स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)
🤝शुक्रवासरः (12-01-18) एकादशी🙋🏻♀
✍प्रस्तावविषयः-- विश्व-युवजन-दिनोत्सवः🙋🏻♂
युवजना एव देशस्य जीवात्मा। भारतस्य विविधक्षेत्राणां पुरोगमनाय युवजनानां योगदानं महत्तमं वर्तते।
सैनिक-शास्त्र-गवेषण-शासनक्षेत्रेषु युवकानां प्राधान्यं ज्ञात्वैव अधिकारिणः युवजनदिनस्य चिन्तनं कृतवन्तः।
१९८४ तमवर्षादारभ्य
जनुवरिमासस्य द्वादशदिनाङ्कः देशीययुवजनदिवसत्वेन भारते आचरन्ति। स्वामिविवेकानन्दस्य जन्मदिवसोऽयम्। स्वामिनः जीवनं युवजनेभ्यः नूतनदिशाबोधं प्रदत्तम् इत्येव दिनेऽस्मिन् युवजनाघोषस्य आलम्बनम्। लोकप्रसिद्धः विवेकानन्दः नवभारतस्य सन्यासी इत्यपि विशेषणार्षः। नवभारतस्य उदयं कृषकाणां धीवराणां सम्मार्जकानां चर्मकराणां च कुटीरेभ्यो भविष्यति इत्येव स्वामिनः वीक्षणम्।
वेदज्ञानेनैव भारतस्य अभिवृद्धिर्भवति इति बोधयन् समग्रे देशे अटित्वा युवजनानां जागरणं कृतवान्। अतः विवेकजयन्तिदिनं युवकानां दिनम्।
अस्मिन् दिने आभारते चर्चाः मेलनानि प्रबन्धाः घोषयात्रा अन्यकार्यक्रमाश्च युवजननेतृत्वेण आयोजिताः विद्यन्ते। विवेकानन्दः नवभारतस्य आत्मीयाचार्य इत्येव परिगण्यते। यावत्पर्यन्तं राष्ट्रे अभिमानिनः युवकाः न उद्भवन्ति तावत्पर्यन्तं देशस्य स्वातन्त्र्यं न भविष्यति इत्येव विवेकानन्दस्य वीक्षणम्। विवेकानन्दस्य बोधनं कर्मकुशलतायाः धीरतायाः कर्तव्यनिष्ठायाः च आधारेणैवासीत् एता एव खलु युवजनेष्वपि आवश्यकाः। निश्चयदार्ढ्याणां देशभक्तानां सद्भावनासम्पन्नानां युवजनानां सृष्ट्यर्थं युवजनदिनं कारणं भवेत् इति आशास्महे।।
सर्वेभ्यः युवजनदिनस्य शुभाशयाः