चलयति/चालयति

70 views
Skip to first unread message

Sivakumari Katuri

unread,
Nov 25, 2015, 10:10:25 AM11/25/15
to संस्कृते संवदेम
चलधातुः भ्वादिषु, तुदादिषु, चुरादिषु च वर्तते. अस्य णिच्प्रत्यये
चल् णिच्
णकारचकारयोः इत्संज्ञायां, तस्यलोपे
चल् इ
अत उपधायाः इति वृद्धौ
चाल् इ - चालि, प्रथमपुरुषैकवचने चालयति इति भवति.
"चलिः कम्पने" इति गणसूत्रेण कम्पनार्थे मित्त्वातिदेशे
'मितां ह्रस्वः' इति उपधायाः ह्रस्वे
चलि इति भवति, प्रथमपुरुषैकवचने चलयति इति भवति.
यथा - कपिः चलयति शाखाम्.
कम्पनभिन्नार्थे मित्त्वाभावात् उपधाह्रस्वोपि न, तेन चालयति इत्येव भवति. यथा - शीलं चालयति इति.

उषा सङ्का

unread,
Nov 28, 2015, 2:54:15 AM11/28/15
to संस्कृते संवदेम
भगिनि
सम्यक् लिख्यते त्वया। कश्चन अल्पः परामर्शः।
अस्य णिच्प्रत्यये -- इति लेखनानन्तरं.... एव लिखतु- येन स्पष्टत्वमधिकं भवति।
चलयति, चालयति इति द्वे रूपे भवतः। तत्र कस्य किं रूपं सिध्यतीति प्रश्ने कृते प्रक्रिया दर्श्यते-- 
Reply all
Reply to author
Forward
0 new messages