम् ; स्त्रीषु = युवतिषु ; राजकुलेषु च = राजगृहेषु च, विश्वासः = 'मद्वशगा इमे' इति विसम्भो, नैव कर्त्तव्यः = न विधेय इत्यर्थः ॥१.१९॥
🍁
तात्पर्यम्-
नदीनां, शस्त्रधारकाणां, नखधारि-क्रूरजन्तूनां, शृङ्गधारि-पशूनां, स्त्रीणां, राजकुलानां च उपरि विश्वासः न करणीयः।
☘
(विवरणम्- अत्र स्त्रीणां अविश्वासाय परामर्शं दृष्ट्वा स्त्रीवादिभिः अन्यथा न भावनीया। अत्र विष्णुशर्मा राजकुमारेभ्यः पाठनाय राजभिः आचारणयोग्यान् धर्मान् बोधयति। राजकुलेषु राजपुरुषाणां वशीकरणाय शत्रुपक्षिणः नर्तकीणां, सुन्दरस्त्रीणां प्रयोगं कुर्वन्ति (चाणक्यः अर्थशास्त्रे एनं विषयं विशदयति)। अतः तादृग्भिः स्त्रीभिः स्वस्य, देशस्य च रक्षा करणीया, नो चेत् ताः आगत्य, मनः भ्रामयित्वा रक्षणव्यवस्थारहस्यान् ज्ञात्वा शत्रुपक्षिभ्यः तत् सर्वं प्रकाशयेयुरिति मात्रमेवात्र ग्रहणीयम्। एतत् न सामान्यस्त्री-गृहिण्यादीनां विषये उच्यते।)💥
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.20🌺
🌻
मूलम्-
सर्वस्य हि परीक्ष्यन्ते स्वभावो नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥१.२०॥
🌷
पदविभागः-
सर्वस्य हि परीक्ष्यन्ते स्वभावः न इतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावः मूर्ध्नि वर्तते ॥१.२०॥
🍁
अन्वयः-
सर्वस्य हि स्वभावः (परीक्ष्यते) न इतरे गुणाः परीक्ष्यन्ते । सर्वान् गुणान् अतीत्य हि स्वभावः मूर्ध्नि वर्तते ॥१.२०॥
🌼
प्रतिपदार्थः-
सकलस्यापि = गुणिनः, निर्गुणस्य वा, स्वभावाः = प्रकृतिः, संस्कारादयः ; इतरे = विद्वत्त्-औदार्य- कुशलत्वादयः गुणाः ; 'न परीक्ष्यन्ते' इति शेषः ; कुत एतदत आह- अतीत्येति ; सर्वान् गुणान् = सल्लक्षणान् ; अतीत्य = अतिक्रम्य ; स्वभावः = प्रकृतिरेव ; मूर्ध्नि = सर्वेषां गुणानामुपरि, वर्तते = प्रभवतीत्यर्थः ॥१.२०॥
🍀
तात्पर्यम्-
सर्वेषां मनुष्याणां स्वभावः परीक्ष्यते। इतरे गुणाः न परीक्ष्यन्ते। सर्वान् गुणान् अतिक्रम्य स्वभावः शिरःस्थायी विराजते।💥
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.21🌺
🌷
मूलम्-
स हि गगनविहारी कल्मषध्वंसकारी
दशशतकरधारी ज्योतिषां मध्यचारी ।
विधुरपि विधियोगाद् ग्रस्यते राहुणासौ
लिखितमपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥
🌼
पदविभागः-
सः हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शतकर-धारी ज्योतिषां मध्यचारी । विधुः अपि विधि-योगाद् ग्रस्यते राहुणा असौ लिखितम् अपि ललाटे प्रोज्झितुं कः समर्थः ॥१.२१॥
☘
अन्वयः-
सः (विधुः) हि गगन-विहारी, कल्मष-ध्वंस-कारी, दश-शतकर-धारी, ज्योतिषां मध्यचारी, (अस्ति, तथापि तादृशः) असौ विधुः अपि विधि-योगाद् राहुणा ग्रस्यते । ललाटे लिखितम् अपि प्रोज्झितुं कः समर्थः ॥१.२१॥
🌼
प्रतिपदार्थः-
सः = त्रिलोकीप्रसिद्धः ; गगन-विहारी = आकाश-सञ्चारी ; कल्मष-ध्वंस-कारी = अन्धकार-विनाशकः ; दशशत-कर-धारी = सहस्र-किरणः ; ज्योतिषां = ताराणां ; मध्यचारी = मध्यवर्ती ; असौ विधुरपि = चन्द्रोऽपि ; विधियोगात् = दैवविपर्ययात् ; ग्रस्यते = गृह्यते ; राहुणा = ग्रहविशेषेण ; लिखितं = विधात्रा लिखितम् ; ललाटे = फालभागे ; प्रोज्झितुं = त्यक्तुं, परिहर्तुं, पारं गन्तुं ॥१.२१॥
🌻
तात्पर्यम्-
चन्द्रः आकाशे विहरति, तमः विनाशयति, अनन्तकिरणान् धरति, ताराणां मध्ये भ्रमति। तथापि सः राहुग्रहेण प्रतिगृह्यते। भाग्यं अतिक्रान्तुं कः वा शक्नोति? 💥
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.23🌺
🌷
मूलम्-
वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते ।
सर्वत्रैवं विचारे च भोजनेऽप्यप्रवर्तनम्** ॥१.२३॥
🌸
पदविभागः-
वृद्धनां वचनं ग्राह्यम् आपत्-काले हि उपस्थिते । सर्वत्र एवं विचारे च भोजने अपि अप्रवर्तनम् ॥१.२३॥
☘
अन्वयः-
वृद्धानां वचनं आपत्-काले हि उपस्थिते ग्राह्यम् । सर्वत्र एवं विचारे च भोजने अपि अप्रवर्तनम् ॥१.२३॥
🌹
प्रतिपदार्थः-
ग्राह्यं = स्वीकार्यम् ; आपत्काले = विपत्तिसमये ; उपस्थिते = प्राप्ते सति ; सर्वत्र = सर्वेषु कार्येषु ; एवं विचारे = वृद्धवचनानुसारेणैव सुविचार्यैव प्रवृत्तौ तु ; अप्रवर्तनम् = अप्रवृत्तिः स्यादित्यर्थः ; 'विचारेणेति पाठान्तरम् ॥१.२३॥
🍁
तात्पर्यम्-
यदा विपत्तिः सम्भवति, तदा एव ज्येष्ठानाम् उपदेशकथनानुसारम् आचरणीयम्। अन्यथा- ‘यत्रकुत्रचित् तेषाम् उपदेशनेनैव कार्ये प्रवर्ते’ इति विचिन्तनेन भोजनमपि न खादेत्॥ [**अस्मात् वाक्यात् पूर्वं “कपोतः सदर्पमाह”- इत्यस्ति। दर्पस्यात्र सन्दर्भः। अतः दर्पवन्तः एवं विचिन्तयन्ति इति यावत् ग्राह्यमत्र।]🌻
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.26🌺
🌷
मूलम्-
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः ।
छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः ॥१.२६॥
🌸
पदविभागः-
सुमहान्ति अपि शास्त्राणि धारयन्तः बहुश्रुताः । छेत्तारः संशयानां च क्लिश्यन्ते लोभ-मोहिताः ॥१.२६॥
🌻
अन्वयः-
(ये) बहुश्रुताः, सुमहान्ति अपि शास्त्राणि धारयन्तः, संशयानां छेत्तारः च, (ते) लोभ-मोहिताः (सन्तः) क्लिश्यन्ते ॥१.२६॥
🌼
प्रतिपदार्थः-
सुमहान्ति शास्त्राणि = सर्व-संशय-उच्छेदकानि, सुगूढ-तत्त्वानि, यानि च पठित्वा उत्कृष्टं ज्ञानं लभ्यते जनः ; धारयन्तः = बुद्ध्या अर्थम् अवबोधितवन्तः ; बहुश्रुताः = व्यवहार-पटवो, नीति-विदश्च, ज्ञानवन्तः ; संशयानां = पर-सन्देहानां ; छेत्तारः = निराकरिष्णवः, ये परिष्कुर्वन्ति ; लोभमोहिताः = लोभात् मोहे पतिताः ; क्लिश्यन्ते = दुःखम् अनुभवन्ति इत्यर्थः ॥१.२६॥
🍁
तात्पर्यम्-
उत्कृष्टानि ,अत्युत्तमानि च शास्त्राणि अधीतवन्तः, पण्डिताः, ये परेषां स्वेषां च सन्देहानां निराकरणे समर्थाः सन्तः- ते अपि लोभकारणात् मोहिताः भवन्ति। अनेन मोहेन कष्टेषु पतन्ति च [अस्यार्थः- लोभात् जायमानात् मोहात् पतनात् च जागरूकतया भवितव्यमित्येव। शास्त्राध्ययनं त्यक्तव्यमिति न। यदि पण्डिताः एव लोभात् विभ्रमे पतन्ति, तत्र का वा सामान्यानां वार्ता? ]॥१.२६॥☀
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.27🌺
🌷
मूलम्-
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते ।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ॥१.२७॥
🌻
पदविभागः-
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभात् मोहः च नाशः च लोभः पापस्य कारणम् ॥१.२७॥
🍁
अन्वयः-
लोभात् क्रोधः प्रभवति। लोभात् कामः प्रजायते । लोभान् मोहः च नाशः च (भवतः)। लोभः पापस्य कारणम् (भवति)॥१.२७॥
🌹
प्रतिपदार्थः-
लोभात् = पर-द्रव्ये अभिलाषायाः ; प्रभवति = प्रवर्त्तते, प्रवर्द्धते च ; प्रजायते = उत्पद्यते, प्रवर्द्धते च ;
लोभात्- मोहश्च, नाशश्च । 'उपजायते' इति शेषः । अतो लोभः पापस्य कारणमित्यर्थः ॥१.२७॥
🌼
तात्पर्यम्-
लोभस्य कारणेन किं किं प्रवर्धते इति उच्यते-- (लोभस्यासम्पूर्तौ) क्रोधः, (लोभस्य सन्तुष्टौ) कामः, मोहश्च जायेते। तेन पापं च प्रभवति। (पापमयं जीवनं भवति।) ॥१.२७॥🌸
🌷
मूलम्-
असम्भवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय ।
प्रायः समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति ॥१.२८॥
🌸
पदविभागः-
असम्भवं हेममृगस्य जन्म तथापि रामः लुलुभे मृगाय । प्रायः समापन्न-विपत्ति-काले धियः अपि पुंसां मलिनाः भवन्ति ॥१.२८॥
🍀
अन्वयः-
हेममृगस्य जन्म असम्भवम्। तथापि रामः मृगाय लुलुभे । प्रायः समापन्न-विपत्ति-काले, पुंसां धियः अपि मलिनाः भवन्ति ॥१.२८॥
🌻
प्रतिपदार्थः-
हेममृगस्य = स्वर्णमृगस्य ; जन्म = उत्पत्तिः ; असम्भवम् = सम्भावनाविषयीभूतमपि न भवति ; तथापि रामः = सकल-ज्ञान-निधिः भगवान् दाशरथिः अपि ; मृगाय = स्वर्ण-मृगम् आदातुं ; लुलुभे = लोभमकरोत् ; प्रायः = बाहुल्येन ; समापन्न-विपत्ति-काले ~ समापन्नाः = सन्निहताः, आपतिताः, या विपदः, तासां कालः = समयः, तस्मिन् ; पुंसां = पुरुषाणां, मनुष्याणां ; धियः अपि = बुद्धयः अपि ; मलिनाः = मलाविलाः, मलेन कुण्ठिताः ; भवन्ति = जायन्ते ; 'इति तर्कयामी'ति शेषः ॥१.२८॥
🌼
तात्पर्यम्-
‘स्वर्णः मृगः लोके कुत्रचिदपि न भवितुमर्हति’ इति जानन्नपि साक्षात् पुरुषोत्तमः श्रीरामः अपि (मारीचधृत)काञ्चनं मृगरूपं दृष्ट्वा तं प्राप्तुम् अकामयत। बहुधा एवं भवति- आपत्सु समापन्नेषु जनानां बुद्धयः अपि भ्रान्ताः भवन्ति। 🌹
(अतः विपत्तौ प्राप्ते सति जागरूकतया भवितव्यम्। यत्र धीरपि प्रमाद्यते, तत्र अन्यचित्तवृत्तीनां किं वा कथनम्? निर्णयकरणसमये अत्यन्तं विचक्षणैः भवितव्यम्- इति तात्पर्यम्। न पुनः श्रीरामस्य विमर्शनमत्रार्थः।) ॥१.२८॥🍃
🙏हितोपदेश-सुभाषित-श्लोकाः - 1.29🌺
☘
मूलम्-
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् ।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते ॥१.२९॥
🌹
पदविभागः-
न गणस्य अग्रतः गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्य-विपत्तिः स्यात् मुखरः तत्र हन्यते ॥१.२९॥
🌻
अन्वयः-
गणस्य अग्रतः न गच्छेत् । कार्ये सिद्धे (सति) समं फलम् (प्राप्यते) । यदि कार्य-विपत्तिः स्यात्, तत्र मुखरः हन्यते ॥१.२९॥
🌺
प्रतिपदार्थः-
गणस्य = सङ्घस्य, समूहस्य, वर्गस्य ; अग्रतः = अग्रे, सर्वस्मात् पुरतः ; कार्ये = कर्त्तव्ये कर्मणि ; सिद्धे = निष्पन्ने सति, सफलत्वे प्राप्तौ सति ; समं = तुल्यं, समानं ; कार्यविपत्तिः = कार्यहानिः, असाफल्यम् ; मुखरः = अग्रणीः, प्रवर्त्तकश्च, नायकः ; हन्यते = वध्यते ; ॥१.२९॥
🌷
तात्पर्यम्-
न कदापि समूहे सर्वेभ्यः अग्रे भवितव्यम्। कार्ये सफलत्वं प्राप्ते सति तु (समूहसदस्यानां नायकस्य च) सर्वेषामपि फले समानता भवति। परन्तु कार्यनाशे तु अग्रे विद्यमानस्य नायकस्यैव क्षतिः न तु इतरेषाम्।🌼
[अत्र पक्षिणां प्रसङ्गः। ‘कदापि तथा अग्रे मा गच्छतु’ इति न अस्यार्थः। अग्रे गमनस्य परिणामान् मनसि निधाय प्रवर्ततामिति, यदि धैर्यमस्ति, तथैव गच्छतु इति वा भावना।] ॥१.२९॥🌸
मूलम्-
आपदां कथितः पन्था इन्द्रियाणामसंयमः ।
तज्जयः सम्पदां मार्गो, येनेष्टं तेन गम्यताम् ॥१.३०॥
🌿
पदविभागः-
आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः । तत्-जयः सम्पदां मार्गः येन इष्टं तेन गम्यताम् ॥१.३०॥
🌸
अन्वयः-
इन्द्रियाणाम् असंयमः आपदां पन्थाः कथितः । तत्-जयः सम्पदां मार्गः येन इष्टं तेन गम्यताम् ॥१.३०॥
🌹
प्रतिपदार्थः-
इन्द्रियाणाम्= चक्षुरादीनाम् ; असंयमः = अनिग्रहः ; आपदां = विपदां, दुःखस्य च ; पन्थाः = मार्गः ; कथितः = (नीतिविद्भिः) प्रोक्तः ; तज्जयः = इन्द्रियाणां जयः, इन्द्रिय-निग्रहश्च ; सम्पदां= सम्पत्तीनां, कल्याणस्य च, ; मार्गः = पन्थाः ; येन = येन पथा ; इष्टम् = अभीष्टसिद्धिः ; तेन गम्यताम् = तदनुस्रियताम् ; यद्वा- येन इष्टं = सुखं भवेत्, तेन = इन्द्रियजयमार्गेण, गम्यतामित्यर्थो बोध्यः ॥१.३०॥
✨
तात्पर्यम्-
कर्म-ज्ञानेन्द्रियाणाम् अनियन्त्रणं विपत्तीनां मार्ग इति (बुधैः) कथितः। इन्द्रियाणां जयः तु सम्पत्तीनां मार्गः। येन मार्गेण गन्तुमिच्छसि, तेन गच्छतु। (यदि विपत्तय इष्टाः, तर्हि पूर्वस्मिन् मार्गे गच्छतु। यदि सम्पत्तय इष्टाः तर्हि परस्मिन् मार्गे गच्छतु। परिणामस्तु तव पुरतः वर्तते।)॥१.३०॥🔆
🌷
मूलम्-
आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥१.३१॥
🌸
पदविभागः-
आपदाम् आपतन्तीनां हितः अपि आयाति हेतुताम् । मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥१.३१॥
🌼
अन्वयः-
आपतन्तीनाम् आपदां हितः अपि हेतुताम् आयाति । मातृजङ्घा हि वत्सस्य बन्धने स्तम्भीभवति ॥१.३१॥
🍁
प्रतिपदार्थः-
आपतन्तीनाम् = आगच्छन्तीनाम् ; हितः = हितकारकः, प्रियोऽपि ; हेतुतां = कारणताम् ; आयाति = प्राप्नोति, आगच्छति वा ; हि = यतः ; मातृजङ्घा = मातुः, गोः जङ्घा = पादाग्रभागः, काण्डम् ; वत्सस्य = स्वबाल-वत्सस्य ; स्तम्भी-भवति = गोदोहनकाले तत्र प्रायो वत्सस्य बन्धनाद् वत्सबन्धनस्तम्भतां याति । बन्धनोपकरण-शङ्कुभावं भजतीत्यर्थः ॥१.३१॥
🌺
तात्पर्यम्-
जीवने या विपत्तयः आगच्छन्ति, तेषां पृष्ठे कारणं हितमपि भवितुमर्हति, अर्थात् हितमपि तत्र विपदि कारणं भवति। अत्रोपन्यासः- गोः दुग्धनिःसारणे वत्सः विघ्नमुत्पादयतीति मत्वा सः धेनोः पादेन रज्ज्वा बध्यते। तदानीं मातुः पादः अपि वत्साय स्तम्भस्य कारणं भवति, गमनरोधनस्य च॥१.३१॥💥
मूलम्-
स बन्धुर्यो विपन्नानामापदुद्धरणक्षमः ।
न तु भीतपरित्राणवस्तूपालम्भपण्डितः ॥१.३२॥
🌷
पदविभागः-
सः बन्धुः यः विपन्नानाम् आपद्-उद्धरण-क्षमः । न तु भीत-परित्राण-वस्तु-उपालम्भ-पण्डितः ॥१.३२॥
🌼
अन्वयः-
यो विपन्नानाम् आपद्-उद्धरण-क्षमः सः बन्धुः । भीत-परित्राण-वस्तु-उपालम्भ-पण्डितः न तु ॥१.३२॥
🌸
प्रतिपदार्थः-
यो विपन्नानां = विपद्-ग्रस्तानाम् ; आपदुद्धरणे = विपत्तिनिरासे, आपदः अपाकरणे ; क्षमः = शक्तः, स एव बन्धुः = सुबन्धुः ; यस्तु- भीतपरित्राणे = विपन्नस्य रक्षणावसरे, उपालम्भ-पण्डितः = नानाविध-तत्तिरस्कार-वाक्यप्रयोग-विशारदः, यः आक्षेपकर-वाक्यानि, पीडाकर-वचनानि वा वदति, तथा वचने यः कुशलः सः ; न तु = नैव बन्धुः ॥१.३२॥
🌹
तात्पर्यम्-
यः आपदि आपतितायां ततः अस्मान् उद्धर्तुं समर्थः, स एव वास्तवबन्धुः। यः तदकृत्वा पीडाकरवचनैः त्रस्तस्य इतोऽधिक-भयोत्पादने समर्थः, स बन्धुः नास्ति। (आपदि पतितस्य भीतिः वर्धते। तदानीं बन्धुना भयनिष्कासनं कार्यं, न पुनः तद्वर्धक-दुर्वचनप्रयोगः।)॥१.३२॥🎀
मूलम्-
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥१.३३॥
✨
पदविभागः-
विपदि धैर्यम् अथ अभ्युदये क्षमा सदसि वाक्-पटुता युधि विक्रमः । यशसि च अभिरुचिः व्यसनं श्रुतौ प्रकृति-सिद्धम् इदं हि महात्मनाम् ॥१.३३॥
🍁
अन्वयः-
महात्मनाम् इदं हि प्रकृति-सिद्धम्-- विपदि धैर्यम्, अथ अभ्युदये क्षमा, सदसि वाक्-पटुता, युधि विक्रमः, यशसि च अभिरुचिः, श्रुतौ व्यसनम् ॥१.३३॥
💥
प्रतिपदार्थः-
महात्मनां = महापुरुषाणाम् ; इदं प्रकृतिसिद्धं = स्वभाव-सिद्धमेव ; किन्तद् इत्यत आह- विपदीति ; धैर्यं =धैर्यमवलम्ब्य तत्प्रतीकार-चिन्तनम् ; अभ्युदये = सम्पत्तौ ; क्षमा = परानुग्रहः, अभिमानविरहश्च ; सदसि = सभायां वाक्पटुता = वाक्पाटवं, वचनचातुरी ; युधि = युद्धे, विक्रमः = पराक्रमः ; यशसि = कीर्तौ ; इच्छा = अभिलाषः, यशोधनत्वमिति यावत् ; श्रुतौ = शास्त्रे, व्यसनम् = निर्हेतुकोऽनुरागः ॥१.३३॥
🌼
तात्पर्यम्-
कष्टकाले धीरत्वं, अभिवृद्धौ सहनभावः, सभायां वचनसामर्थ्यं, समराङ्गणे पराक्रमः, कीर्तौ काङ्क्षा, शास्त्राध्ययने निरन्तरपरिश्रमः --एते सर्वे महाजनानां स्वभावलक्षणानि भवन्ति (एतेषां पृथक् शिक्षणस्य अभ्यासस्य वा आवश्यकता नास्ति महात्मनामिति यावत्) ॥१.३३॥🌿
मूलम्-
सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥१.३४॥
🌷
पदविभागः-
सम्पदि यस्य न हर्षः विपदि विषादः रणे च भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥१.३४॥
💥
अन्वयः-
यस्य सम्पदि न हर्षः, विपदि विषादः (न), रणे च भीरुत्वं (न), तं भुवन-त्रय-तिलकं सुतं जननी विरलं जनयति ॥१.३४॥
🌸
प्रतिपदार्थः-
सम्पदि = अर्थाभिवृद्धौ ; हर्षः = प्रमोदः, गर्वश्च ; विपदि = विपत्तौ, कष्टकाले ; विषादः = दुःखं, वैक्लव्यं ; रणे = समरभूमौ ; धीरत्वम् = धैर्यगुणः ; तम् = अनुत्सिक्तम् अकातरं, निर्भयञ्च ; भुवनत्रय-तिलकं = लोकत्रये रत्नतुल्यम् ; जननी = अम्बा ; सुतं = पुत्रं ; विरलं = कञ्चिदेव, स्वल्पमेव ; जनयति = प्रसूते ; ॥१.३४॥
🔆
तात्पर्यम्-
यः जीवने अभिवृद्धिकाले गर्वं न प्राप्नोति, आपत्काले पीडां नानुभवति, युद्धे धैर्यगुणं न मुञ्चति-- तादृशं पुत्रं माता बहु अल्पं प्रसूते (एतादृशानां जननम् अधिकं न भवति। लोके अल्पसङ्ख्याकास्ते।) ॥१.३४॥🎀
मूलम्-
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥१.३५॥
🌷
पदविभागः-
षड्-दोषाः पुरुषेण इह हातव्याः भूतिम् इच्छता । निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घ-सूत्रता ॥१.३५॥
🌸
अन्वयः-
भूतिम् इच्छता पुरुषेण इह षड्-दोषाः हातव्याः -- (ते एवं सन्ति) निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घ-सूत्रता (चेति) ॥१.३५॥
🍁
प्रतिपदार्थः-
षड्-दोषाः = तत्सङ्ख्याविशेषकाः अपाराधाः ; भूतिम् = अष्टैश्वर्यम् ; इच्छता = वाञ्छता ; पुरुषेण ; हातव्याः = परित्याज्याः ; तन्द्रा = प्रमीला, निद्रेव नीरसभावः ; आलस्यं = अलसत्वं ; दीर्घसूत्रता = चिरक्रियता ; 'दीर्घसूत्रश्चिरक्रियः' इत्यमरः ॥१.३५॥
🌼
तात्पर्यम्-
यः अभिवृद्धिम् आकाङ्क्षति, तेन षट् अपराधा न कार्याः- (अधिक)निद्रा, नीरसभावः, भीतिः, कोपः, अलसत्वं, कार्यातिक्षेपः चेति॥१.३५॥✨
मूलम्-
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥१.३६॥
🌼
पदविभागः-
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । तृणैः गुणत्वम् आपन्नैः बध्यन्ते मत्त-दन्तिनः ॥१.३६॥
🍁
अन्वयः-
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । गुणत्वम् आपन्नैः तृणैः मत्त-दन्तिनः बध्यन्ते ॥१.३६॥
🌹
प्रतिपदार्थः-
अल्पानां = स्वल्पानाम्, निर्बलानामपि ; वस्तूनां = द्रव्याणां ; संहतिः = सङ्घः ; कार्यसाधिका = लक्ष्यसिद्धौ सहायिका ; तृणैः = घासैः ; गुणत्वमापन्नैः = संहत्या रज्जुत्वं प्राप्तैः ; मत्तदन्तिनः = मदोन्मत्ता गजेन्द्रा अपि ; बध्यन्ते = बन्धने स्थाप्यन्ते ॥१.३६॥
🔆
तात्पर्यम्-
अविशेषाणां वस्तूनामपि सङ्घीभवनेन (तेषां ह्रस्वत्वभावः निर्गच्छति, ततश्च) उन्नतं लक्ष्यमपि सुसाध्यं भवति। अत्रोदाहरणम्- मदयुक्ता गजाः (बलवन्तः सन्तः) अपि (अत्यल्पबलयुक्तानां) घासांशानां संयोजनेन या रज्जुः निर्मीयते तया बध्यन्ते॥१.३६॥🌿
🌻
मूलम्--
संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥१.३७॥
🌸
पदविभागः--
संहतिः श्रेयसी पुंसां स्वकुलैः अल्पकैः अपि । तुषेण अपि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥१.३७॥
🥀
अन्वयः--
पुंसां स्वकुलैः अल्पकैः अपि संहतिः श्रेयसी । तुषेण अपि परित्यक्ता तण्डुलाः न प्ररोहन्ति ॥१.३७॥
🌷
प्रतिपदार्थः-
संहतिः = समूहः, सङ्घः ; श्रेयसी = कल्याणप्रदा ; अल्पकैरपि = स्वल्पबलैरपि सह, तुच्छैरपि ; स्वकुलैः = स्ववंश्यैः, तुषेणापि परित्यक्ताः = धान्यत्वचा हीनाः ; तण्डुलाः = धान्यकणाः ; न प्ररोहन्ति = अङ्कुरिता न भवन्ति ॥१.३७॥
🌺
तात्पर्यम्--
मनुष्याणां स्ववंश्य-जनैः सह सङ्घीभावः शुभप्रदः। (सङ्गीभावस्य विरहे का दशा भवतीति उदाहरणमुच्यते) धान्यत्वचा वियुक्तानि तण्डुलबीजानि (पुनः भूम्याम् उप्तानि) न अङ्कुरीभवन्ति। (पुनरुत्पत्तौ असमर्थानि भवन्ति)॥१.३७॥💥
मूलम्--
माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥१.३९॥
🌷
पदविभागः--
माता मित्रं पिता च इति स्वभावात् त्रितयं हितम् । कार्य-कारणतः च अन्ये भवन्ति हित-बुद्धयः ॥१.३९॥
🌼
अन्वयः--
माता मित्रं पिता च इति स्वभावात् त्रितयं हितम् । अन्ये च कार्य-कारणतः हित-बुद्धयः भवन्ति ॥१.३९॥
🌸
प्रतिपदार्थः--
माता = जननी ; पिता = जनकः ; मित्रं = सुहृत् ; स्वभावात् = प्रकृत्यैव ; त्रितयं = एते त्रयः ; हितं = हितकारकम् ; अन्ये तु = एतत्-त्रितयातिरिक्तास्तु ; कार्यकारणतः = कार्यकारण-प्रसङ्गेनैव ; किमपि कार्यं, कारणं वा उद्दिश्यैव ; हितबुद्धयः = हितकारकाः भवन्ति ॥१.३९॥
🌺
तात्पर्यम्--
पितरौ, सखा चेति त्रयः प्रकृत्या श्रेयस्कराः भवन्ति। एतान् विहाय अन्यजनाः यं कमपि लाभं मनसि निधाय शुभचिन्तका भवन्ति॥१.३९॥🌻
मूलम्--
यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥१.४०॥
🌷
पदविभागः--
यस्य मित्रेण सम्भाषः यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापः ततः न अस्ति इह पुण्यवान् ॥१.४०॥
🌼
अन्वयः--
यस्य मित्रेण सम्भाषः, यस्य मित्रेण संस्थितिः, यस्य मित्रेण संलापः (च) ततः पुण्यवान् इह न अस्ति ॥१.४०॥
🌸
प्रतिपदार्थः--
यस्य मित्रेण = सुहृदा सह ; सम्भाषः = आलापः ; संस्थितिः = सहावस्थानम्., सहवासः ; संलापः = मुहुर्मुहः कथा, गोष्ठीबन्धः ; ततः = तदपेक्षया ; इह जगति ; पुण्यवान् = सुकृती ॥१.४०॥
🥀
तात्पर्यम्--
यः नित्यं सख्या आलपते, सह तिष्ठति, वार्तालापरतो भवति, ततः भाग्यवान् नरः न भवति अन्यः ॥१.४०॥🌻