संस्कृतवाचनपाठमाला
द्वितीयः खण्डः
लेलेकुलसम्भवेन गणेशशास्त्रितनूजन्मना प्रोफेसरोपाधिलञ्छितेन लक्ष्मणशर्मणा सङ्कलितः
Sanskrit Course of Reading
Second Part
A collection of select prose and poetical passages from standard Sanskrit works.
Designed for use of students studying for the Bombay School leaving certificate examination.
Compiled by Lakshman Ganesh Shastri Lele
Prof. New Poona College
New Edition
रुक्मिणी– सखि कमले । श्वः प्रभाते मे बहु करणीयम् । तत्कथं निर्वर्त्यमिति चिन्ताकुलं मे मनः ।
कमला– काऽत्र चिन्ता । अहं तव साहाय्यं करिष्यामि । नर्मदाम् अपि तत् कर्तुम् उपदेक्ष्यामि । इति आवयोः साहाय्येन सुलभा कार्यसिद्धिः ।
रुक्मिणी– अपि नर्मदा प्रतिपद्यते तत्कर्तुम् । यावत्तामेव पृच्छामि । अयि नर्मदे । प्रभाते मम बहु करणीयम् । कच्चिदल्पं साहाय्यं करिष्यसि ।
नर्मदा– ततः को मे लाभः । तन्न कर्तुमुत्सहे । पुनर्ममापि प्राभातिकम् अस्त्येव । तत् का करिष्यति ।
कमला– सखि नर्मदे । मैवं
रुक्मिणीवचोवज्ञातुमर्हसि । अन्योऽन्यसाहाय्यं मनुष्यधर्मः । तत् साहाय्यं
कुर्वत्याः तव किं हीयते । तव गृहकृत्यं चाल्पम् । तत् पश्चादप्येकाकिन्या सुकरम्
। तत्रापि चेदन्यापेक्षा, अहं साहाय्यं करिष्यामि ।
नर्मदा– न श्रामयामि त्वाम् । अहमेवैकाकिनी तल्लघुलघु समाप्य विश्रान्तिसुखं कथं नानुभवेयम् ।
कमला – सुखं निर्विश्यतां विश्रान्तिसुखम् । तथा कर्तुं का निषेधति । परमेतावदेव पृच्छामि तव गृहकृत्यं त्वमेकाकिनी लघुतरं करिष्यसे किम् ॥
नर्मदा– असंशयं त्वद्द्वितीयैव ।
कमला– तर्हि साहाय्यं किमिति नानुमन्यसे ।
नर्मदा– स्वावलम्बमेवाहं बहु मन्ये । न परसाहाय्यम् । आत्मबलेनैव सर्वाः क्रिया निर्वर्तयामि ।
रुक्मिणी– अयि नर्मदे । स्वावलम्बो ममापि बहुमतः । किन्तु आत्मबलातिगे कार्ये परसाहाय्यप्रार्थनमावश्यकं भवति । न हि एकपुरुषसाध्याः सकलाः क्रियाः । कोऽपि गृहवस्त्रादि सकलं वस्तुजातं स्वयमेको निर्मातुं न प्रभवेत् । किमुत च तत्तच्छिल्पिसङ्घनिर्मितमेव सुभगम् । अतो विपश्चितः परस्परं श्रमान् विभज्य एकैकमेव विषयमङ्गीकृत्य तं सर्वात्मना परिशीलयन्ति । तस्मिन्नैपुण्यमुपगताश्च लोकाराधनाय प्रवर्तन्ते । एवं श्रमविभागेन संसारयात्रा सुखकरी भवति ।
कमला– परिचिन्त्यतां परराष्ट्राणामुद्योगपद्धतिः । आफलोदयकर्माण उद्यमशीला यूरोपीया निजाद्भुतकृत्यैः लोकान् विस्मापयन्ति । सुसंस्कृतं सुजातं च वस्तुजातं निर्मिमते । तस्य श्रमविभक्तिरेव बीजम् ।
रुक्मिणी– पाणितलस्थे निदर्शने कुत इयद् दूरम् । अस्माकं गृहव्यवस्थैव सूक्ष्मदृष्ट्या विलोक्यताम् । गृहेशः सकलारम्भमूलं धनमर्जयति । तेन च धान्यादि वस्तुजातं क्रीत्वा गृहिण्यै समर्पयति । सातत्साधु व्यवस्थाप्य पाकादि च निष्पाद्य सकलं कुटुम्बकं सुखयति । सोऽयं जीवनक्रमः श्रमविभजनेनैव सुखकरो नान्यथा । विभक्तः खलु श्रमोऽतीव सुसहो भूत्वा महते फलोदयाय कल्पते ।
नर्मदा– स्फुटतरमज्ञासिषं श्रमविभागतत्त्वम् । युवाभ्यां विवृतं च तत्सम्यक् प्रविष्टं मे हृदयम् । अधुना शिरसा धारयामि युवयोर्वचः । यावच्छक्यं च तवार्थसाधने प्रयतिष्ये ।
रुक्यिणी– प्रीतास्मि युवयोः परमादरेण । —रङ्गाचार्याः