सुभाषितम् - पुस्तकस्था तु या विद्या

81 views
Skip to first unread message

Usha

unread,
Mar 18, 2014, 6:49:47 AM3/18/14
to samskrte-...@googlegroups.com

पुस्तकस्था तु या विद्या परहस्तगतं धनं।

कार्यकाले समायाते न सा विद्या न तद्धनम्॥

पुस्तकस्था तु या विद्या परहस्तगतं धनं। कार्यकाले समायाते न सा विद्या न तत् धनम्॥

पुस्तकस्था तु या विद्या परहस्तगतं धनं। कार्यकाले समायाते न सा विद्या न तत् धनम्॥

पुस्तकस्था तु - ग्रन्थे स्थिता

या विद्या - यत् ज्ञानं

परहस्तगतं - परेषां अधीनं कृतं

धनं - अर्थः, संपत्

कार्यकाले समायाते - आवश्यकतायाः आगमने, अवसरे प्राप्ते

न सा विद्या - तत् ज्ञानं न ज्ञानमेव (निरर्थकं)

न तत् धनम् - तत् धनं न धनमेव (निरर्थकं)

यत् ज्ञानं पुस्तके स्थितं (न पुनः बुद्धौ) यते धनं परेषां हस्ते समर्पितं (न पुनः प्राप्तं) - ते द्वे उपयोगाय न भवतः। व्यर्थमेव तत् द्वयम्। 

Reply all
Reply to author
Forward
0 new messages