प्रियविश्वाय/प्रियविश्वस्मै

14 views
Skip to first unread message

Sivakumari Katuri

unread,
Nov 19, 2015, 1:20:28 AM11/19/15
to संस्कृते संवदेम
नमस्ते,
विश्वशब्दस्य सर्वनामत्वात् विश्वस्मै, विस्वस्मात्, विश्वस्मिन् इत्यादीनि प्रयोगानि भवन्ति, तस्मात् प्रियविश्व इति समस्तपदस्यापि प्रियविश्वस्मै, प्रियविश्वस्मात्, प्रियविश्वस्मिन् इत्यादीनि रूपाणि भवेयुरिति संशये सति समाधानमिदम् -
बहुव्रीहिसमासे विश्वादीनां सर्वनामसंज्ञा न भवति, अतः सर्वनामसंज्ञानिमित्तकार्याणि न भवन्ति, तेन प्रियविश्वाय, प्रियविश्वात्, प्रियविश्वे इत्यादीनि रूपाणि भवन्ति. प्रियाः विश्वे यस्य सः प्रियविश्व इति बहुव्रीहिसमासः.
Reply all
Reply to author
Forward
0 new messages