✍प्रस्तावविषयः-- अश्रु😓
चक्षुर्भ्यां यद्वारि स्रवति तदश्रु इति नाम भजते। चक्षुर्ज्जलं, नेत्राम्बु, रोदनं, अश्रं, अस्रं, अस्रु, वाष्पं इति तस्य समानार्थानि पदानि। अश्रु कवोष्णं भवति। किञ्चित् लवणरसत्वं तस्य। प्रायः दुःखानुभवकाले अश्रूणि निर्गच्छन्ति नेत्रयोः। ततश्च भावोद्वेगः यस्य कस्यापि भावस्य भवतु, हृदयस्य द्रवीभवनेन अश्रुपातः दृश्यते लोके। पीडा, मानसिकदुःखं, कारुण्यभावः, अत्यन्तमानन्दः- एते सर्वे भावाः अक्षिभ्यां जलकणानां रूपेण बहिर्यान्ति। नेत्राम्बुपाते समर्थः मनुष्यः हृदयेन कोमल इति ज्ञायते। कदाचित् चलचित्र-नाटक-प्रवचन-कथाश्रवणादि-काले घटनायां विलीनाः जनाः करुणादिरसैः पीडिताः सन्तः अश्रूणि स्रावयन्ति।
कदाचित् नेत्रयोः धूल्यादिपातेनापि अश्रूणि स्रवन्ति। अल्पाल्पमपि कणं सुकोमले नेत्रे पतति, तदानीं बाष्पं निर्गच्छति नयनयोः। एकस्मिन् अक्ष्ण्यपि कणे पतिते द्वयोरपि नेत्रयोः अस्रु दृश्यते। कदापि एकमेव नेत्रं अश्रु न पातयति। नेत्रयोः सदा सौहार्दं भवतीति अनेन उदाहरणेन आलङ्कारिकरूपेण उच्यते।
लोके अश्रुपातः दुर्लक्षणमिति उच्यते। सः भीरूणां, अशूराणां, असमर्थानां लक्षणमिति सर्वः चिन्तयति। शत्रूणां पुरतः कदापि न रोदितव्यम्। किन्तु चेद् भावोद्वेगान् सदा अन्तः स्थापयामः, तेन हृदयाघातः भवितुमर्हति। तथापि सर्वत्र सर्वे रोदितुं न शक्नुवन्ति। बाल्ये किञ्चित्पीडनेनापि चक्षुज्जलं सुलभं प्रवहति। प्रौढमनुष्याणां अश्रं अधिकं न स्रवति। भावावेशपराः एव प्रायः अस्राविलनेत्राः भवन्ति। अन्ये एकान्ते रुदन्ति। बालानां रोदनं बलमिति लोकोक्तिः। कोमलहृदयाणां स्त्रीणाम् अक्षिजलं पुरुषैः तोलने प्रवृत्त्या अधिकं प्रवहति इति लोकविदितम्। आधुनिककाले क्वाचित्केन भावाधिक्योपहताः पुरुषा अपि अस्राविलनेत्राः वेदिकासु जनबाहुल्येऽपि दृश्यन्ते। तेऽपि स्वकीये हृदये कोमलत्वं धराम इति दर्शयन्ति लोकम्। रामोऽपि सीतावियोगपीडितः अश्रु पातितवान्।
पीडितेषु सत्सु सर्वे जीविनः रुदन्ति। जन्तुष्वपि पक्षिष्वपि रोदनं दृश्यते। कदाचित् अश्रु लक्ष्यसाधने आयुधमिव कार्यं करोति। गृहे स्त्रीणां कदापि अस्रु भूमौ न पतितव्यमिति, तेन दारिद्र्यं जायते इति विश्वासः अस्ति। बालैः, स्त्रीभिश्च एतस्य विश्वासस्योपयोगः अधिकं क्रियते। इत्यलं विस्तरेण॥