✍प्रस्तावविषयः-- द्रौपदी

10 views
Skip to first unread message

Suneesh Namboodiri

unread,
Dec 27, 2017, 11:21:35 PM12/27/17
to संस्कृते संवदेम

द्रुपदराजपुत्री द्रौपदी।
पाञ्चालदेशस्य कुमारी तथा पाण्डवानां पत्नी इत्यनेन एषा पाञ्चाली इति महाभारते विख्याता। कृष्णा सैरिन्ध्री नित्ययौवना वेदिजा इत्यादीनि अपरनामानि
द्रौपद्याः।।

पाञ्चालराजस्य द्रुपदस्य तीव्रप्रतिकारभावादेव द्रौपद्या उद्भवः। कथा एवमस्ति पूर्वं यज्ञसेन इत्याख्यातः द्रुपदः पाञ्चालराजस्य सोमकस्य पुत्र आसीत्। आयुधशिक्षणार्थं द्रुपदः भरद्वाजाश्रमं जगाम। तत्रैव द्रोणस्य परिचयो जातः। अथ कालान्तरे तयोः मैत्री दृढा जाता तदानीं द्रुपद द्रोणाय एवं उवाच। मित्र! आवयोः मध्ये भिन्नभाव: त्वया कदापि न चिन्तनीयः यदाहं राजा भविष्यामि निस्सङ्कोचं मम सकाशम् आगच्छ मम धने तवापि अधिकारो वर्तते अत अवश्यम् अहं तव दारिद्र्यं निवारयिष्ये इति।।

गुरुकुलजीवनान्तरं द्रोणस्य विवाहः सम्पन्नः। अश्वत्थामा इति तेजस्वी कुमारोऽपि जातः।
द्रोणः महादरिद्रः पुत्राय दुग्धमपि दातुम् अशक्य बभूव । एकदा द्रौणेः मित्राणि दुग्धम् इत्युक्त्वा तं तण्डुलपिष्टमिश्रितजलं दत्त्वा वञ्चितवन्तः। एतत् ज्ञात्वा द्रोण अतीव दुःखितो जातः।
कालान्तरे दारिद्र्येण नितरां पीडितः द्रोणः गुरुकुलमित्रस्य द्रुपदस्य वचनं स्मृता तं द्रष्टुं परिवारसमेतं राजभवनं गतवान्।।

तावता यज्ञान् यागान् च कृत्वा द्रुपद अतिसम्पन्नः ऐश्वर्ययुक्त: सन् राज्यं परिपालयति स्म। आपदि मित्रपरीक्षा इति खलु यदा द्रोण उपद्रुपदं सम्प्राप्तवान् तदा अहंकारी द्रुपदः द्रोणस्य परिचयमेव न प्रकटितवान् अपिच तं भृशं निन्दितवान् च। त्वं भिक्षुक अहं तु महाराज आवयोः मध्ये कोऽपि संबद्घः कदापि नास्ति तथापि परिवारसमेतमत्र आगतः ननु मम अन्नदाने भागं स्वीकर्तुम् अर्हसि इत्येवासीत् द्रुपदवचनम्। अपमानेन नितरां कोपाविष्ट: द्रोणः प्रतीकारशपथं कृत्वा ततः निर्गतवान्। पश्चात् द्रोणः हस्तिनापुरं जगाम तदा भीष्मेण कौरवपाण्डवानां गुरुस्थाने योजितः।।

अथैकदा गुरुदक्षिणार्पणसमयोप्यागतः पाञ्चालदेशं गत्वा तत्रत्यराजानं द्रुपदं युद्धे पराजीकृत्य बन्ध्वा मम पुरत आनयन्तु इत्येव शिष्यान् उवाच द्रोणः। द्रोणशिष्याः कौरवपण्डवाः तदेवाचरितवन्तः। एतेन द्रोणः द्रुपदस्योपरि प्रतीकारं कृतवान्। अपमानितः द्रुपदः तत्कालं क्षमाम् अयाचयन् पाञ्चालदेशस्य अर्धभागं द्रोणाय समर्पितवान्। वैरम् आजीवनं खलु अतः द्रुपदः द्रोणस्य हानिम् एव चिन्तयन् आभिचारक्रियासु मग्नो भूत्वा उपयाजा इत्यस्य मुनेः सहाय्येन अष्टादशमासपर्यन्तं यागं कृतवान्। यागाग्नौ कृष्णा इति महिला तथा सर्वायुधविभूषितः धृष्टद्युम्न: च आविर्भूतौ तदानीम् एषः द्रोणान्तकः भविष्यतीति अशरीरवाणी च आगता।अष्टलक्ष्म्यीषु विजयलक्ष्म्या अंशभूता सा कृष्णा एव द्रौपदी इति पश्चात् प्रसिद्धा जाता।।

महाभारतयुद्धस्य कारणेषु मुख्यानि कौरवाणाम् उपरि द्रौपद्या अपमानवचनानि एवासीत्। इन्द्रप्रस्थे अपमानितः दुर्योधनः सभामध्ये द्रौपद्याः वस्त्राक्षेपं कारयित्वा प्रतिकारं चकार तद्वारा दुश्शासनवधाय भीमेन शपथं कृतम्। द्रौपद्याः पञ्चपुत्रा आसन्।।

- प्रतिविन्ध्यः (युधिष्ठिरपुत्रः)

- श्रुतसेनः (भीमपुत्रः)

- श्रुतसोमः (अर्जुनपुत्रः)

- शतानीकः (नकुलपुत्रः)

- श्रुतकर्म (सहदेवपुत्रः)

द्रौपदी स्वस्य इष्टानिष्टान् सधैर्यं वदति स्म। महाभारतस्था शक्तैका नारीमणी च। द्रौपदी प्रतिकूलेसन्दर्भेष्वपि स्वकर्तव्यनिरता तथा धीरा चासीत्।।

~ सुनीश् नम्बूतिरि

Reply all
Reply to author
Forward
0 new messages