✍प्रस्तावविषयः-- मङ्गलवासरः🌺

8 views
Skip to first unread message

उषा सङ्का

unread,
Dec 26, 2017, 9:44:42 AM12/26/17
to संस्कृते संवदेम

प्रस्तावविषयः-- मङ्गलवासरः🌺

            मङ्गलं नाम शुभं, प्रशस्तं, पवित्रमित्याद्यार्थाः। अस्य शब्दस्य अर्थबाहुल्यं वर्तते। मङ्गलग्रहसम्बन्धिवासरः मङ्गलवासरः। तस्मिन् दिने आरब्धानि कार्याणि सफलानि भवन्तीति औत्तराहानां भारतीयानां विश्वासः। अतस्ते प्रमुखकार्याणि सर्वाणि मङ्गलवासरे प्रारभन्ते। किन्तु तदेव विरुद्धमाचर्यते आन्ध्रप्रदेशे। मङ्गलवासरे किमपि कार्यं नारभ्यते, विघ्नभयात्। मङ्गलग्रहस्य रक्तवर्णप्रियत्वादि-विशेषान् मनसि निधाय तस्मिन् दिने शल्यचिकित्सां कारयन्ति रुग्णाः जनाः, स्वस्थतां प्राप्नुमः इति विश्वासेन। 

            अस्मिन् लोके मङ्गलानि अष्टौ भवन्ति। ब्राह्मणः, गौः, हुताशनः, हिरण्यं, सर्पिः आदित्यः, आपः, राजा इति । नित्यं प्रशस्तानाम् आचरणं, अप्रशस्तवस्तूनां विवर्जनं, एतदेव मङ्गलं नाम इति मन्त्रदर्शिभिः ऋषिभि प्रोक्तम् (अत्रिसंहिता)।

            मङ्गलो नाम भूमिसुतः ग्रहविशेषः। एषः दक्षिणदिशः पुरुषः, जात्या क्षत्रियः,  सामवेदः अस्य शाखा। अयं तमोगुणप्रधानः, तिक्तरसः, मेषराशिः, प्रबालावन्तिदेशानाम् अधिपतिः च भवति । किञ्चिदङ्गहीनस्यास्य वाहनः मेषः। यूनः, क्रूरस्वभावस्य, कटुरसप्रियस्य, पित्तप्रकृतिकस्य अस्य प्रमाणं चतुरङ्गुलमितम्। एषः सर्वदा रक्तमाल्यानि, रक्तवसनानि च धरति । चतुर्भुजस्य अस्याकृतिः चतुष्कोणः। अस्य गोत्रं भारद्वाजम्। वनचारी एषः सदा सूर्याभिमुखः, मध्याह्नकाले च प्रबलः भवति। अस्य अधिदेवता कार्तिकेयः, प्रत्यधिदेषता च पृथिवी ।  सुवर्णकारादीनां, गैरिकादिधातूनां चासौ स्वामी, ताम्रवर्णरक्तद्रव्यानां, चतुष्पदानां च प्रभुः।  (इति ग्रहयागतत्त्वलघुजातकादयः) (एते विशेषाः शब्दकल्पद्रुमात् वाचस्पत्याच्च कृतज्ञतापूर्वकं स्वीकृताः)॥

Reply all
Reply to author
Forward
0 new messages