स्मरयति/स्मारयति

35 views
Skip to first unread message

Sivakumari Katuri

unread,
Dec 5, 2015, 11:20:20 AM12/5/15
to संस्कृते संवदेम
स्मृ आध्याने इति धातोः प्रेरणार्थे स्मरयति, स्मारयति इति रूरद्वयं भवति.
स्मृ णिच्
इत्संज्ञायां लोपे च स्मृ इ
'अचो ञ्णिति' इति वृद्धौ कृतायां स्मार् इ
लट् प्रथमपुरुषैकवचने स्मारयति इति रूपम्.
आध्यानैर्थे मित्त्वात् 'मितां ह्रस्वः' इति उपधायाः ह्रस्वे स्मरयति इति रूपम्. आध्यानम् उत्कण्ठापूर्वकं स्मरणम्.
अन्यत्र चिन्तादौ स्मारयति इत्येव प्रयोगः.
Reply all
Reply to author
Forward
0 new messages