अभिनवनीतिकथासप्ततिः-2

76 views
Skip to first unread message

Kamini Soni

unread,
Apr 7, 2016, 9:46:16 AM4/7/16
to संस्कृते संवदेम

 55.    देवदासस्य वेश्यादानस्य च कथा।

            मधुरापुर्यां समानवयस्कौ विप्रयुवानौ आस्ताम्। तौ सदा सहचरन्तौ परमां मैत्रीं परस्परं उपगतौ। तयोः एकः प्रतिदिवसं देवालयं गत्वा देवं सप्रदक्षिणं नमस्कृत्य स्तवैः तं स्तुवन् देवदास इति प्रथितः अभवत्। अन्यस्तु प्रत्यहं वेश्यागृहं गत्वा तां बहुधा सेवमानः सन् वेश्यादास इति दुष्कीर्तिं अवाप्तवान्। परन्तु देवदासः वेश्यादासं सुखिनं मन्यमानः सदा वेश्यामेव मनसा ध्यायन्नासीत्। वेश्यादासस्तु देवदासं पुण्यपुरुषं मन्वानः सदा देवे दत्तचित्तः अभवत्। एवं गच्छति काले, तौ उभौ ब्राह्मणयुवानौ कालधर्मं उपागतौ। ततः वेश्यादासः स्वर्गं अलभत। देवदासस्तु नरकं प्राप्तः। तद् विज्ञाय लोकोपकारी भगवान् नारदः देवसन्निधिं गत्वा अपृच्छत्-- भगवन् कोऽयं विपर्ययः, यद्देवदासः बन्धे प्रक्षिप्तः, वेश्यादानश्च बन्धाद्विमोचितः।इति। तत् श्रुत्वा भगवान् नारदं सान्त्वयन् अभाषत-- वत्स, नारद, इदं रहस्यं श्रूयताम्। वेश्यादासःबहिः वेश्यापरोऽपि सदा मामेवमनसा ध्यायन्नासीत्। देवदासस्तु बहिः मामेवसेनमानोऽपि सर्वदा वेश्यायां दत्तचित्तः आसीत्। बन्धे मोक्षे च मन एव एव कारणं किल। अतः मयैवं कृतम्।इति। तत् श्रुत्वा नारदः समाहितः गतः॥

            नीतिः– “मन एव मनुष्याणां कारणं बन्धमोक्षयोः॥

Kamini Soni

unread,
Apr 7, 2016, 9:56:53 AM4/7/16
to संस्कृते संवदेम
   "देवदासस्य वेश्यादास्य च कथा"

         


Kamini Soni

unread,
Apr 9, 2016, 1:56:42 PM4/9/16
to संस्कृते संवदेम

56.    स्वेच्छासञ्चारिणः अजस्य कथा।

            कश्चित् अजः स्वेच्छया चरतिस्म। एकदा हलधुरायां नियुक्तं कमपि वृषभं विलेक्य तं अगदत्--अरे वृष, त्वं स्वामिनः कृते स्कन्धे युगं ऊढवायामचतुष्टयेऽपि हलं चालयसि।ततः अहं मन्ये यथा त्वं केऽपि हीनवृत्तिः, अतिभारवाहकः सत्त्वः असि इति। पराधीनतैव ते प्रिया। अन्यथा एवं न कुर्याः। पश्य। कथं अहं कालं नयामि? स्वैरं गच्छामि। शीतलच्छायां अधितिष्ठामि। नृत्यामि। इतस्ततः उत्पतामि। तृषितः सन् अच्छं निर्झरजलं पिबामि।इति। सः उक्षासर्वमपि अवहितमनसा समाकर्णयत्। किञ्चिदपि अनुक्त्वाभूयः हलकर्षणे प्रयुक्तः। ततः कियत्यपि कालेयाते, ग्रामदेवतामुद्दश्य कोऽपि उत्सवः समागतः। तस्मिन् उत्सवदिने तस्य उत्सवदिने तस्य अजस्य स्वामी तं कुसुममालाभिः अलङ्कृत्य देवतायाः उपहारं कर्तुं तम् अनयत्। ततः तस्य ग्रीवायां यावत् सः असिधेनुकां व्यापारयति तावत् स वृषःतत्रागत्य तं रहसि अपृच्छत्--रे मूर्ख, किं अपश्यः तव स्वेच्छासञ्चारस्यफलं? अद्य यावत् ते स्वामी त्वां जीवन्तं रक्षितवानिति यत तत् एतदर्थमेव। अधुना वद, आवयेः कतरस्य अवस्था सधीयसी।इति॥

            नीतिः–“नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण।इति मेघदूते। तस्मात् अन्यं विपद्गतं वीक्ष्यतस्य उपालम्भः न कर्तव्यः॥

Kamini Soni

unread,
Apr 18, 2016, 1:39:09 PM4/18/16
to संस्कृते संवदेम
57. अजस्य व्याघ्रस्य च कथा।
 निदाघे तृषितः कश्चन अजः नदीं गत्वा जलमपिबत्। तदा एकः व्याघ्रः जलं पातुं तत्र समायातः। अथ सः व्याघ्रः तं अजम् दृष्ट्वा तस्य मांसं बुभुक्षुः तं एवम् अवदत्-– “अरे दुष्ट, मया पीयमानं जलं किं एवम् आविलयसि?।” इति। तत् आकर्ण्य भीतः सः अजः एवं अकथयत्-– “भोः व्याघ्र, किं एवम् अकाण्डे कुप्यसि? यत् जलं तव समीपात् वहति तत् अहं पिबामि। एवं स्थिते, कथं तव जलं मया कलुषितं भवेत्?” इति। अथ व्याघ्रः अगदत्-– “अस्तु नाम एतत्। मासानां षट्कात् प्राक् त्वं मां अशवः किल?” इति। अथ अजः प्रतिवदति स्म-– “भोः, जातस्य मम मासानां त्रयमपि न पूर्णम्। तथा सति, षण्मासात् पूर्वं कथं त्वं मया निन्द्यः भवेः?।” इति। तत् श्रुत्वा व्याघ्रः अभणत्-– “तर्हि त्वं तावत् मां न शप्तवान् किन्तु तव पिता तथा कृतवान्। तव पित्रा कृतस्य अपराधस्य कृते त्वं एव दण्डनीयः।” इति। एवं उक्त्वा सः व्याघ्रः तस्य अजस्य उपरि निपत्य तं अहनत्॥
 नीतिः–" दुर्जनैः अध्युषिते प्रदेशे साधुभिः सर्वथा न गन्तव्यम् ll"

Radim Navyan

unread,
Mar 28, 2019, 6:12:09 PM3/28/19
to संस्कृते संवदेम
नमस्ते। 
शेषाः कथाः सन्ति न वा?
धन्यवादाः।


понедельник, 18 апреля 2016 г., 22:39:09 UTC+5 пользователь Kamini Soni написал:

Kamini Soni

unread,
Feb 24, 2022, 11:55:39 AM2/24/22
to samskrte-...@googlegroups.com
सन्ति।

--
You received this message because you are subscribed to the Google Groups "संस्कृते संवदेम" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvad...@googlegroups.com.
To post to this group, send email to samskrte-...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrte-samvadema.
For more options, visit https://groups.google.com/d/optout.
Reply all
Reply to author
Forward
0 new messages