सुभाषितम्
मूलम्-
गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषां ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनां ॥
पदविभागः-
गुरुः बन्धुः अबन्धूनां गुरुः चक्षुः अचक्षुषां । गुरुः पिता च माता च सर्वेषां न्यायवर्तिनां ॥
अन्वयः-
गुरुः अबन्धूनां बन्धुः। गुरुः अचक्षुषां चक्षुः। सर्वेषां न्यायवर्तिनां
गुरुः पिता च माता च ॥
प्रतिपदार्थः-
गुरुः = अध्यापकः, उपाध्यायः, आचार्यः
बन्धुः = ज्ञातिः, स्वजनः
अबन्धूनां = बन्धुविहीनानां, स्वजनरहितानां
चक्षुः = अक्षि, नयनं
अचक्षुषां = चक्षुरहितानां, अक्षिविहीनानां
पिता = जनकः, जन्मदाता
माता = जननी, जनयित्री
सर्वेषां = सर्वजनानां
न्यायवर्तिनां = सन्मार्गगामिनां
तात्पर्यम्-
गुरु बन्धुरहित व्यक्ति के लिए बन्धु होते हैं। जिसकी आँखें नहीं- उसकी गुरु ही आँखें होते है। गुरु ही सभी सन्मार्गगामियों के लिए माता एवं पिता होते हैं।
अध्यापकः अथवा उपाध्यायः बान्धवविहीनानां बन्धुरिव भवति। सः दृष्टिहीनानां दृष्टिः भूत्वा सन्मार्गं दर्शयति। सः सत्पथगामिनां न्यायमार्गावलम्बिनां पितराविव भवति।
प्रश्नाः-
१. गुरुः कस्य बन्धुः भवति?
२. गुरुः अचक्षुषां किं भवति?
३. गुरुः न्यायवर्तिनां किं भवति?
४. ‘न्यायवर्तिनां’शब्दस्य व्युत्पत्तिं दर्शयत।
५. ‘अबन्धूनां’ इत्यत्र कः समासः?
६. अचक्षुषां चक्षुः इत्यस्य कोऽर्थः?
सुभाषितम्
मूलम्-
को न याति वशं लोके मुखं पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरं ध्वनिं ॥
पदविभागः-
कः न याति वशं लोके मुखं पिण्डेन पूरितः । मृदङ्गः मुखलेपेन करोति मधुरं ध्वनिं ॥
अन्वयः-
लोके कः मुखं पिण्डेन पूरितः वशं न याति? मृदङ्गः मुखलेपेन मधुरं ध्वनिं करोति
॥
प्रतिपदार्थः-
लोके = जगति ;
मुखं = मनुष्यपक्षे– आस्यं, मृदङ्गपक्षे– ध्वनये ताडनस्थानं ;
पिण्डेन = मनुष्यपक्षे– अन्नकवलेन, मृदङ्गपक्षे– आर्द्रपिष्टेन ;
पूरितः = भरितः ;
वशं = अधीनं ;
न याति = न भवति;
मृदङ्गः = सङ्गीते वाद्यवस्तु लयकारकः ;
मुखलेपेन = मुखस्य अवलेपनेन ;
मधुरं = श्रोतुं सुन्दरं, श्रवणसुखकरं ;
ध्वनिं करोति = शब्दं करोति;
तात्पर्यम्-
इस जगत में, कौन पिण्ड मुख को देने से अपने वश नही होता? पिण्ड लगाने से मृदङ्ग भी अच्छी ध्वनि करता है। (पिण्ड का अर्थ- मनुष्य के पक्ष में अन्न का निवाला है। और यहाँ मृदङ्ग के पक्ष में उस के बजाने के स्थान पर लेपन करने वाले आटे की घोल से है)
लोके कः मनुष्यः अन्नकवलेन दानेन दातुः अधीनो न भवति? मृदङ्गः अपि पिण्डेन (=आर्द्र-पिष्टस्य-लेपनेन) पूरितः सन् सुन्दरं शब्दं करोति, मधुरं ध्वनति।
प्रश्नाः-
१. लोके मनुष्यः कथं वशं याति?
२. मृदङ्गः कथं मधुरं ध्वनति?
३. अत्र पिण्डशब्दस्य कौ अर्थौ?
४. ‘मुखलेपेन’ इत्यत्र कः समासः?
सुभाषितम्
मूलम्-
महाजनस्य संसर्गः कस्य नोन्नतिकारकः।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम्॥
पदविभागः-
महाजनस्य संसर्गः कस्य न उन्नति-कारकः। पद्मपत्र-स्थितं तोयं धत्ते मुक्ताफल-श्रियम्॥
अन्वयः-
महाजनस्य संसर्गः कस्य न उन्नति–कारकः। पद्मपत्र–स्थितं तोयं मुक्ताफल-श्रियम्
धत्ते ॥
प्रतिपदार्थः-
महाजनस्य = सत्पुरुषस्य ;
संसर्गः = परिचयः, सम्बन्धः ;
कस्य = कस्य नरस्य ;
उन्नति–कारकः न = वृद्धिः-समृद्धि-उदय-कारणं ;
पद्मपत्र–स्थितं = कमलदले विद्यमानं ;
तोयं = जलं ;
मुक्ताफल-श्रियं = मोक्तिकसौन्दर्यं ;
धत्ते = धरति ;
तात्पर्यम्-
सज्जनों के साथ सम्पर्क रखना किस व्यक्ति का प्रगतिकारक नहीं होता? (सभी का होता है) कमल के पत्ते पर स्थित पानी की बूंद मोती के समान सुन्दर लगता है।
सज्जनैः सख्यं कस्य अभ्युदयं न कारयति? (सर्वस्य कारयति) कमलदले वर्तमानः जलबिन्दुः मौक्तिकवत् प्रकाशसौन्दर्यादिकं भजते।
प्रश्नाः-
१. कः उन्नतिकारकः?
२. केन सह संसर्गः किं करोति?
३. किं मुक्ताफल-श्रियं धत्ते?
४. ‘पद्मपत्रस्थितं’ इत्यत्र कः समासः?
५. ‘मुक्ताफलश्रियं’ इत्यत्र कः समासः?
६. ‘उन्नतिकारकः’ इत्यत्र कः समासः?
मूलम्-
असतोऽपि भवति गुणवान् सद्भ्योऽपि परं भवन्त्यसद्वृत्ताः।
पङ्कादुदेति कमलं क्रिमयः कमालादपि भवन्ति॥
पदविभागः-
असतः अपि भवति गुणवान् सद्भ्यः अपि परं भवन्ति असद्वृत्ताः। पङ्काद् उदेति कमलं क्रिमयः कमालाद् अपि भवन्ति॥
अन्वयः-
असतः अपि गुणवान् भवति। सद्भ्यः अपि परं असत्–वृत्ताः भवन्ति। पङ्काद् कमलं
उदेति। क्रिमयः कमालाद् अपि भवन्ति॥
प्रतिपदार्थः-
असतः अपि = दुर्जनादपि ;
गुणवान् = सद्गुणशीलः, सज्जनः, सुगुणयुक्तः ;
भवति = जायते ;
सद्भ्यः अपि = सज्जनेभ्योऽपि, सत्पुरुषेभ्योऽपि ;
परं = किन्तु ;
असत्–वृत्ताः = दुष्टाः, दुर्गुणशीलाः, दुर्जनाः ;
पङ्काद् = (मृत्-जल-मिश्रित-कलुषस्थानात्), कर्दमात्, जम्बालात् ;
कमलं = पद्मं, पङ्कजं ;
उदेति = प्रभवति, उत्पद्यते ;
क्रिमयः = सूक्ष्मजीविनः, कीटादि-अल्पप्राणिनः, क्षुद्रजन्तवः ;
कमालाद् अपि = पद्मात् अपि ;
भवन्ति = जायन्ते, प्रभवन्ति ;
तात्पर्यम्-
दुर्जनों के मध्य से सज्जन हो सकते हैं और सज्जनों के बीच से ही दुष्टलोग। (जैसे-) कीचड में से भी कमल खिलता है, और उस कमल से भी कीटाणु निकलते हैं।
दुर्जनेभ्यः सज्जनो जायते कदाचित्। क्वचित् सज्जनेभ्योऽपि दुष्टः उत्पद्यते। (यथा-) कर्दमात् (अशुचिस्थानात्) पद्मं विकसति, तस्मात् पद्मात् एव कीटाणवः जायन्ते।
प्रश्नाः-
१. कुतः गुणवान् भवति?
२. सद्भ्योऽपि के भवन्ति?
३. क्रिमयः कुतो जायन्ते?
४. ‘भवन्त्यसद्वृत्ताः’ इत्यत्र कः सन्धिविच्छेदः?
५. ‘पङ्कादुदेति’ इत्यत्र कः सन्धिविच्छेदः?
६. ‘असद्वृत्ताः’ इत्यत्र कः समासः?
सुभाषितम्-
मूलम्-
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ –पञ्चतन्त्रम् ४.४८
पदविभागः-
आत्मनः मुखदोषेण बध्यन्ते शुक-सारिकाः । बकाः तत्र न बध्यन्ते मौनं सर्वार्थ-साधनम् ॥
अन्वयः-
शुक-सारिकाः आत्मनः मुखदोषेण बध्यन्ते । बकाः तत्र न बध्यन्ते। मौनं
सर्वार्थ-साधनम् ॥
प्रतिपदार्थः-
आत्मनः = स्वस्य, स्वीयः ;
मुखदोषेन = वाचा आचरित दोषेन, अनुचितस्थाने संवादनेन ;
शुक-सारिकाः = पक्षिविशेषाः ;
बकाः = पक्षिविशेषाः ;
बध्यन्ते = बन्धनस्थानं यान्ति, जाले, वागुरायां वा पतन्ति ;
मौनं = तूष्णीं स्थितिः ;
सर्वार्थ-साधनम् = समस्त-प्रयोजन-सिद्धिकरं ;
तात्पर्यम्-
अपने मुँह (बन्द न रखने) के दोष के कारण तोता-कोयल आदि पक्षियाँ फँस जाते हैं। पर बगला कभी नही फँसता। (सही समय पर) मौन रहना सभी प्रयोजनों को सिद्ध करता है।
शुक-पिकादि-पक्षिणः (अनुचितस्थलेषु) स्वमुखोद्घाटनवशात् (ध्वनिकरणेन) बन्धनं यान्ति। बकस्तु (तूष्णीं तिष्ठतीति कारणेन) कदाचिन्न बन्धे पतति। अतः तूष्णींस्थितिः (=वाग्व्यापारराहित्यं) सर्वत्र (यत्रकुत्रचित् रहः व्यवहारः, गूढत्वं चापेक्ष्येते तत्र) प्रयोजनानि साधयति।
प्रश्नाः-
१. शुकाः कुतः बध्यन्ते?
२. बकाः कुतो न बध्यन्ते?
३. किं सर्वाथसाधकं भवति?
४. ‘मुखदोषेण’ इत्यत्र कः समासः?
५. ‘सर्वाथसाधकं’ इत्यत्र कः समासः?
६. अनेन सुभाषितेन किं ज्ञायते? (ऊहया लिखत)
सुभाषितम्
मूलम्-
रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥ –नीतिशतकम्, भर्तृहरिः
पदविभागः-
रत्नैः महार्हैः तुतुषुः न देवाः न भेजिरे भीमविषेण भीतिं । सुधां विना न प्रययुः विरामं न निश्चितार्थात् विरमन्ति धीराः ॥
अन्वयः-
देवाः महार्हैः रत्नैः न तुतुषुः। भीमविषेण भीतिं न भेजिरे। सुधां विना विरामं
न प्रययुः। धीराः निश्चितार्थात् न विरमन्ति ॥
प्रतिपदार्थः-
देवाः = द्युर्लोकवासिनः ;
महार्हैः = अमूल्यैः ;
रत्नैः = तन्नामविशिष्टैः मणिभिः ;
न तुतुषुः = न तृप्ता अभवन् ;
भीमविषेण = भयानक-गरलेन, हालाहलेन ;
भीतिं = भयं ;
न भेजिरे = न प्राप्नुवन् ;
सुधां = अमृतम् ;
विना = रहितं ;
विरामं = अवसानं, विघ्नः ;
न प्रययुः = न प्राप्नुवन् ;
धीराः = धैर्यशालिनः, स्थिरचित्ताः ;
निश्चितार्थात् = कृतात् सङ्कल्पात् ;
न विरमन्ति = निवर्तन्ते (पृथकग्गच्छन्ति) ;
तात्पर्यम्-
अति मूल्यवान रत्नों के ढेर मिलने पर देवगण संतुष्ट न हुए, या भयंकर विष निकलने पर वे डरे नहीं; अमृत न मिलने तक वे रुके नहीं (डँटे रहे) । उसी तरह, धीर व्यक्ति निश्चित किये कामों में से पीछे नहीं हटते ।
द्युलोकवासिनः देवताः अमूल्यमणिभिः न सन्तोषमलभन्त। ते घोरगरलेन (हालाहालेन) न भीताः। यावत् पीयूषं न प्राप्नुवन्, तावत् प्रयत्नं नात्यजन्। सङ्कल्पितेभ्यः कार्येभ्यः धैर्यशालिनो नराः न निवर्तन्ते (पृथकग्गच्छन्ति)।
प्रश्नाः-
१. के कैः न तुतुषुः?
२. केन भीतिं न भेजिरे?
३. के तस्मात् न विरमन्ति?
४. ‘निश्चितार्थात्’ इत्यत्र कः समासः?
५. ‘भेजिरे’ इत्यस्य व्युत्पत्तिं (शब्दनिर्मितिं) वदत।
६. ‘तुतुषुः’ इत्यस्य व्युत्पत्तिं (शब्दनिर्मितिं) वदत।
मूलम्-
साक्षराः विपरीताश्चेद्राक्षसा एव केवलम्।
सरसो विपरीतश्चेत् सरसत्वं न मुञ्चति॥
पदविभागः- अन्वयः-
साक्षराः विपरीताः चेत् राक्षसाः एव केवलम्। सरसः विपरीतः चेत् सरसत्वं न
मुञ्चति॥
प्रतिपदार्थः-
साक्षराः = अक्षरलेखनज्ञानिनः ;
विपरीताः = विरुद्धक्रमाः, विपर्ययाः ;
चेत् = यदि ;
राक्षसाः एव = दानवाः ;
केवलम् = मात्रम् ;
सरसः = सरलः, रसयुक्ताः ;
सरसत्वं = सरलत्वं, रसयुक्ततां ;
न मुञ्चति = न त्यज्यति ;
तात्पर्यम्-
अक्षराणां विपर्यस्तविन्यासेन अर्थगौरवं वर्णयति पद्यमिदम्। साक्षराः यदि विपरीतमाचरन्ति, (स्वेषामक्षरज्ञानस्य दुरुपयोगं कुर्वन्ति), तर्हि (विपरीताचरणेन अन्याय्येन यस्य हानिर्जाता, तस्मै) ते राक्षसाः (क्रूराः,दुष्टाः) भवन्ति। किन्तु सरसो विपरीत अपि (शब्दक्रमस्य विपर्यासेनापि) सरस एव भवति। (सरसः व्यक्तिः कदाचित् स्वस्य स्वभावं) रसयुक्तत्वं न मुञ्चति।)
साक्षर (लोग जो अक्षरज्ञान रखते हैं) वो क्रम विरुद्ध होकर (विपरीताचरण से) राक्षस (बुरे लोग) बन जाते हैं। पर सरस व्यक्ति विपरीतक्रम वाला होकर भी सरसत्व नहीं छोड़ता। (वो हर स्थिति में सरस रहता है।)
प्रश्नाः-
१. साक्षराः विपरीताः किं भवन्ति?
२. कः सरसत्वं न मुञ्चति?
३. ‘विपरीत’शब्दस्य कोऽर्थः?
४. अस्य पद्यस्य तात्पर्यं स्वशब्दैः वर्णयत।
सुभाषितम्-
मूलम्-
अपमानितोऽपि कुलजो न वदति परुषं स्वभावदाक्षिण्यात्।
न हि मलयचन्दनतरुः परशुप्रहतः स्रवेत् पूयम्॥
पदविभागः-
अपमानितः अपि कुलजः न वदति परुषं स्वभाव–दाक्षिण्यात्। न हि मलय–चन्दनतरुः परशुप्रहतः स्रवेत् पूयम्॥
अन्वयः-
अपमानितः अपि कुलजः स्वभाव–दाक्षिण्यात् परुषं न
वदति। मलय–चन्दनतरुः परशुप्रहतः पूयम् न हि स्रवेत्॥
प्रतिपदार्थः-
अपमानितः अपि = पराभूतः ;
कुलजः = सत्कुले उत्पन्नः ;
स्वभाव–दाक्षिण्यात् = प्रकृतिसिद्ध-लब्ध-अनुकूलता-गुणवशात् ;
परुषं = मनःपीडाकरवचनं, निष्ठुरवाक्यं ;
न वदति = न ब्रवीति ;
मलय–चन्दनतरुः = मलयनामके पर्वते स्थितःवृक्षविशेषः ;
परशुप्रहतः = कुठारेण आहतः, ताडितः ;
पूयम् = दुर्गन्धं ;
न हि = नैव ;
स्रवेत् = निःसारयेत्, दद्यात् ;
तात्पर्यम्-
पराभूतः अपि सत्कुले जातः पुरुषः निष्ठुरवाक्यानि सहजसिद्धदयाभावात् न वदति । मलयगिरौ चन्दनतरुः कुठारेण आहतः अपि दुर्गन्धं न प्रसरति (सुगन्धमेव प्रसरति)॥
अच्छे परिवार का व्यक्ति अपना पराभव होने पर भी कठिन शब्द नही कहता। मलयपर्वत पर स्थित चन्दन वृक्ष फरसे से मारने पर भी दुर्गन्ध नहीं (सुगन्ध ही) देता है।
प्रश्नाः-
१. कः कदा परुषं न वदति?
२. सः कुतः परुषं न वदति?
३. चन्दनतरुः कुत्र वर्तते?
४. चन्दनतरुः कदा किं न स्रवेत्?
५. ‘परशुप्रहतः’ इत्यत्र कः समासः?
६. ‘कुलजः’ इति शब्दस्य व्युत्तिं वदत।
सुभाषितम्
मूलम्-
आशाया कृतदासो यः स दासः सर्वदेहिनां ।
आशा दासीकृता येन तस्य दासायते जगत् ॥
पदविभागः-
आशाया कृतदासः यः सः दासः सर्वदेहिनां । आशा दासीकृता येन तस्य दासायते जगत् ॥
अन्वयः-
आशाया कृतदासः यः सः सर्वदेहिनां दासः। आशा दासीकृता येन तस्य जगत् दासायते ॥
प्रतिपदार्थः-
आशाया = दीर्घाकाङ्क्षा, आयता तृष्णा ;
कृतदासः = भृत्यः कारितः ;
यः = यः पुंसः ;
सः = सः पुरुषः ;
सर्वदेहिनां = समस्तप्राणिनां ;
दासः = भृत्यः, सेवकः ;
येन = येन नरेण ;
तस्य = तस्य जनस्य ;
जगत् = संसारः, लोकः ;
दासायते = दासो भवति ;
तात्पर्यम्-
यः पुरुषः अधिकतृष्णां करोति, सः (तृष्णाशान्तये सर्वेभ्यः जीवेभ्यः यत्किञ्चित् वाञ्छति। अतः) सर्वेषां जीवानां दासवत् जीवति। यः दीर्घाकाङ्क्षान् जहाति, सः (कस्यापि दासो न भवति, प्रत्युत) समस्तं जगत् तस्यैव दासो भवति (यतः सः कस्मादपि किमपि नाकाङ्क्षति।)
जो व्यक्ति आशा के द्वारा दास बनाया गया हो, वह समस्त जीवों का दास होजाता है। जो आशा को ही अपना दास बना लेता है, उसका समस्त जगत दास होजाता है।
प्रश्नाः-
१. कः सर्वदेहिनां दासः?
२. आशया दासीकृतस्य किं भवति?
३. ‘दासायते’ इत्यस्य व्युत्पत्तिं वदत।
सुभाषितम्
मूलम्-
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥
पदविभागः-
खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननः अहरत् सीतां बन्धनं तु महोदधेः ॥
अन्वयः-
खलः दुर्वृत्तं करोति । नूनं साधुषु फलति । दशाननः सीतां
अहरत् महोदधेः तु बन्धनम् (अभवत्)॥
प्रतिपदार्थः-
खलः = दुर्जनः ;
दुर्वृत्तं = दुष्कृतं, दुष्टाचरणं ;
करोति = आचरति ;
नूनं = अवश्यम् ;
साधुषु = सज्जनेषु ;
फलति = फलितो भवति, प्रभावो पतति ;
दशाननः = दशकण्ठः, दशग्रीवः, रावणः,
सीतां = जानकीं, रामपत्नीम् ;
अहरत् = अपहरणम् अकरोत् ;
महा-उदधेः तु = समुद्रस्य तु;
बन्धनं = (अत्र) सेतुनिर्माणं ;
तात्पर्यम्-
दुर्जनः दुष्टं कार्यमाचरति, तत्फलं सज्जनेषु आपतति। रावणः सीतां अपाहरत्, किन्तु बन्धनं समुद्रस्य अभवत्। (रामः सीताप्राप्तये लङ्कां गन्तुं समुद्रे सेतुं निर्मितवान्।)
दुर्जन बुरा काम करता है, और फल सज्जनों पर (बिना कोयी अपराध) उसका प्रभाव पड़ता है। रावण ने सीता का हरण किया, और बन्धन पड़ा समुद्र पर. (रावण तक पहुँचने के लिए रामजी ने समुद्र पर बान्ध बनाया था।)
प्रश्नाः-
१. खलः किं करोति?
२. साधुषु किं फलति?
३. बन्धनं कस्य कुतः अभवत्?
४. ‘दुर्वृत्तं’ इत्यस्य कोऽर्थः?
५. ‘महोदधेः’ इत्यत्र कः सन्धिः?
‘फलति साधुषु’ इत्यत्र कथं सप्तमीविभक्तिःमूलम्-
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । (पाठ. गृहिणीचरितानि च)
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ -चाणक्यनीतिः
पदविभागः-
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं च अपमानं च मतिमान्न प्रकाशयेत् ।
अन्वयः-
मतिमान् अर्थनाशं मनस्तापं गृहे दुश्चरितानि च वञ्चनं च अपमानं च न प्रकाशयेत्
।
प्रतिपदार्थः-
मतिमान् = विवेकवान् ;
अर्थनाशं = धनहानिं ;
मनस्तापं = हृदयपीडां ;
गृहे = गेहे ;
दुश्चरितानि च = दुष्टानि आचरितानि ;
वञ्चनं च = प्रतारणं, छलः ;
अपमानं च = पराभवः ;
न प्रकाशयेत् = न बहिः प्रकटयेत् ;
(पाठ. गृहिणीचरितानि = पत्न्याः सम्बन्धिविषयाः)
तात्पर्यम्-
अपने धन का नाश, मन का सन्ताप, घर के (सदस्यों के) बुरे चरित्र, नीच मनुष्य की कही बात और अपना अपमान-- इनको बुध्दिमान मनुष्य किसी के समक्ष प्रकट न करे ॥
विचारशीलः नरः स्वसम्बद्धविषयानां प्रस्तुतिं अन्येषां समक्षे न कुर्यात् । एतान् रहसि स्थापयेत्– आर्थिकहानिः, हृदयपीडा, गेहे स्थितानां सदस्यानां (पत्न्याः च) दुष्टानि आचरितानि, (अन्यैः स्वस्मिन् कृतं) कपटं, अनादरः च।
प्रश्नाः-
१. अर्थनाशो नाम किम्?
२. मतिमान् किं न कुर्यात्?
३. एतेषां बहिः प्रकटनेन किं भवति? (ऊहया लिखत)
४. ‘प्रकाशयेत्’ इत्यस्य शब्दनिर्मितिं वदत।
मूलम्-
गर्वाय परपीडायै दुर्जनस्य धनं बलम्।
सुजनस्य तु दानाय रक्षणाय च ते सदा॥
पदविभागः-
गर्वाय परपीडायै दुर्जनस्य धनं बलम्। सुजनस्य तु दानाय रक्षणाय च ते सदा॥
अन्वयः-
दुर्जनस्य धनं गर्वाय बलम् परपीडायै (च भवतः)। सुजनस्य तु
ते सदा (धनं) दानाय (बलं परेषां) रक्षणाय च (भवतः) ॥
प्रतिपदार्थः-
गर्वाय = औद्धत्याय, अहङ्काराय, मदाय, अभिमानाय ;
परपीडायै = अन्येषां बाधनाय ;
दुर्जनस्य = दुष्टपुरुषस्य ;
धनं = वित्तं ;
बलम् = शक्तिः ;
सुजनस्य तु = सज्जनस्यस सत्पुरुषस्य ;
दानाय = अर्थवितरणाय ;
रक्षणाय च = पालनाय ;
ते = एते ;
सदा = सर्वकालेषु ;
तात्पर्यम्-
दुष्टपुरुषस्य वित्तं सदा अहङ्काराय भवति। तस्य बलं अन्येषां बाधनाय उपयुज्यते। सज्जनानां अर्थः (निर्धनेभ्यः) वितरणाय, शक्तिस्तु अन्येषां पालनाय उपयुज्यते (इति तयोः भेदः)।
दुर्जन का धन अहंकार (बढाने) के लिए, और बल दूसरों को पीडित (या शोषण) करने के लिए होता है। सज्जनों का धन दान देने के लिए एवं बल दूसरों क रक्षा के लिए होता है।
प्रश्नाः-
१. दुर्जनस्य धनं किमर्थं भवति?
२. दुर्जनस्य बलं किमर्थं भवति?
३. सज्जनस्य धनं किमर्थं भवति?
४. सज्जनस्य बलं किमर्थं भवति?
५. ‘परपीडायै’ इत्यत्र कः समासः?
६. ‘गर्वाय’ इत्यत्र केन चतुर्थीविभक्तिः?
मूलम्-
अक्रोधेन जयेत् क्रोधमसाधुं साधुना जयेत् । (पाठ. जयेत् क्रुद्धं)
जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम् ॥ महाभारतम्, उद्योगपर्व
पदविभागः-
अक्रोधेन जयेत् क्रोधम् असाधुं साधुना जयेत् । जयेत् कदर्यं दानेन जयेत् सत्येन च अनृतम् ।
अन्वयः-
अक्रोधेन जयेत् क्रोधम् असाधुं साधुना जयेत् । कदर्यं दानेन
जयेत् सत्येन च अनृतम् जयेत् ।
प्रतिपदार्थः-
अक्रोधेन = क्रोधराहित्येन, शान्त्या ;
जयेत् = नियमितव्यम् ;
क्रोधम् = चित्तस्य तीक्ष्णतां ;
असाधुं = साधुभिन्नं, असच्चरितं, दुष्टं ;
साधुना = उत्तमवृत्त्या ;
कदर्यं = क्षुद्रत्वं, कृपणभावं, धनादिदानभावकराहित्यं ;
दानेन = धनादिवितरणेन ;
सत्येन च = तथ्येन, अवितथेन, यथार्थेन ;
अनृतम् = सत्यभिन्नं, मिथ्यां ;
पाठ. क्रुद्धम् = क्रोधयुक्तं नरम् ;
तात्पर्यम्-
शान्तिभावेन क्रोधं, दुष्टं सज्जनतया, दानविरुद्धबुद्धिं दानकरणेन, मिथ्यां च यथार्थतत्त्वेन नियतितव्यम्।
क्रोध को शान्ति से, बुरे व्यक्ति को अच्छायी से, कन्जूसी को दान करने से, और झूठ को सच्चायी से जीतना चाहिए।
प्रश्नाः-
१. क्रोधं केन जयेत्?
२. कदर्यं नाम किम्?
३. दानेन किं जयेत्?
४. सत्येन किं जयेत्?
५. ‘अक्रोधः’ इत्यस्य कोऽर्थः?
सुभाषितम्
मूलम्-
वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।
धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥ भागवतम् १२.२.२
पदविभागः-
वित्तम् एव कलौ नॄणां जन्म-आचार-गुण-उदयः । धर्म-न्याय-व्यवस्थायां कारणं बलम् एव हि ।
अन्वयः-
कलौ
वित्तम् एव नॄणां जन्म-आचार-गुण-उदयः, बलं धर्म-न्याय-व्यवस्थायां कारणं एव हि (भवति)।
प्रतिपदार्थः-
कलौ = कलियुगे ;
वित्तम् एव = धनम् एव ;
नॄणां = मनुष्याणां ;
जन्म-आचार-गुण-उदयः = उत्पत्तौ, चरित्रे, गुणे च उदयकारणम् ;
बलम् = शक्तिः ;
धर्म-न्याय-व्यवस्थायां = धर्म(कर्तव्य/आचार)-व्यवस्थितौ, नीति-व्यवस्थितौ च ;
कारणं = हेतुः, बीजम् ;
एव हि = तथैव, तथ्यम् ;
तात्पर्यम्-
कलियुगे धनमेव मनुष्याणां जन्मनि, चरित्रे, गुणे च उन्नतिकारणं भवति। कर्तव्याचारादिव्यवस्थितौ शक्तिः एव हेतुः भवति । (धनस्य बलस्य च प्रामुख्यमत्रोच्यते। तत्सामान्यस्थितिरत्र वर्ण्यते। किन्तु धनस्य बलस्य उन्नतिकारणत्वादपि न केनचित् तत् अन्यायमार्गेण, अधर्ममार्गेण वा न लब्धव्यम्। अन्याय्यस्य फलं तु पापं सदा यस्मिन् कस्मिन्नपि युगे तथ्येन भवतीति स्मरणीयम्।)
कलिकाल में मनुष्य का धन ही जन्म, चरित्र, गुणों में उन्नति का कारण होता है। शक्ति ही धर्म न्याय व्यवस्थाओं में (काम चलाने का माध्यम) कारण होता है। [धन एवं बल का प्रामुख्य यहाँ कहा जा रहा है। यह सामान्यस्थितिमात्र का वर्णन है। इसका तात्पर्य ये नही है कि धन को अन्याय या अधर्म मार्ग के द्वारा कमाया जा सकता है। अधर्म का फल पाप तो हर युग में हुआ ही करता है।]
प्रश्नाः-
१. नॄणां वित्तं कलौ किं भवति?
२. वित्तं कुत्र बलं भवति?
३. ‘जन्माचारगुणोदयः’ इत्यत्र कः समासः?
४. ‘धर्मन्यायव्यवस्थायां’ इत्यत्र कः समासः?
सुभाषितम्
मूलम्-
रत्नाकरः किं कुरुते स्वरत्नैः विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डैः मलयाचलः किं परोपकाराय सतां विभूतयः ॥-सुभाषितरत्नभाण्डागारः
पदविभागः-
रत्नाकरः किं कुरुते स्वरत्नैः विन्ध्याचलः किं करिभिः करोति । श्रीखण्डखण्डैः मलयाचलः किं परोपकाराय सतां विभूतयः ।
अन्वयः-
रत्नाकरः
स्वरत्नैः किं कुरुते ? विन्ध्याचलः करिभिः किं करोति ? मलयाचलः श्रीखण्डखण्डैः
किं (करोति ?) सतां विभूतयः परोपकाराय (भवन्ति)।
प्रतिपदार्थः-
रत्नाकरः = समुद्रः ;
स्वरत्नैः = स्वस्य अमूल्यमणिभिः ;
किं कुरुते = किं प्रयोजनं निर्वहति ;
विन्ध्याचलः = तन्नामविशिष्टः पर्वतः ;
करिभिः = गजैः ;
किं करोति = किं कार्यं साध्नोति ;
मलयाचलः = तन्नामविशिष्टः पर्वतः ;
श्रीखण्डखण्डैः = चन्दनशकलैः ;
सतां = सज्जनानां, उत्तमपुरुषाणां ;
विभूतयः = ऐश्वर्याणि ;
परोपकाराय = अन्येषां साहाय्यार्थं ;
तात्पर्यम्-
उदधिः (स्वस्मिन् स्थितैः) रत्नैः किं करोति ? (स्वार्थाय नोपयुङ्क्ते)। विन्ध्याचलः गजैः किमपि प्रयोजनं न साधयति। मलयपर्वताय स्वस्य चन्दनस्य न कोऽपि उपयोगः। उत्तमानां ऐश्वर्याणि अन्येषां प्रयोजनायैव भवन्ति।
समुद्र (अपने में स्थित) रत्नों का क्या करेगा? विन्ध्यपर्वत का हाथियों से क्या काम? मलयपर्वत चन्दनके टुकडों का क्या करेगा? उत्तम जनों की सम्पत्तियाँ दूसरों की सहायता के लिए होती हैं।
प्रश्नाः-
१. कः स्वरत्नैः किं कुरुते?
२. करिभिः कः किं करोति?
३. मलयाचलस्य विभूतिः का?
४. ‘श्रीखण्डखण्डैः’ इत्यत्र कः समासः?
५. सतां विभूतयः किमर्थं भवन्ति?
मूलम्-
सतां हि दर्शनं पुण्यं तीर्थभूताश्च सज्जनाः।
कालेन फलते तीर्थम् सद्यः सज्जनसङ्गतिः॥
पदविभागः-
सतां हि दर्शनं पुण्यं तीर्थभूताः च सज्जनाः। कालेन फलते तीर्थम् सद्यः सज्जन–सङ्गतिः॥
अन्वयः-
सतां
हि दर्शनं पुण्यं तीर्थभूताः च सज्जनाः। कालेन तीर्थम् फलते सज्जन–सङ्गतिः सद्यः
(फलते)॥
प्रतिपदार्थः-
सतां हि = सज्जनानां, उत्तमजनानां ;
दर्शनं = अभ्युपगमनं, समीपं गमनं ;
पुण्यं = पुण्यकरं, शुभादृष्टं, सुकृतं, श्रेयः ;
तीर्थभूताः च = पुण्यस्थल-सदृशाः ;
सज्जनाः = सन्तः पुरुषाः, उत्तमजनाः ;
कालेन = कंचित् कालानन्तरं ;
तीर्थम् = पुण्यस्थानं ;
फलते = लाभं ददाति ;
सज्जन–सङ्गतिः = साधुजनानां संयोगः ;
सद्यः = सपदि, तत्क्षणं ;
तात्पर्यम्-
साधुजनानां दर्शनं सुकृतिकरं भवति। सज्जनाः पुण्यक्षेत्रसदृशाः भवन्ति। पुण्यक्षेत्रसन्दर्शनेन फलं चिरेण लभ्यते। साधुसमागमस्तु सपदि फलं ददाति।
सत्पुरुषों का दर्शन बडा पुण्य देनेवाला होता है। साधुजन पुण्यक्षेत्र की भाँति होते हैं। पुण्यक्षेत्र भी कुछ समय बाद फल देते हैं। परन्तु सज्जनों का समागम तो झट से लाभ देता है।
प्रश्नाः-
१. केषां दर्शनं पुण्यम्?
२. सज्जनाः कीदृशाः?
३. तीर्थं कदा फलति? सद्यः किं फलति?
४. ‘तीर्थभूताः’ इत्यत्र कः समासः?
५. ‘सज्जनसङ्गतिः’ इत्यत्र कः समासः?
६. साधुसमागमेन को लाभः? (स्वशब्दैः वर्णयत।)
--
You received this message because you are subscribed to the Google Groups "संस्कृते संवदेम" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrte-samvad...@googlegroups.com.
To post to this group, send email to samskrte-...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrte-samvadema.
For more options, visit https://groups.google.com/d/optout.
तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः॥यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे विलीयते।ते पुनन्त्युरुकालेन दर्शनादेव साधवः॥ (नारदपञ्चरात्रम्)अस्य श्लोकस्याशयमनुवदन्ति श्लोका इमे -न ह्यम्मयानि तीर्थानि न देवो मृच्छिलामयः।
भूचराः खेचरास्सर्वे ब्रह्मविद्दृष्टिगोचराः।
सद्य एव विमुच्यन्ते कोटिजन्मकृतैरघैः॥ (सूतसंहिता)
सुभाषितम्
मूलम्-
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ -पञ्चतंत्रम्, मित्रसंप्राप्तिः
पदविभागः-
अन्वयः-
ददाति
प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति भुङ्क्ते भोजयते च एव षड्विधं
प्रीतिलक्षणम् ।
प्रतिपदार्थः-
ददाति = वस्तु अन्यस्य आयत्तं करोति, अन्यस्मै अर्पयति ;
प्रतिगृह्णाति = स्वीकरोति, स्वायत्तीकरोति ;
गुह्यम् = रहस्यं, निगूढविषयं ;
आख्याति = वदति, भाषते ;
पृच्छति = ज्ञातुकामो भूत्वा प्रश्नं करोति ;
भुङ्क्ते = खादति ;
भोजयते = अन्नं खादयति, भोक्तुं अन्नं ददाति ;
च एव = अपि च ;
षड्विधं = षट्-प्रकारकं ;
प्रीतिलक्षणम् = मैत्रीभावस्य ;
तात्पर्यम्-
(वस्तूनाम्) अर्पणं, (यदि किञ्चित् दीयते तर्हि) स्वीकरणं, रहस्यविषयस्य (स्वयं) भाषणं, (मित्रं च रहःसम्बन्धि)प्रश्नकरणं, (मित्रगृहे स्वयं) भोजनस्य स्वीकृतिः, (मित्राय) भोजनदानं– इति षट्प्रकारकं लक्षणं मितायाः वर्तते।
देना, स्वीकारना, गुप्त बात बताना, पूछना, खाना, (और) खिलाना – ये छे प्रीति (दोस्ती, मित्रता) के लक्षण हैं ।
प्रश्नाः-
१. अस्मिन् श्लोके कस्य लक्षणमुच्यते?
२. कति विधं तल्लक्षणम्?
३. ‘दानं’ नाम किम्? (स्वशब्दे लिखत)
४. ‘गुह्यम् आख्याति’ इत्यस्य कोऽर्थः? (स्वशब्दे लिखत)
५. ‘षड्विधं’ इत्यत्र कः सन्धिः?
६. ‘प्रीतिलक्षणम्’ इत्यत्र कः समासः?
सुभाषितम्
मूलम्-
प्रकीर्णे विषयारण्ये धावन्तं विप्रमाथिनम् ।
ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्तिनम् ॥ –सुभाषितसुधानिधिः
पदविभागः-
प्रकीर्णे विषयारण्ये धावन्तं विप्रमाथिनम् । ज्ञानाङ्कुशेन कुर्वीत वश्यम् इन्द्रियदन्तिनम् ।
अन्वयः-
प्रकीर्णे
विषयारण्ये विप्रमाथिनं धावन्तं इन्द्रियदन्तिनं ज्ञानाङ्कुशेन वश्यं कुर्वीत ।
प्रतिपदार्थः-
प्रकीर्णे = विच्छिन्ने, विक्षिप्ते ;
विषयारण्ये = (विषयः = चक्षुरादिग्राह्य-भोगसाधनं) विषयाणां वने (आलङ्कारिकं);
विप्रमाथिनं = पीडनकर्तारम्, मारणकर्तारम्, प्रमथनशीलं, देहेन्द्रियक्षोभकं ;
धावन्तं = अतिवेगेन प्लवन्तं, प्रद्रवन्तं ;
इन्द्रियदन्तिनं = (इन्द्रियं = ज्ञानकर्मसाधनं) इन्द्रियगजं (आलङ्कारिकं) ;
ज्ञानाङ्कुशेन = अवबोध-नामकेन अस्त्रेण (आलङ्कारिकं) (अङ्कुशः = हस्त्यादि-चालनार्थकं लोहमय-वक्राग्रं अस्त्रं) ;
वश्यं = स्वस्य आयत्तं, स्वनियतं ;
कुर्वीत = कुर्यात् ;
तात्पर्यम्-
चक्षुरादीन्द्रियं नाम गजः, यः विक्षिप्ते (चक्षुरादिग्राह्याणां) विषयाणां वने क्षोभकारको भूत्वा (अनियतः) धावति, तं गजं अवबोधनाम्ना अङ्कुशेन स्वनियतं कुर्यात्।
जो इन्द्रिय नाम का हाथी विषयवस्तुओं के जंगल में (अनियन्त्रित होकर) पीडित करता हुआ दौडा जारहा है, उसे ज्ञान नामके अंकुश से वशीभूत करके रखना चाहिए।
प्रश्नाः-
१. इन्द्रियदन्ती कुत्र धावति?
२. सः किंविधो भवति?
३. तं कथं वश्यं कुर्यात्?
४. ‘विषयारण्ये’ इत्यत्र कः समासः?
५. ‘विप्रमाथिनम्’ इति शब्दस्य व्युत्पत्तिं कथयत।
६. ‘ज्ञानांकुशेन’ इत्यत्र कः समासः?
सुभाषितम्
मूलम्-
अहो साहजिकं प्रेम दूरादपि विराजते ।
चकोरनयनद्वन्द्वमाह्लादयति चन्द्रमाः ॥ –सुभाषितरत्नभाण्डागारः
पदविभागः-
अहो साहजिकं प्रेम दूराद् अपि विराजते । चकोर-नयन-द्वन्द्वम् आह्लादयति चन्द्रमाः ॥
अन्वयः-
अहो
साहजिकं प्रेम दूराद् अपि विराजते । चन्द्रमाः चकोर–नयन–द्वन्द्वम् आह्लादयति ॥
प्रतिपदार्थः-
अहो = अहो ;
साहजिकं = अकृतकं ;
प्रेम = प्रणयः ;
दूराद् अपि = दूरे स्थित अपि ;
विराजते = विलसति ;
चन्द्रमाः = चन्द्रः ;
चकोर–नयन–द्वन्द्वम् = चकोरपक्षिणः अक्षिद्वयं ;
आह्लादयति = आनन्दयति ;
तात्पर्यम्-
(यः) अकृतकप्रणयः (तस्य लक्षणमेवं यथा, सः) दूरे स्थितोऽपि विलसति। (अस्योदाहरणं यथा) (बहुदूरे स्थितः) चन्द्रः चकोरपक्षिणः अक्षिद्वयं आनन्दयति।
जो सहज प्यार है, वह दूर रहने पर भी पनपता है। (इसका उदाहरण है) चन्दा दूर से भी चकोर पक्षी के आँखों को आह्लादित करता है।
प्रश्नाः-
१. साहजिकप्रेम्णः को विशेषः?
२. चन्द्रमाः किमाह्लादयति?
३. चन्द्रमाः-चकोरयोः उदाहरणेन किं ज्ञायते?
४. ‘साहजिकं’ शब्दस्य व्युत्पत्तिं वदत।
५. ‘चकोरनयनद्वन्द्वम्’ इत्यत्र कः समासः?
६. ‘आह्लादयति’ इत्यत्र को धातुः, क उपसर्गः, कश्च प्रत्ययः?
सुभाषितम्
मूलम्-
सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।
शोभते न विना विद्यां विद्या सर्वस्य भूषणम् ॥ - सुभाषितरत्नभाण्डागारः
पदविभागः-
सुन्दरः अपि सुशीलः अपि कुलीनः अपि महाधनः। शोभते न विना विद्यां विद्या सर्वस्य भूषणम् ॥
अन्वयः-
सुन्दरः
अपि सुशीलः अपि कुलीनः अपि महाधनः (अपि) विद्यां विना न शोभते। विद्या सर्वस्य
भूषणम् ॥
प्रतिपदार्थः-
सुन्दरः अपि = रूपवान् अपि, आकर्षक-दर्शनः ;
सुशीलः = सद्गुणशीलः अपि ;
कुलीनः = सत्कुले जातः अपि ;
महाधनः = लक्ष्मीसम्पन्नः ;
विद्यां = ज्ञानं, अध्ययनं ;
विना = रहितः ;
न शोभते = अयुक्तः भवति, साधु न प्रतिभाति ;
सर्वस्य = समस्तवस्तुषु ;
भूषणम् = आभरणम्, शोभावर्धकम् ;
तात्पर्यम्-
कोऽपि (नरः) आकर्षक-रूपः, सच्छीलः, उत्तमकुलजः, धनसम्पन्नो वा भवतु, (परं तु सः) विद्यया रहितश्चेत् न कुत्रचित् तस्य आदरो भवति। विद्यैव सर्व-आदर-कारकाणां आभरणं भवति।
चाहे कोयी सुन्दर, सुशील, बडे घर के जन्मे, या धनवान हो, वह विद्या के बिना कहीं भी शोभा नहीं पायेगा। विद्या ही सभी का आभूषण है।
प्रश्नाः-
१. केन विना (नरः) न शोभते?
२. ‘कुलीनः’ नाम कः?
३. अस्मिन् श्लोके (नरस्य) कति लक्षणानि उक्तानि?
४. ‘महाधनः’ इत्यत्र समासः?
सुभाषितम्
मूलम्-
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान् धर्मचर्यामसूया ।
कामो ह्रियं शीलमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः ॥ महाभारतम्. उद्योग. 35.43
पदविभागः-
जरा रूपं हरति हि धैर्यं आशा मृत्युः प्राणान् धर्मचर्यां असूया । कामः ह्रियं शीलं अनार्य-सेवा क्रोधः श्रियं सर्वम् एव अभिमानः ॥
अन्वयः-
जरा
रूपं हरति। आशा हि धैर्यं (हरति)। मृत्युः प्राणान् (हरति)। असूया धर्मचर्यां
(हरति)। कामः ह्रियं (हरति)। अनार्य-सेवा शीलं (हरति)। क्रोधः श्रियं (हरति)।
अभिमानः सर्वम् एव (हरति)॥
प्रतिपदार्थः-
जरा = वृद्धाप्यम् ;
रूपं = सौन्दर्यं ;
हरति = अपनयति ;
हि = अवश्यम् ;
आशा = आयता तृष्णा, निराधारप्रतीक्षा ;
धैर्यं = स्थिरचित्तता, धीरता ;
मृत्युः = शरीरस्य अन्तः ;
प्राणान् = श्वासवायून् ;
असूया = परगुणेषु दोषाविष्करणं ;
धर्मचर्यां = धार्मिकतां, धर्मबुद्धिं ;
कामः = स्त्रीपुरुषपरस्परव्यामोहः ;
ह्रियं = लज्जाभावं ;
अनार्य-सेवा = दुष्टजनानां सेवनं, अथवा सङ्गतिः ;
शीलं = चरित्रं ;
क्रोधः = कोपः ;
श्रियं = धनं, सम्पत्तिं ;
अभिमानः = आत्मन्युत्कर्षारोपः, मिथ्यागर्वः, दर्पः ;
सर्वम् एव = समस्तं ;
तात्पर्यम्-
वार्धक्यं सौन्दर्यं नाशयति। मृथापेक्षा धीरत्वं ; मरणं जीवनं हरति ; असूयाभावः धर्मबुद्धिं ; कामभावः लज्जां ; दुर्जनसङ्गतिः सेवनं वा शीलं ; क्रोधः सम्पत्तिं ; मिथ्योपकर्षभावः समस्तं च नाशयति।
बुढापा सुन्दरता को हर लेता है। (झूठी) आशा धैर्य को ; मृत्यु प्राणों को ; जलन धर्मबुद्धि को ; कामवासना लज्जा को ; दुर्जनों की सेवा (या संगति) शील को ; क्रोध सम्पत्ति को ; और अभिमान (दर्प) सभी वस्तुओं को नष्ट कर देते हैं।
प्रश्नाः-
१. आशा किं हरति?
२. असूया कां हरति?
३. ह्रियं केन ह्रियते?
४. असूया इत्यस्य कोऽर्थः? (स्वशब्दैः लिखत)
५. अभिमानो नाम किम्? (स्वशब्दैः लिखत)
६. ‘अनार्यसेवा’ इत्यत्र कः समासः?
मूलम्-
वस्त्रमुख्यमलङ्कारं घृतमुख्यन्तु भोजनम् ।
गुणमुख्यन्तु नारीणां विद्यामुख्यस्तु पण्डितः ॥ नीतिसारः 33
पदविभागः-
वस्त्रमुख्यम् अलङ्कारं घृतमुख्यं तु भोजनम् । गुणमुख्यं तु नारीणां विद्यामुख्यः तु पण्डितः ॥
अन्वयः-
अलङ्कारं वस्त्रमुख्यम्। भोजनं तु घृतमुख्यं । नारीणां तु गुणमुख्यम्। पण्डितः तु विद्यामुख्यः ॥
प्रतिपदार्थः-
अलङ्कारं = भूषणं, सौन्दर्यवर्धकं ;
वस्त्रमुख्यम् = यत्र वस्त्राणि मुख्यानि ;
भोजनं तु = अन्नं, खाद्यं ;
घृतमुख्यं = यत्र घृतं मुख्यं ;
नारीणां तु = स्त्रीणां ;
गुणमुख्यम् = यत्र गुणं मुख्यं ;
पण्डितः तु = विद्वान् तु ;
विद्यामुख्यः = यत्र विद्या मुख्या, यस्य ज्ञानं मुख्यं ;
तात्पर्यम्-
अलङ्कारे वस्त्रं मुख्यं भवति। भोजने घृतं ; स्रीणां प्रमुखं वस्तु गुणो भवति। पण्डितस्य विद्या मुख्या भवति।
आभूषण में वस्त्र सबसे मुख्य होते हैं। भोजन में घी; स्त्रियों में गुण की प्रधानता होती है, और पण्डितों में विद्या की।
प्रश्नाः-
१. भोजने किं मुख्यम्?
२. गुणमुख्यम्, कासाम्?
३. विद्या कस्य मुख्या?
४. ‘वस्त्रमुख्यम्’ इत्यत्र कः समासः?
सुभाषितम्
मूलम्-
किमत्र चित्रं यत्सन्तः परानुग्रहतत्पराः ।
न हि स्वदेहसौख्याय जायन्ते चन्दनद्रुमाः ॥ सुभाषितसुधानिधिः
पदविभागः-
किम् अत्र चित्रं यत् सन्तः परानुग्रहतत्पराः । न हि स्वदेहसौख्याय जायन्ते चन्दनद्रुमाः ।
अन्वयः-
किम् अत्र चित्रं यत् सन्तः परानुग्रहतत्पराः । चन्दनद्रुमाः स्वदेहसौख्याय न हि जायन्ते ।
प्रतिपदार्थः-
किम् = किम् ;
अत्र = अस्मिन् विषये ;
चित्रं = आश्चर्यकरम् ;
यत् = यत् ;
सन्तः = सज्जनाः, सत्पुरुषाः ;
परानुग्रहतत्पराः = अन्येषां प्रसादे आसक्ताः ; चन्दनद्रुमाः = चन्दनवृक्षाः ;
स्वदेहसौख्याय = स्वेषां कायानां सुखमुत्पादयितुं ;
न हि जायन्ते = न रोहन्ति ;
तात्पर्यम्-
सज्जनाः सदा अन्येषां प्रसादकरणे आसक्ताः भवन्ति (स्वस्य सुखवर्धनाय न जीवन्ति)। यथा चन्दनवृक्षाः स्वेषां कायानां सुखमुत्पादयितुं न जायन्ते। चन्दन-लेपनेन मनुष्य-शरीराणां सौख्यं वर्धते।
क्या आश्चर्य है कि सन्तजन दूसरों पर कृपा करने में (सदैव) तत्पर रहते हैं? चन्दन के पेड स्वयं के शरीर को सुख देने के लिए नहीं उगते।
प्रश्नाः-
१. कुत्र चित्रं न भवति?
२. सतां लक्षणं किं भवति?
३. चन्दनद्रुमाः कीदृशाः भवन्ति?
४. ‘परानुग्रहतत्पराः’- इत्यत्र समासविग्रहं वदत।
५. ‘स्वदेहसौख्याय’- इत्यत्र समासविग्रहं वदत।
६. ‘जायन्ते’ इति शब्दस्य व्युत्पत्तिं वदत।
सुभाषितम्
मूलम्-
प्रेक्षणीयः प्रयत्नेन स्वभावो नेतरे गुणाः ।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥
पदविभागः-
प्रेक्षणीयः प्रयत्नेन स्वभावः न इतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावः मूर्ध्नि वर्तते॥
अन्वयः-
स्वभावः
प्रयत्नेन प्रेक्षणीयः। इतरे गुणाः न । गुणान् सर्वान् अतीत्य हि स्वभावः मूर्ध्नि
वर्तते ॥
प्रतिपदार्थः-
स्वभावः = अन्तःप्रकृतिः, स्वकीयभावः, निसर्गः ;
प्रयत्नेन = प्रकृष्टेन यत्नेन ;
प्रेक्षणीयः = परिशीलनीयः, सूक्ष्मतया दर्शनीयः ;
न इतरे = नान्ये ;
गुणाः = विशेषलक्षणानि ;
गुणान् सर्वान् = समस्तान् गुणान् ;
अतीत्य हि = अतिरिच्य, अतिक्रम्य ;
मूर्ध्नि = शिरसि ;
वर्तते = भवति ;
तात्पर्यम्-
मानवस्य प्रकृतिरेव परिशीलनीयः। न इतने गुणाः (गौणत्वात्)। समस्तगुणान् अतिरिच्य स्वकीया प्रकृतिरेव प्रमुखा वर्तते। (तत्परिशीलनेन सर्वे गुणाः ज्ञायन्ते।
मनुष्य के मूल स्वभाव प्रयत्नपूर्वक देखना चाहिए, इतर गुण नहीं देखना। कारण, सर्व गुणोंका अन्त्य में स्वभाव ही अपना शिरोभाग में रहता है. स्वभाव ही शाश्वत प्रमाण है।
प्रश्नाः-
१. कः प्रेक्षणीयः?
२. के न प्रेक्षणीयाः?
३. स्वभावः कुत्र वर्तते?
४. अतीत्य -- अस्य शब्दस्य व्युत्पत्तिं वदत।
५. प्रेक्षणीयः -- अस्मिन् शब्दे कः प्रत्ययः?
६. मूर्ध्नि वर्तते- इत्यस्य कोऽभिप्रायः?
सुभाषितम्
मूलम्-
दूरस्थो ज्ञायते सर्वः पर्वते ज्वलनादिवत् ।
चूडामणिः शिरस्थोऽपि दृश्यते न स्वचक्षुषा ॥ रामायणमञ्जरी, किष्किंदा
पदविभागः-
दूरस्थः ज्ञायते सर्वः पर्वते ज्वलनादिवत् चूडामणिः शिरस्थः अपि दृश्यते न स्वचक्षुषा ।
अन्वयः-
दूरस्थः सर्वः पर्वते ज्वलनादिवत् ज्ञायते। चूडामणिः शिरस्थः अपि स्वचक्षुषा न दृश्यते ।
प्रतिपदार्थः-
दूरस्थः = अनिकटम्, असन्निकृष्टम्, दूरे स्थितः ;
सर्वः = समस्तं ;
पर्वते = उत्तुङ्गशैले ;
ज्वलनादिवत् = अग्निवत् ;
ज्ञायते = अवगम्यते ;
चूडामणिः = मूर्धाभरणम्, शिरोरत्नम् ;
शिरस्थः अपि = मूर्ध्नि स्थितोऽपि ;
स्वचक्षुषा = स्वस्य अक्षिभ्याम् ;
न दृश्यते = न लक्ष्यते, न गोचरीभवति ;
तात्पर्यम्-
यथा पर्वते ज्वलद् वह्निः दूरतः अपि द्रष्टुं शक्यते तथा, दूरे स्थितं कश्चित् वस्तु सम्पूर्णतया दृश्यते। किन्तु यत् स्वसमीपे वर्तते, तदपि कदाचित् द्रष्टुं न पारयामः। यथा चूडामणिः शिरसि वर्तमानः अपि स्वस्य नेत्राभ्यां साक्षात् द्रष्टुं न शक्यते, तथैव।
जो दूर है, वो सब दिख जाता है, जैसे पर्वत पर लगी आग। किन्तु जो चूडामणि अपने ही सिर पर रखी है, वो भी स्वयं अपनी आंखो से नही देखी जा सकती है।
प्रश्नाः-
१. दूरस्थः सर्वः कथं ज्ञायते?
२. स्वचक्षुषा किं न दृश्यते?
३. चूडामणिः कुत्र वर्तते?
४. ‘दृश्यते’ इति शब्दस्य व्युत्पत्तिं वदत।
५. ‘ज्वलनादिवत्’ इत्यत्र कः समासः?
६. अस्य श्लोकस्य अन्तरार्थः कः?
सुभाषितम्
मूलम्-
गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः ।
यतन्ते सस्यलाभाय तैः साकं हि वसाम्यहम् ॥
पदविभागः-
गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः । यतन्ते सस्य-लाभाय तैः साकं हि वसामि अहम् ॥
अन्वयः-
ये
कर्षकाः सूर्यं वृष्टिं शीतं च न गणयन्ति, सस्य-लाभाय यतन्ते, अहम् तैः साकं हि
वसामि ॥
प्रतिपदार्थः-
ये कर्षकाः = कृषिकर्मकराः ;
सूर्यं = रविं, आतपं वा ;
वृष्टिं = वृष्टिं, वर्षाकालं वा ;
शीतं = शीतलं, शीतकालं वा ;
न गणयन्ति = न चिन्तयन्ति, न (तद्विषये) दृष्टिं सारयन्ति ;
सस्य-लाभाय = कृषिफलस्य हेतोः ;
यतन्ते = प्रयतन्ते ;
तैः साकं हि = कर्षकैः सह एव ;
अहं = (विष्णुः) अस्य वचनस्य वक्ता ;
वसामि = निवसामि, तिष्ठामि ;
तात्पर्यम्-
ये क्षेत्रकाराः आतपं, वर्षां, शीततां वा अविगणय्य सस्यपालनाय, अन्नोत्पादनाय च यत्नशीलाः भवन्ति, अहं तैः सह निवसामि।
जो किसान गर्मी, ठण्ड, वर्षा में भी खेती करने (अनाज उत्पादन करने) जाते हैं, मै उनके साथ निवास करता हूँ।
प्रश्नाः-
१. कर्षकाः नाम के? (ऊहया लिखन्तु)
२. के किं न गणयन्ति?
३. कर्षकाः कस्मै यतन्ते?
४. अत्र अहं नाम कः? (ऊहया लिखन्तु)
५. ‘सस्यलाभाय’ इत्यत्र समासविग्रहः कथम्?
६. ‘वसाम्यहम्’ इत्यत्र सन्धिविच्छेदं कुरुत।
सुभाषितम्
मूलम्-
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा सुशीलत्वदमौ श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥
पदविभागः-
अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा सुशीलत्व-दमौ श्रुतं च । पराक्रमः च अबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥
अन्वयः-
प्रज्ञा
सुशीलत्व-दमौ श्रुतं च । पराक्रमः च अबहुभाषिता च दानं यथाशक्ति कृतज्ञता च अष्टौ
गुणाः पुरुषं दीपयन्ति ॥
प्रतिपदार्थः-
अष्टौ = अष्टसङ्ख्याकाः ;
गुणाः = वैशिष्ट्यानि, लक्षणानि ;
पुरुषं = नरं, मनुष्यं ;
दीपयन्ति = प्रकाशवन्तं कुर्वन्ति ;
प्रज्ञा = प्रकृष्टं ज्ञानं, धीशक्तिः ;
सुशीलत्वं = सज्जनता, सदाचारः ;
दमः = इन्द्रियनिग्रहः ;
श्रुतं = ज्ञानं ;
पराक्रमः = शौर्यं, शक्तिः ;
अबहुभाषिता = नाधिकं भाषणं ;
दानं = स्वस्य वस्तुनः धनस्य वा अन्यस्मै प्रदानं, परायत्तीकरणं ;
यथाशक्ति = शक्तिमनुसृत्य, यावत् शक्यते तावत् ;
कृतज्ञता = कृतं प्रति धन्यवादभावना ;
तात्पर्यम्-
धीशक्तिः, सुजनत्वं, निग्रहः, ज्ञानं, शौर्यं, नाधिकं भाषणं, धनवस्त्वादिनां शक्तिमनुसृत्य प्रदानं, कृतस्य स्मरणं च अष्टौ गुणाः पुरुषं दीपयन्ति ॥
किसी व्यक्ति को आठ गुण प्रकाशित करते है- प्रज्ञा, शील, आत्मनिग्रह, ज्ञान, पराक्रम, अधिक न बोलना, जितनी शक्ति- दान देना, और कृतज्ञता का भाव रखना।
प्रश्नाः-
१. कति गुणाः पुरुषं दीपयन्ति?
२. अबहुभाषिता नाम किम्?
३. दानं नाम किम्?
४. ‘यथाशक्ति’ इत्यत्र कः समासः?
५. ‘दीपयन्ति’ इत्यस्य व्युत्पत्तिं वदत।
६. ‘सुशीलत्वं’ इत्यत्र कः प्रत्ययः?
सुभाषितम्
मूलम्-
पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः॥ सुभाषितरत्नभण्डागारः 51.170
पदविभागः-
पिबन्ति नद्यः स्वयम् एव न अम्भः स्वयं न खादन्ति फलानि वृक्षाः। न अदन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः॥
अन्वयः-
नद्यः
स्वयम् एव अम्भः न पिबन्ति। वृक्षाः स्वयं न फलानि खादन्ति। वारिवाहाः सस्यं न
अदन्ति खलु। सतां विभूतयः परोपकाराय ॥
प्रतिपदार्थः-
नद्यः = आपगाः ;
स्वयम् एव = स्वार्थाय एव ;
अम्भः = जलं ;
न पिबन्ति = न पानं कुर्वन्ति ;
वृक्षाः = तरवः ;
फलानि = वृक्षोत्पन्न-खाद्य-विशेषानि ;
न खादन्ति = न अदन्ति ;
वारिवाहाः = मेघाः, जलदाः ;
सस्यं = कृषिफलं ;
न अदन्ति = न खादन्ति ;
खलु = हि, किल ;
सतां = सज्जनानां ;
विभूतयः = ऐश्वर्याणि ;
परोपकाराय = = परेषां साहाय्यार्थं ;
तात्पर्यम्-
नद्यः स्वस्य जलानि स्वयमेव न पिबन्ति। तरवः स्वस्य फलानि न खादन्ति। मेघाः स्वस्य जलेन (संवर्धितानि) सस्यानि न खादन्ति। सज्जनानां ऐश्वर्याणि परेषां साहाय्यार्थं भवन्ति।
नदियाँ अपना पानी खुद नहीं पीती, वृक्ष अपने फल खुद नहीं खाते, बादल (खुद ने उगाया हुआ) अनाज खुद नहीं खाते । सत्पुरुषों का जीवन परोपकार के लिए हि होता है ।
प्रश्नाः-
१. नद्यः किं न कुर्वन्ति?
२. वृक्षाः किं न खादन्ति?
३. वारिवाहाः किं नादन्ति?
४. ‘वारिवाहाः’ इति शब्दस्य कोऽर्थः?
५. ------- सतां विभूतयः। (रिक्तं स्थानं पूरयत।)
६. परोपकारो नाम किम्? (ऊहया लिखत)।
सुभाषितम्
मूलम्-
आचारः परमो धर्म आचारः परमं तपः।
आचारः परमं ज्ञानमाचरात् किं न साध्यते॥
पदविभागः- अन्वयः-
आचारः परमः धर्मः आचारः परमं तपः। आचारः परमं ज्ञानम् आचरात् किं न साध्यते॥
प्रतिपदार्थः-
आचारः = सदाचारः, नियमानुष्ठानं ;
परमः = उन्नतः, उत्तमः ;
धर्मः = कर्तव्यम् ;
परमं तपः = उत्तमं तपः (वैधक्लेशजनकं कर्म) ;
परमं ज्ञानम् = उत्कृष्टः बोधः ;
आचरात् = सदाचरणेन, नियमानुष्ठानेन ;
किं = कः पदार्थः ;
न साध्यते = न प्राप्तुं शक्यते ;
तात्पर्यम्-
सदाचारानुष्ठानमेव उन्नतः धर्मः, उत्तमं तपः, उत्कृष्टं ज्ञानं च भवति। नियमानुष्ठानेन किं वा न साधयितुं शक्नोति पुरुषः?
सदाचार का अनुष्ठान ही उत्तम धर्म, तपस्या और ज्ञान है। सदाचरण से ऐसी कौन सी वस्तु है, जो पायी नही जा सकती?
प्रश्नाः-
१. आचारः नाम किम्? स्ववाक्येषु विवृणुत।
२. तपः इति किंलिङ्गकं पदम्?
३. आचारात् इत्यत्र कः विभक्तिः?
मूलम्-
सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।
अहार्यत्वादनर्घ्यत्वादक्षयत्वाच्च सर्वदा ॥ हितोपदेशः
पदविभागः-
सर्वद्रव्येषु विद्या एव द्रव्यम् आहुः अनुत्तमम् । अहार्यत्वाद् अनर्घ्यत्वाद् अक्षयत्वात् च सर्वदा ॥
अन्वयः-
सर्वद्रव्येषु
विद्या एव सर्वदा अहार्यत्वाद् अनर्घ्यत्वाद् अक्षयत्वात् च अनुत्तमम् द्रव्यम्
आहुः ॥
प्रतिपदार्थः-
सर्वद्रव्येषु = सर्ववस्तुषु ;
विद्या एव = ज्ञानं ;
सर्वदा = सर्वसमयेषु ;
अहार्यत्वाद् = न शक्यते हर्तुमिति कारणेन ;
अनर्घ्यत्वाद् = अमूल्यत्वात् ;
अक्षयत्वात् च = क्षयं न यातीति कारणेन ;
अनुत्तमम् = अस्मात्परं न किञ्चिद् भवतीति ;
द्रव्यम् = वस्तु ;
आहुः = इति वदन्ति ;
तात्पर्यम्-
सर्वधनेषु सर्वदा विद्याधनं प्रधानं भवति। नास्मादुत्तमं किञ्चिदन्यत् भवति। तस्य गुणा एवम्- विद्या न केनचित् हर्तुं शक्यते, तस्य मूल्यं इयदिति वक्तुं न शक्यते, तस्याः दानेनापि सा वर्धते, न तु क्षीयते।
सब द्रव्यों में विद्यारुपी द्रव्य सर्वोत्तम है, क्यों कि वह किसी से हरा नहीं जा सकता; उसका मूल्य नहीं हो सकता, और उसका कभी नाश नहीं होता ।
प्रश्नाः-
१. सर्वद्रव्येषु किं अनुत्तमम्?
२. अहार्यं नाम किम्?
३. कथं विद्या अक्षयद्रव्यं भवति?
४. ‘अनर्घ्य’-शब्दस्य व्युत्पत्तिं वदत।
५. ‘अक्षयत्वात्’ इत्यत्र पञ्चमी कथम्?
६. ‘सर्वद्रव्येषु’ इत्यत्र कथं सप्तमी?
सुभाषितम्
मूलम्-
दूरस्थोऽपि न दूरस्थः यो यस्य मनसि स्थितः ।
यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥
पदविभागः-
अन्वयः-
दूरस्थः अपि न दूरस्थः यः यस्य मनसि स्थितः। यः यस्य हृदये नास्ति समीपस्थः अपि दूरतः ॥
प्रतिपदार्थः-
दूरस्थः अपि = दूरे स्थितः अपि ;
न दूरस्थः = अन्तिके स्थितः ;
यः = = यः पुंसः ;
यस्य = यस्य पुरुषस्य ;
मनसि = हृदये, भावनायां ;
स्थितः = निवसन्, भवन् ;
हृदये = अन्तरङ्गे, मनसि ;
नास्ति = न वसति ;
समीपस्थः अपि = अन्तिके स्थितः अपि ;
दूरतः = दूरे एव भवति ;
तात्पर्यम्-
यः पुरुषः कस्यचित्पुरुषस्य मनसि (अनुरागभाग्) भवति, तदानीं सः स्वस्मात् दूरे तिष्ठत्यपि अन्तिके एव भवति। यः भावनायां न निवसति, सः समीपे भूत्वापि दूरे एव स्थित इव।
जो जिसके मन में बसता है वह उससे दूर होकर भी दूर नहीं होता और जिससे मन से सम्बन्ध नहीं होता वह पास होकर भी दूर ही होता है॥
प्रश्नाः-
१. कः दूरस्थः अपि न दूरस्थः?
२. कः समीपस्थः अपि दूरस्थः?
३. दूरस्थः, समीपस्थः – कः समासः? कथं विग्रहः?
४. हृदये, मनसि स्थितिः- इत्यस्य कोऽभिप्रायः?
५. समीपस्थोऽपि – इत्यत्र कः सन्धिः?
६. दूरतः – इत्यत्र कः प्रत्ययः?
सुभाषितम्
मूलम्-
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ भर्तृहरि-नीतिशतकम्
पदविभागः-
अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः । ज्ञानलव–दुर्विदग्धं ब्रह्मा अपि नरं न रञ्जयति ॥
अन्वयः-
अज्ञः सुखम् आराध्यः विशेषज्ञः सुखतरम् आराध्यते । ब्रह्मा अपि
ज्ञानलव–दुर्विदग्धं नरं न रञ्जयति ॥
प्रतिपदार्थः-
अज्ञः = अज्ञानी, यः न जानाति ;
सुखम् = सुलभं, काठिन्यं श्रमं च विना,
आराध्यः = तोषयितुं शक्यः, प्रसादयितुं योग्यः ;
विशेषज्ञः = विशिष्टज्ञानवान् ;
सुखतरम् = अधिकसारल्येन ;
आराध्यते = तोषयते, समाधीयते ;
ब्रह्मा अपि = चतुर्मुखब्रह्मा, विधाता अपि ;
ज्ञानलव–दुर्विदग्धं = मूर्खं, ज्ञानलवेन यः स्वं पण्डितं मन्यते, पण्डितंमन्यः ;
नरं = जनं, मनुष्यं, पुरुषं ;
न रञ्जयति = न समाधातुं शक्नोति ;
तात्पर्यम्-
यः न किमपि जानाति, सः विना कष्टं (विषय)मधिगमयितुं शक्यः। यः विशेषज्ञः सः ततोऽप्यधिकसौलभ्येन समाधापयितुं योग्यः। किन्तु यः किञ्चिज्ज्ञात्वा विद्वानिव रूपयति, तं स्वयं सृष्टिकर्तापि न प्रसादयितुं पारयति।
जो व्यक्ति अज्ञानी है, उसे सरलता से (विषय) समझाया जासकता है। जो विशेषज्ञान रखता है, उसे और भी सुगमता से समाधान दिया जासकता है। परंतु जो मूर्ख है, उसे स्वयं विधाता भी कभी प्रसन्न नही कर सकते हैं।
प्रश्नाः-
१. कः सुखमाराध्यः?
२. विशेषज्ञः कथमाराध्यः?
३. ब्रह्मापि कं न रञ्जयति?
४. ‘ज्ञानलवदुर्विदग्धं’ इत्यत्र कः समासः?
५. ‘आराध्यः’ इत्यस्य शब्दव्युत्पत्तिं वदत।
सुभाषितम्
मूलम्-
स जीवति यशो यस्य कीर्तिर्यस्य स जीवति।
अयशोऽकीर्तिसंयुक्तः जीवन्नपि मृतोपमः॥ –सुभाषितरत्नभाण्डागारम्
पदविभागः-
स जीवति यशः यस्य कीर्तिः यस्य स जीवति। अयशः अकीर्ति–संयुक्तः जीवन् अपि मृतोपमः॥
अन्वयः-
यशः
यस्य सः जीवति,
कीर्तिः यस्य सः जीवति। अयशः अकीर्ति–संयुक्तः जीवन् अपि मृतोपमः॥
प्रतिपदार्थः-
जीवति = प्राणान् धरति ;
यशः = ख्यातिः ;
यस्य = यस्य पुरुषस्य ;
कीर्तिः = प्रसिद्धिः ;
अयशः = कीर्तिविहीनः, अपकीर्तिवान् ;
अकीर्ति–संयुक्तः = अपयशोयुक्तः ;
जीवन् अपि = प्राणान् धरन् अपि ;
मृतोपमः = विगतप्राणः इव ;
तात्पर्यम्-
यः विश्रुतः, लब्धप्रतिष्ठः स एव जीवितः इति मन्यते। यः अयशोयुक्तः, नाम अपकीर्तिभाग्, सः प्राणान् धरन्नपि विगतप्राणः एव।
यशस्वी और कीर्ति वाले मनुष्य का ही जीवन है, कीर्तिहीन मनुष्य जीता हुआ भी मरे के समान है।
प्रश्नाः-
१. कः जीवति?
२. कः मृतोपमः?
३. ‘अयशोऽकीर्तिसंयुक्तः’ इत्यत्र कः समासः?
४. ‘मृतोपमः’ इत्यत्र कः समासः?
५. ‘जीवन्नपि’ इत्यत्र कथं सन्धिः?
सुभाषितम्
मूलम्-
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ –किरातार्जुनीयम्
पदविभागः-
सहसा विदधीत न क्रियां, अविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयम् एव सम्पदः ।
अन्वयः-
सहसा
क्रियां न विदधीत । अविवेकः आपदां परं पदम् । विमृश्यकारिणं हि गुणलुब्धाः सम्पदः
स्वयम् एव वृणुते ।
प्रतिपदार्थः-
सहसा = अकस्मात् ;
क्रियां = कार्यं ;
न विदधीत = न कुर्यात् ;
अविवेकः = अनालोचितं, विवेकराहित्यं ;
आपदां = विपदां, कष्टानां ;
परम् = बृहत्, उन्नतं ;
पदम् = स्थानम् ;
विमृश्यकारिणं = आलोच्य विचिन्त्य वा कार्यं यः करोति तं ;
गुणलुब्धाः = सद्गुणैः आकृष्टाः ;
सम्पदः = सम्पत्तिः, लक्ष्मीः ;
स्वयम् एव = विना अन्यप्रयासं ;
वृणुते हि = चिन्वन्ति ;
तात्पर्यम्-
अविचारितं अकस्मात् कार्यं न निरूढव्यम्। विवेकराहित्यं कष्टानां स्थानं भवति, विपदः कारयति। यः सम्यक् विचिन्त्य कार्यं करोति, तस्य सुगणैः आकर्षिताः सम्पत्तयः स्वयमागत्य तं अलंकुर्वन्ति।
किसी कार्य को बिना सोचे-विचारे अनायास नहीं करना चाहिए । विवेकहीनता आपदाओं का परम या आश्रय स्थान होती है । अच्छी प्रकार से गुणों की लोभी संपदाएं विचार करने वाले का स्वयमेव वरण करती हैं, उसके पास चली आती हैं ।
प्रश्नाः-
१. सहसा किं न विदधीत?
२. कः आपदां परं पदम्?
३. सम्पदः कं वृणुते?
४. ‘विमृश्यकारिणं’ इत्यत्र कः समासः?
५. ‘गुणलुब्धाः’ इत्यत्र कः समासः?
सुभाषितम्
मूलम्-
शान्तितुल्यं तपो नास्ति तोषान्न परमं सुखम् ।
नास्ति तृष्णापरो व्याधिर्न च धर्मो दयापरः ॥
पदविभागः-
शान्तितुल्यं तपः नास्ति तोषात् न परमं सुखम् । न अस्ति तृष्णापरः व्याधिः न च धर्मः दयापरः ॥
अन्वयः-
शान्तितुल्यं
तपः नास्ति तोषात् न परमं सुखम् । तृष्णापरः व्याधिः न अस्ति धर्मः दयापर: च न॥
प्रतिपदार्थः-
शान्तितुल्यं = चित्तोपशमन-तुल्यं, ;
तपः = विधिनियमपूर्वकं व्रताद्याचरणं, ध्यानादिकर्म वा ;
नास्ति = न भवति ;
तोषात् = आनन्दात् ;
न = नास्तीति निषेधः ;
परमं = अत्युन्नतं, उत्कृष्टं ;
सुखम् = शारीरक-मानसिकं नन्दभावनं ;
तृष्णापरः = लिप्सायाः उत्कृष्टः ;
व्याधिः = रोगः ;
न अस्ति = न भवति ;
धर्मः = आचरणयोग्यः ;
दयापरः = जीवकारुण्यभावनायाः उत्कृष्टः ;
तात्पर्यम्-
चित्तप्रशमनसमानं नियमाचरणं नास्ति। तुष्टिभावनायाः उन्नता नन्दनभावना नास्ति। लिप्सायाः उत्कृष्टः रोगो नास्ति। कारुण्यभावात् परः धर्मः नास्ति।
शान्ति के समान तपस्या नहीं है। सन्तुष्टि से बढकर सुख नहीं है। तृष्णा से बडा रोग नहीं और दया से उन्नत धर्म नहीं है।
प्रश्नाः-
१. कया तुल्यं तपो नास्ति?
२. परमं सुखं कस्मात् नास्ति?
३. दयापरः कः नास्ति?
४. ‘शान्तितुल्यं’ इत्यत्र कः समासः?
५. ‘तोषात्’ इत्यत्र कथं पञ्चमी?
६. ‘व्याधिः’ इति शब्दव्युत्पत्तिं वदत।
मूलम्-
पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ -मनुस्मृतिः ७.४८
पदविभागः- अन्वयः-
पैशुन्यं साहसं द्रोहः ईर्ष्या असूया अर्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजः अपि गणः अष्टकः ।
प्रतिपदार्थः-
पैशुन्यं = अप्रकाशेनानुचितप्रबोधनं, परस्परभेदशीलत्वं ;
साहसं = दुष्कृतकर्म, अविमृष्यकृतिः ;
द्रोहः = छद्मवधः, अपक्रिया, अनिष्टचिन्तनम् ;
ईर्ष्या = परोत्कर्षासहिष्णुता, अक्षान्तिः ;
असूया = गुणेषु दोषाविष्करणं, परगुणे दोषारोपणं ;
अर्थदूषणम् = अन्येषां वस्तुनाशः, परद्रव्यापहरणं वा ; वाग्दण्डजं च = निन्दावचनं ;
पारुष्यं = काठिन्यं ;
क्रोधजः अपि = क्रोधात् जातः ;
गणः-अष्टकः = अष्ट(गुणानां) गणः ;
तात्पर्यम्-
अप्रकाशेनानुचितप्रबोधनं, अविमृष्यकृतिः, अनिष्टचिन्तनम्, अक्षान्तिः, परगुणे दोषारोपणं, परद्रव्यापहरणं, निन्दावचनं, काठिन्यं- एते अष्ट क्रोधादुत्पन्नाः दुर्गुणाः।
बिना जाना दोष का कहना, बल मे काम करना, कपट में बंध दूसरों के गुण को न सहना, पर के गुण में दोष निकालना
अर्थ को चुराना, अथवा देने योग्य वस्तु को न देना, वाणी में कठोर बोलना, दण्ड में ताडन करना- ये आठ क्रोध से उत्पन्न दुर्गुण हैं।
प्रश्नाः-
१. क्रोधजो नाम कोऽर्थः?
२. पैशुन्यं नाम किम्?
३. असूया किंविधा भवति?
४. ‘क्रोधजः’ इत्यत्र कः समासः?
५. ‘गणोऽष्टकः’ इत्यत्र का सन्धिः?
६. ‘साहसं’ इतिशब्दस्य व्युत्पत्तिं वदत।